SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ सू० ८१-८२ एकाशीति-व्यशीतिस्थानके । १७५ वियाहपण्णत्तीए एक्कासीतिं महाजुम्मसया पण्णत्ता । टी०] अथैकाशीतिस्थानके किञ्चिदुच्यते, नवनवमिकेति नव नवमानि दिनानि यस्यां सा नवनवमिका, भवन्ति च नवसु नवकेषु नव नवमदिनानि, तस्यां च भिक्षुप्रतिमायामेकाशीतिरात्रिंदिवानि भवन्त्येव, नवानां नवकानामेकाशीतिरूपत्वात्, तथा प्रथमे नवके प्रतिदिनमेकैका भिक्षा, एवमेकोत्तरया वृद्ध्या नवमे नवके नव नवेति 5 सर्वासां पिण्डने चत्वारि पञ्चोत्तराणि भिक्षाशतानि भवन्तीत्यत उक्तं चउहि येत्यादि, इह च भिक्षाशब्देन दत्तिरभिप्रेता, अहासुत्तं ति यथासूत्रं सूत्रानतिक्रमेण जाव त्ति करणाद् यथाकल्पं यथामार्गं यथातत्त्वं सम्यक्कायेन स्पृष्टा पालिता शोभिता तीरिता कीर्त्तिता आज्ञयाऽऽराधिता' इति द्रष्टव्यम् । वियाहपन्नत्तीए त्ति व्याख्याप्रज्ञप्त्यामेकाशीतिर्महायुग्मशतानि प्रज्ञप्तानि, इह शतशब्देनाध्ययनान्युच्यन्ते, 10 तानि कृतयुग्मादिलक्षणराशिविशेषविचाररूपाणि अवान्तराध्ययनस्वभावानि तदवगमावगम्यानीति ॥८१॥ [सू० ८२] जंबुद्दीवे दीवे बासीतं मंडलसतं जं सूरिए दुक्खुत्तो संकमित्ता णं चारं चरति, तंजहा- निक्खममाणे य पविसमाणे य । समणे भगवं महावीरे बासीतीए रातिदिएहिं वीतिकंतेहिं गब्भातो गब्भं 15 साहरिते । महाहिमवंतस्स णं वासहरपव्वयस्स अवरिल्लाओ चरिमंताओ सोगंधियस्स कंडस्स हेट्ठिल्ले चरिमंते एस णं बासीइं जोयणसयाई अबाहाए अंतरे पण्णत्ते। एवं रुप्पिस्स वि । [टी०] अथ द्व्यशीतिस्थानके किमपि लिख्यते, तत्र जम्बूद्वीपे द्व्यशीतं 20 द्व्यशीत्यधिकं मण्डलशतं सूर्यस्य मार्गशतं तद् भवति' इति वाक्यशेषः, किंभूतम् ? १. भगवतीसूत्रे ३५ तमे शतके द्वादश एकेन्द्रियमहायुग्मशतानि, ३६ तमे शतके द्वादश द्वीन्द्रियमहायुग्मशतानि, ३७ तमे शतके द्वादश त्रीन्द्रियमहायुग्मशतानि, ३८ तमे शतके द्वादश चतुरिन्द्रियमहायुग्मशतानि, ३९ तमे शतके द्वादश असंज्ञिपञ्चेन्द्रियमहायुग्मशतानि, ४० तमे शतके एकविंशतिः संज्ञिपञ्चेन्द्रियमहायुग्मशतानि सर्वसंख्यया १२+१२+१२+१२+१२+२१-८१ महायुग्मशतानि । एतेषु यद् वर्णितं तत् तत्रैव द्रष्टव्यं जिज्ञासुभिः ।। २. अपांतरा'
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy