________________
१५०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गस्त्र एकषष्टिस्थानकम् ।
सूर्यमण्डलानामेकैकं मण्डलं तथाविधमार्गभूमिं सूर्यः षष्ट्या षष्ट्या मुहत्तैः द्वाभ्यां द्वाभ्यामहोरात्राभ्यामित्यर्थः सङ्घातयति निष्पादयति, अयमत्र भावार्थ:- एकस्मिन्नहनि यत्र स्थाने उदितः सूर्यस्तत्र स्थाने पुनाभ्यामहोरात्राभ्यामुदेतीति । अग्गोदयं ति षोडशसहस्रोच्छिताया वेलाया यदुपरि गव्यूतद्वयमानं वृद्धिहानिस्वभावं तदग्रोदकम् । 5 बलिरस त्ति औदीच्यस्य असुरकुमारनिकायराजस्य । बंभस्स त्ति ब्रह्मलोकाभिधान
आलोकेन्द्रस्य । सट्ठि त्ति सौधर्मे द्वात्रिंशदीशाने चाष्टाविंशतिर्विमानलक्षाणीति कृत्वा पाटिस्तानि भवन्तीति ।।६०।।
[सू० ६१] पंचसंवच्छरियस्स णं जुगस्स रिदुमासेणं मिजमाणस्स एगसटुिं उदुमासा पण्णत्ता । 10 मंदरस्स णं पव्वतस्स पढमे कंडे एगसटुिं जोयणसहस्साई उडेउच्चत्तेणं पण्णत्ते ।
चंदमंडले णं एगसट्ठिविभागभतिए समंसे पण्णत्ते । एवं सूरस्स वि । [टी०] अथ एकषष्टिस्थानकम्, तत्र पञ्चेत्यादि, पञ्चभिः संवत्स निर्वृत्तमिति पञ्चसांवत्सरिकम्, तस्य, णमित्यलङ्कारे, युगस्य कालमानविशेषस्य ऋतुमासेन 15 न चन्द्रादिमासेन मीयमानस्य एकषष्टिः ऋतुमासा: प्रज्ञप्ता:, इह चायं भावार्थ:
युगं हि पञ्च संवत्सरा निष्पादयन्ति, तद्यथा- चन्द्रश्चन्द्रोऽभिवर्द्धितः चन्द्रोऽभिवर्धितश्चेति, तत्र एकोनत्रिंशदहोरात्राणि द्वात्रिंशच्च द्विषष्टिभागा अहोरात्रस्येत्येवंप्रमाणेन २९ ३० कृष्णप्रतिपदारब्धेन पौर्णमासीनिष्ठितेन चन्द्रमासेन द्वादशमासपरिमाणश्चन्द्रसंवत्सरस्तस्य
च प्रमाणमिदम्- त्रीणि शतान्यह्नां चतुष्पञ्चाशदुत्तराणि द्वादश च द्विषष्टिभागा दिवसस्य 20 ३५४६२ , तथा एकत्रिंशद् दिवसा एकविंशत्युत्तरं च शतं चतुर्विंशत्युत्तरशतभागानां दिवसस्येत्येवंप्रमाणोऽभिवर्द्धितमासो भवति, ३१ ४, एतेन च मासेन द्वादशमासप्रमाणोऽभिवर्द्धितसंवत्सरो भवति, स च 'प्रमाणेन त्रीणि शतान्यह्नां त्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्विषष्टिभागा दिवसस्य ३८३ ६२ । तदेवं त्रयाणां
१. प्रमाणत: जे? हे१.२ । प्रमाणत जे२ ।।