________________
१२४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसत्रे
छत्रत्रयमित्यर्थ इति सप्तमः ७. आकाशके प्रकाश श्वेतवरचामरे प्रकीर्णक इत्यष्टमः ८. आगासफालियामयं ति आकाशमिव यदत्यन्तमच्छे स्फटिकं तन्मयं सिंहासनं सह पादपीठेन सपादपीठमिति नवमः ९. आयासगओ त्ति आकाशगतोऽत्यर्थं तृङ्ग इत्यर्थः, कडभि त्ति लघुपताका: संभाव्यन्ते, तत्सहस्रः 5 परिमण्डितश्चासावभिरामश्च अभिरमणीय इति विग्रहः, इंदज्झओ त्ति
शेषध्वजापेक्षयाऽतिमहत्वादिन्द्रश्चासौ ध्वजश्च इन्द्रध्वज इति विग्रहः, इन्द्रत्वसूचका ध्वज इति वा. पुरओ त्ति जिनस्याग्रतो गच्छतीति दशमः १०. चिटुंति वा निसीयंति व त्ति तिष्ठन्ति गतिनिवृत्त्या निषीदन्ति उपविशन्ति. तक्खणादेव त्ति तत्क्षणमेव
अकालहीनमित्यर्थः, पत्रैः संछन्न: पत्रसंछन्न इति वक्तव्ये प्राकृतत्वात संछन्नपत्र इत्युक्तं 10 स चासौ पुष्पपल्लवसमाकुलश्चेति विग्रहः, पल्लवा: अकुराः, सच्छत्र: सध्वजः
सघण्ट: सपताकोऽशोकवरपादप इत्येकादशः ११. ईसि त्ति ईषद् अल्प पिट्ठओ त्ति पृष्ठतः पश्चाद्भागे मउडट्ठाणम्मि त्ति मस्तकप्रदेशे तेजोमण्डलं प्रभापटलमिति द्वादशः १२, बहुसमरमणीयो भूमिभाग इति त्रयोदशः १३. अहोसिर त्ति अधोमुखाः
कण्टका भवन्तीति चतुर्दश: १४, ऋतवोऽविपरीता:, कथमित्याह- सुखस्पा 15 भवन्तीति पञ्चदश: १५. योजनं यावत् क्षेत्रशुद्धिः संवतंकवातेनति षोडश: १६,
जुत्तफुसिएणं ति उचितबिन्दुपातेन निहयरय-रेणुयं ति वातोत्खातमाकाशवर्ति रजो भूवर्ता तु रेणुरिति गन्धादकवर्षाभिधानः सप्तदशः १७, जलस्थलजं यद् भास्वरं प्रभूतं च कुसुमं तेन वृन्तस्थायिना उर्ध्वमुखेन दशार्द्धवर्णेन पञ्चवर्णेन, जानुनोरुत्सेधस्य
उच्चत्वस्य यत् प्रमाणं तदेव प्रमाण यस्य स जानूत्सेधप्रमाणमात्र: पुष्पोपचार: 20 पुष्पप्रकर इत्यष्टादश: १८, तथा कालागरुपवरकुंदुरुक्कतुरुक्कधूवमघमघेतगंधुद्ध
याभिरामे भवइ त्ति कालागरुश्च गन्धद्रव्यविशेषः प्रवरकुन्दरुक्कं च चीडाभिधानं गन्धद्रव्यं तुरुक्कं च शिल्हकाभिधानं गन्धद्रव्यमिति द्वन्द्वस्तत एतल्लक्षणो यो धूपस्तस्य मघमघायमानो बहलसौरभ्यो यो गन्ध उद्भूत उद्भुतस्तेनाभिरामम् अभिरमणीय १. आयासआ त्ति जे? हे..२ । असओ त्ति ज२ ।। २. कालागुरु ज” हे१.२ ।। ३. कालागुरु
जे५ हे५.० ।। ४. तरुष्क जे२ ।। ५. हे१ विना- उद्वत्त ख० जे । उधत ह२ ।।