________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
सुसम्बन्धस्य सतः प्रसरणम्, अथवाऽसम्बद्धाधिकारित्वा-ऽतिविस्तरयोरभाव: १६. अन्योन्यप्रगृहीतत्वं परस्परेण पदानां वाक्यानां वा सापेक्षता १७, अभिजातत्वं वक्तुः प्रतिपाद्यस्य वा भूमिकानुसारिता १८, अतिस्निग्ध-मधुरत्वं घृत-गुडादिवत् सुखकारित्वम् १९. अपरमर्मवेधित्वं परमर्मानुद्घट्टनस्वरूपत्वम् २०, अर्थ-धर्माभ्यासानपेतत्वम् 5 अर्थ-धर्मप्रतिबद्धत्वम् २१, उदारत्वम् अभिधेयार्थस्यातुच्छत्वं गुम्फगुणविशेषा वा
२२, परनिन्दात्मोत्कर्षविप्रयुक्तत्वमिति प्रतीतमेव २३, उपगतश्लाघत्वम् उक्तगुणयोगात् प्राप्तश्लाघता २४, अनपनीतत्वं कारक-काल-वचन-लिङ्गादिव्यत्ययरूपवचनदोषापेतता २५, उत्पादिताच्छिन्नकौतूहलत्वं स्वविषये श्रोतृणां जनितमविच्छिन्नं कौतुकं येन तत्तथा
तन्द्रावस्तत्त्वम् २६, अद्रुतत्वम् अनतिविलम्बितत्वं च प्रतीतम् २७-२८. विभ्रम10 विक्षेप-किलिकिञ्चितादिवियुक्तत्वम्, विभ्रमो वक्तृमनसो भ्रान्तता, विक्षेप:
तस्यैवाभिधेयार्थं प्रत्यनासक्तता, किलिकिञ्चितं रोषभयाभिलाषादिभावानां युगपदसकृत्करणमादिशब्दान्मनोदोषान्तरपरिग्रहस्तैर्विमुक्तं यत्तत्तथा, तद्भावस्तत्त्वम् २९. अनेकजातिसंश्रयाद्विचित्रत्वम्, इह जातयो वर्णनीयवस्तुस्वरूपवर्णनानि ३०.
आहितविशेषत्वं वचनान्तरापेक्षया ढौकितविशेषता ३१, साकारत्वं विच्छिन्नवर्ण-पद15 वाक्यत्वेनाकारप्राप्तत्वम् ३२, सत्त्वपरिगृहीतत्वं साहसोपेतता ३३. अपरिखेदितत्वम
अनायाससम्भव: ३४, अव्युच्छेदित्वं विवक्षितार्थसम्यकसिद्धिं यावदव्यवच्छिन्नवचनप्रमेयतेति ३५ ।
तथा दत्तः सप्तमवासुदेवः, नन्दनः सप्तमबलदेवः, एतयोश्चावश्यकाभिप्रायेण षडविंशतिर्धनुषामुच्चत्वं भवति, सुबोधं च तत्, यतोऽरनाथ-मल्लिस्वामिनोरन्तरे 20 तावभिहितौ, यतोऽवाचि- अर-मल्लिअंतरे दोण्णि केसवा पुरिसपुंडरीय-दत्त [आव० नि०
४२०] त्ति, अरनाथ-मल्लिनाथयोश्च क्रमेण त्रिंशत् पञ्चविंशतिश्च धनुषामुच्चत्वम्,
१. विलम्बित्वं हे, विना ।। २. “वियुक्तं वि' जे१ ॥ ३. वस्तुरूप' खं० ।। ४. वण्णण वासुदवा सव्वं नीला बला य मुक्किलया । एएसि देहमाण वुच्छामि अहाणपुवीए ॥४०२।। पढमो धणूणऽसीई सत्तरी सट्टा य पन्न पणयाला । अउणतीसं च धणू छव्वीस सोलसा दसेव ॥४०३।। - इति आवश्यकहारिभद्रयां वृत्तो ।। ... "अरश्च मलिश्व अरमल्ला तयारन्तरम् अपान्तराल तस्मिन्, द्वौ केशवौ भविष्यतः, को द्वौ इत्याह- पुरुषपण्डरीकदत्तो ।।" - इति आवश्यकस्य हारिभद्रयां वृत्तौ ।।