________________
१२६
आचार्यश्रीअभयदेवसरिविरचितटीकासहिते समवायाङ्गसूत्र
प्रशान्तचित्रमानसा धर्म निशामयन्ति इति चतुर्विंशः २४. बृहद्वाचनायामिदमन्यदतिशयद्वयमधीयते, यदुत- अन्यतीर्थिकप्रावनिका अपि च णं वन्दन्ते भगवन्तमिति गम्यते इति पञ्चविंशः २५. आगताः सन्तोऽर्हत: पादमूले निष्प्रतिवचना भवन्ति इति षड्विंश: २६, जओ जओ वि य णं ति यत्र यत्रापि 5 च देशे, तओ तओ त्ति तत्र तत्रापि च पञ्चविंशतौ योजनेषु. इति: धान्याद्युपद्रवकारी प्रचुरमूषिकादिप्राणिगण इति सप्तविंश: २७, मारि: जनमरक इत्यष्टाविंश: २८. स्वचक्रं स्वकीयराजसैन्यम्. तदपद्रवकारि न भवतीति एकोनत्रिंश: २९, एवं परचक्रं परराजसैन्यमिति त्रिंश: ३०, अतिवृष्टिः अधिकवर्ष इत्येकत्रिंशः ३१. अनावृष्टिः
वर्षणाभाव इति द्वात्रिंश: ३२, दुर्भिक्षं दुष्काल इति त्रयस्त्रिंशः ३३. उप्पाइया वाहि 10 त्ति उत्पाता: अनिष्टसूचका रुधिरवृष्ट्यादयस्तद्धेतुका येऽनास्ते औत्पातिकास्तथा
व्याधयो ज्वराद्यास्तदपशम: अभाव इति चतुस्त्रिंशत्तमः ३४ । अत्र च पच्चाहरआ इत आरभ्य येऽभिहितास्ते प्रभामण्डलं च कर्मक्षयकृताः, शेषा भवप्रत्ययेभ्योऽन्ये देवकृता इति, एते च यदन्यथापि दृश्यन्ते तन्मतान्तरमवगन्तव्यमिति ।
___ चक्कवट्टिविजय त्ति चक्रवर्तिविजेतव्यानि क्षेत्रखण्डानि । उक्कोसपए चोत्तीसं 15 तित्थगरा समुप्पजति त्ति समुत्पद्यन्ते सम्भवन्तीत्यर्थः, न त्वेकसमये जायन्ते.
चतुर्णामवैकदा जन्मसम्भवात्, तथाहि - मेरौ पूर्वापरशिलातलयो द्वे एव सिंहासने भवतोऽतो द्वावेव द्वाववाभिषिच्यते अतो द्वयोर्द्वयोरेव जन्मति, दक्षिणोत्तरयोस्तु क्षेत्रयोस्तदानी दिवससद्भावात् न भरतैरवतयोर्जिनोत्पत्तिरर्द्धरात्र एव जिनोत्परिति ।
पढमेत्यादि प्रथमायां पृथिव्यां त्रिंशन्नरकावासानां लक्षाणि, पञ्चम्यां त्रीणि षष्ठ्यां पञ्चानं 20 लक्षं सप्तम्यां पञ्च नरका:. एवं सर्वमीलने चतुस्त्रिंशल्लक्षाणि भवन्तीति ।।३४।।
[सृ० ३५] पणतीसं सच्चवयणाइसेसा पण्णत्ता । कुंथू णं अरहा पणतीसं धणूई उडुंउच्चत्तेणं होत्था । दत्ते णं वासुदेवे पणतीसं धणूइं उर्दूउच्चत्तेणं होत्था । नंदणे णं बलदेवे पणतीसं धणूई उडेउच्चत्तेणं होत्था ।
१. इति नास्ति जे खल