________________
एकानपञ्चाशत्-पञ्चाशत्स्थानक ।
[मू० ५०]
१४१ टी०] अथैकोनपञ्चाशत्स्थानके लिख्यते, सत्तसत्तमिया णं सप्त सप्तमानि दिनानि यस्यां सा सप्तसप्तमिका, सप्त च सप्तमदिनानि भवन्ति सप्तसु सप्तकेषु, अतः सा सप्तदिनसप्तकमयत्वादेकोनपञ्चाशता दिनैर्भवतीति । पडिम त्ति अभिग्रहः । छन्नउएणं भिक्खासएणं ति प्रथमे दिनसप्तके प्रतिदिनमेकोत्तरया भिक्षावृद्ध्या अष्टाविंशतिर्भिक्षा भवन्ति, एवं च सप्तस्वपि षण्णवतं भिक्षाशतं भवति, अथवा प्रतिसप्तकमेकोत्तरया 5 वृद्ध्या यथोक्तं भिक्षामानं भवति, तथाहि- प्रथमे सप्तके प्रतिदिनमेकैकभिक्षाग्रहणात् सप्त भिक्षा भवन्ति, द्वितीये द्वयोर्द्वयोर्ग्रहणाच्चतुर्दश, एवं सप्तमे सप्तानां ग्रहणादेकोनपञ्चाशदित्येवं सर्वसङ्कलने यथोक्तं मानं भवतीति, अहासुत्तं ति यथासूत्रं यथागमं सम्यक् कायेन स्पृष्टा भवति' इति शेषो द्रष्टव्यः । संपत्तजोव्वणा भवंति त्ति न मातापितृपरिपालनामपेक्षन्त इत्यर्थः । ठिइ त्ति आयुष्कम् ।।४९।। 10 [सू० ५०] मुणिसुव्वयस्स णं अरहतो पंचासं अजियासाहस्सीतो होत्था। अणंतती णं अरहा पण्णासं धणूई उड्डूंउच्चत्तेणं होत्था । पुरिसोत्तमे णं वासुदेवे पण्णासं धणूइं उर्दूउच्चत्तेणं होत्था ।
सव्वे वि णं दीहवेयड्डा मूले पण्णासं पण्णासं जोयणाणि विक्खंभेणं पण्णत्ता। लंतए कप्पे पण्णासं विमाणावाससहस्सा पण्णत्ता ।
सव्वातो णं तिमिसगुहा-खंडगप्पवातगुहातो पण्णासं पण्णासं जोयणाई आयामेणं पण्णत्तातो ।
सव्व वि णं कंचणगपव्वया सिहरतले पण्णासं पण्णासं जोयणाई विक्खंभणं पण्णत्ता ।
20 [टी०] अथ पञ्चाशत्स्थानकम्, तत्र पुरिसोत्तिम त्ति चतुर्थवासुदेवोऽनन्तजिनकालभावी । तथा कंचणग त्ति उत्तरकुरुषु नीलवदादीनां पञ्चानामानुपूर्वीव्यवस्थितानां महाह्रदानां पूर्वापरपार्श्वयोः प्रत्येकं दश दश काञ्चनपर्वता भवन्ति, ते च सर्वे शतम्, एवं देवकुरुषु निषधादीनां महाह्रदानां पार्श्वतः शतं भवति,
१. सम्यग न्यायन ह२ विना । दृश्यतामेकाशीतिस्थानकटीकायाम् ।।