________________
म० ३५] पञ्चत्रिंशत्स्थानकम् ।
१२७ सोहम्मे कप्पे सभाए सोहम्माए माणवए चेतियक्खंभे हेट्ठा उवरिं च अद्धतरस अद्धतेरस जोयणाणि वजेत्ता मज्झे पणतीसाए जोयणेसु वतिरामएसु गोलवट्टसमुग्गतेसु जिणसकहातो पण्णत्तातो ।
बितिय-चउत्थीसु दोसु पुढवीसु पणतीसं निरयावाससयसहस्सा पण्णत्ता । [टी०] पञ्चत्रिंशत्स्थानकं सुगमम्, नवरं सत्यवचनातिशया आगमे न दृष्टाः, एते 5 तु ग्रन्थान्तरदृष्टाः सम्भाविता:, वचनं हि गुणवद्वक्तव्यम्, तद्यथा - संस्कारवत् १, उदात्तम् २, उपचारोपेतम् ३, गम्भीरशब्दम् ४, अनुनादि ५, दक्षिणम् ६, उपनीतरागम् ७. महार्थम् ८, अव्याहतपौर्वापर्यम् ९, शिष्टम् १०, असन्दिग्धम् ११, अपहृतान्योत्तरम् १२, हृदयग्राहि १३, देशकालाव्यतीतम् १४, तत्त्वानुरूपम् १५, अप्रकीर्णप्रसृतम् १६, अन्योन्यप्रगृहीतम् १७, अभिजातम् १८, अतिस्निग्धमधुरम् १९, अपरमर्मविद्धम् २०, 10 अर्थधर्माभ्यासानपेतम् २१, उदारम् २२, परनिन्दात्मोत्कर्षविप्रयुक्तम् २३, उपगतश्लाघम् २४. अनपनीतम् २५, उत्पादिताच्छिन्नकौतूहलम् २६, अद्रुतम् २७, अनतिविलम्बितम् २८. विभ्रम-विक्षेप-किलिकिञ्चितादिवियुक्तम् २९, अनेकजातिसंश्रयाद्विचित्रम् ३०, आहितविशेषम् ३१, साकारम् ३२, सत्त्वपरिग्रहम् ३३, अपरिखेदितम् ३४, अव्युच्छेदम् ३५ चेति । तत्र संस्कारवत्त्वं संस्कृतादिलक्षणयुक्तत्वम् १, उदात्तत्वम् उच्चैर्वृत्तिता 15 २. उपचारोपेतत्वम् अग्राम्यता ३, गम्भीरशब्दत्वं मेघस्येव ४, अनुनादित्वं प्रतिरवोपेतता ५. दक्षिणत्वं सरलत्वम् ६, उपनीतरागत्वं मालवेशिकादिग्रामरागयुक्तता ७ एते सप्त शब्दापेक्षा अतिशयाः, अन्ये त्वर्थाश्रया:, तत्र महार्थत्वं बृहदभिधेयता ८, अव्याहतपौर्वापर्यत्वं पूर्वापरवाक्याविरोध: ९, शिष्टत्वम् अभिमतसिद्धान्तोक्तार्थता वक्तुः शिष्टतासूचकत्वं वा १०, असन्दिग्धत्वम् असंशयकारिता ११, अपहृतान्योत्तरत्वं 20 परदूषणाविषयता १२, हृदयग्राहित्वं श्रोतृमनोहरता १३, देशकालाव्यतीतत्व प्रस्तावोचितता १४, तत्त्वानुरूपत्वं विवक्षितवस्तुस्वरूपानुसारिता १५, अप्रकीर्णप्रसृतत्वं १. अप्रकीर्ण प्रमृतम् जे२ । अप्रकीर्णं प्रसृतम् जे१ हे२ ।। २. च ३५ वचनं महानुभावैर्वक्तव्यमिति ।छ। नथा दत्तः सप्तमवासुदेव: हे२ ।। ३. 'शब्दं जे२ ॥ ४. मालवकेशिकादि' जैसं०१। मालवकैशिक्यादि है ।। ५. पेक्षया जे२ हे? ।।