________________
१७६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे यत् सूर्यो द्विकृत्वो द्वौ वारौ सङ्क्रम्य प्रविश्य चारं चरति, तद्यथा- निष्क्रामंश्च जम्बूद्वीपात् प्रविशंश्च जम्बूद्वीप एवेति, अयमत्र भावार्थः- किल चतुरशीत्यधिक सूर्यमण्डलशतं भवति, तत्र सर्वाभ्यन्तर-सर्वबाह्ये सकृदेव सङ्क्रामति शेषाणि तु द्वौ वाराविति, इह च द्व्यशीतिविवक्षयैवेदं व्यशीतिस्थानकेऽधीतमिति भावनीयम्, यद्यपि 5 च जम्बूद्वीपे पञ्चषष्टिरेव मण्डलानां भवति तथापि जम्बूद्वीपकसूर्यचारविषयत्वाच्छेषाण्यपि जम्बूद्वीपेन विशेषितानीति ।
समणे इत्यादि आषाढशुक्लषष्ठ्या आरभ्य व्यशीत्यां रात्रिंदिवेष्वतिक्रान्तेषु त्र्यशीतितमे वर्तमाने, अश्वयुजः कृष्णत्रयोदश्यामित्यर्थः, गर्भात् गर्भाशयाद्
देवानन्दाब्राह्मणीकुक्षित इत्यर्थः गर्भं त्रिशिलाभिधानक्षत्रियाकुक्षिं संहृतो नीतो 10 देवेन्द्रवचनकारिणा हरिनैगमेष्यभिधानदेवेनेति, इदं च सूत्रं द्व्यशीतिं रात्रिंदिवान्यधिकृत्य व्यशीतिस्थानकेऽधीयते, त्र्यशीतितमं रात्रिंदिवमाश्रित्य तु त्र्यशीतिस्थानके इति ।
महाहिमवंतस्सेत्यादि महाहिमवतो द्वितीयवर्षधरपर्वतस्य योजनशतद्वयोच्छ्रितस्य अवरिल्लाओ त्ति उपरिमाच्चरमान्तात् सौगन्धिककाण्डस्याधस्तनश्चरमान्तो
व्यशीतियो(ो? )जनशतानि, कथम् ? रत्नप्रभापृथिव्यां हि त्रीणि काण्डानि खरकाण्ड 15 पङ्ककाण्डमब्बहुलकाण्डं चेति, तत्र प्रथमं काण्डं षोडशविधम्, तद्यथा रत्नकाण्डम्
१, वज्रकाण्डम् २, एवं वैडूर्य ३ लोहिताक्ष ४ मसारगल्ल ५ हंसगर्भ ६ पुलक ७ सौगन्धिक ८ ज्योतीरस ९ अञ्जन १० अञ्जनपुलक ११ रजत १२ जातरूप १३ अक १४ स्फटिक १५ रिष्टकाण्डं चेति. १६, एतानि च प्रत्येकं सहस्रप्रमाणानि, ततश्च सौगन्धिककाण्डस्याष्टमत्वादशीतिः शतानि द्वे च शते महाहिमवदुच्छ्रय 20 इत्येवं द्व्यशीतिः शतानि इति, एवं रुक्मिणोऽपि पञ्चमवर्षधरस्य वाच्यम्, महाहिमवत्समानोच्छ्रायत्वात्तस्येति ।।८२।।
[सू० ८३] समणे भगवं महावीरे बासीतीए रातिदिएहिं वीतिकंतेहिं तेयासीइमे रातिदिए वट्टमाणे गब्भाओ गब्भं साहरिते ।
१. द्वितीयाद्विवचनमेतत् ॥ २. हरिनिग खं० । हरिणेगमे हे२ ॥ ३. 'चरिमा हे१.२ विना ।।