________________
१४६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे पञ्चपञ्चाशत्स्थानकम ।
चउहिसि पि वेजयंतं जयंतं अपराजियं ति ।
समणे भगवं महावीरे अंतिमरातियंसि पणपण्णं अज्झयणाई कल्लाणफलविवागाइं पणपण्णं अज्झयणाणि पावफलविवागाणि वागरेत्ता सिद्धे बुद्धे जाव प्पहीणे । 5 पढम-बितियासु दोसु पुढवीसु पणपण्णं निरयावाससतसहस्सा पण्णत्ता।
दंसणावरणिज-णामा-ऽऽउयाणं तिण्हं कम्मपगडीणं पणपण्णं उत्तरपगडीतो पण्णत्तातो ।
टी०] पञ्चपञ्चाशत्स्थानके किञ्चिद् लिख्यते । मंदरस्सेत्यादि, इह मेरो: पश्चिमान्तात पूर्वस्य जम्बूद्वीपद्वारस्य पश्चिमान्तः पञ्चपञ्चाशत् सहस्राणि योजनाना भवतीत्युक्तम. तत्र 10 किल मेरोर्विष्कम्भमध्यभागात् पञ्चाशत् सहस्राणि द्वीपान्तो भवति, लक्षप्रमाणत्वाद
द्वीपस्य, मेरुविष्कम्भस्य च दशसाहसिकत्वाद् द्वीपार्धे पञ्चसहस्रक्षेपेण पञ्चपञ्चाशदव भवतीति, इह च यद्यपि विजयद्वारस्य पश्चिमान्त इत्युक्तं तथापि जगत्याः पूर्वान्त इति किल सम्भाव्यते, मेरुमध्यात् पञ्चाशतो योजनसहस्राणां जगत्या बाह्यान्ते पूर्यमाणत्वात्,
जम्बूद्वीपजगतीविष्कम्भेण च सह जम्बूद्वीपलक्षं पूरणीयम्, लवणसमुद्रजगतीविष्कम्भेण 15 च सह लवणसमुद्रलक्षद्वयमन्यथा द्वीपसमुद्रमानाजगतीमानस्य पृथग् गणने
मनुष्यक्षेत्रपरिधिरतिरिक्ता स्यात्, सा हि पञ्चचत्वारिंशल्लक्षप्रमाणक्षेत्रापेक्षयाऽभिधीयत, ततश्चैवमतिरिक्ता स्यादिति, अथवेह किञ्चिद्नापि पञ्चपञ्चाशत् पूर्णतया विवक्षितेति । अंतिमराइयंसि त्ति सर्वायु:कालपर्यवसानरात्रौ रात्रेर्वाऽन्तिमे भागे पापायां मध्यमायां नगर्यां हस्तिपालस्य राज्ञः करणसभायां कार्तिकमासामावास्यायां स्वातिना नक्षत्रेण 20 चन्द्रमसा युक्तेन नागे करणे प्रत्यूषसि पर्यकासननिषण्णः पञ्चपञ्चाशदध्ययनानि
कल्लाणफलविवागाइं ति कल्याणस्य पुण्यस्य कर्मणः फलं कार्यं विपाच्यते व्यक्तीक्रियते यैस्तानि कल्याणफलविपाकानि, एवं पापफलविपाकानि, व्याकृत्य प्रतिपाद्य सिद्धो बुद्धः, यावत्करणात् ‘मुत्ते अंतकडे परिनिव्वुड़े सव्वदक्खप्पहीणे' १. "नके त्विदं लि जे१ ख० हे१.२ ।। २. मंदरस्येत्यादि जे१ खं० ११.२ ।। ३. भवंतीति ज? खं० ह।। ४. च नास्ति जेर ।।