________________
म० ३०
त्रिंशत्स्थानकम् ।
१११
आचार्यादीन् श्रुतदान-ग्लानावस्थाप्रतिचरणादिभिस्तर्पितवतः उपकृतवतः सम्यक् न प्रतितप्र्पयति विनयाहारोपध्यादिभिर्न प्रत्युपकरोति. तथा अप्रतिपूजको न पूजाकारी, तथा स्तब्धो मानवान् स महामोहं प्रकरोतीति द्वाविंशतितमम् २२ ।
अबहुस्सुए य जे केइ सुएण पविकंथई । सज्झायवायं वयति महामोहं पकुव्वति ।।२३।।
अबहुश्रुतश्च यः कश्चित् श्रुतेन प्रविकत्थते आत्मानं श्लाघते श्रुतवानहमनुयोगधरोऽहमित्येवम्, अथवा कस्मिंश्चित ‘स त्वमनुयोगाचार्यो वाचको वा इति पृच्छति प्रतिभणति- आमम्, स्वाध्यायवादं वदति विशुद्धपाठकोऽहमित्यादिकं यः स महामाहं श्रुतालाभहेतुं प्रकरोतीति त्रयोविंशतितमम् २३ ।
अतवस्सिए य जे केइ तवेण पविकंथइ । सव्वलोयपर तेणे महामोहं पकुव्वति ।।२४।। सुगमम. नवरं सर्वलोकात् सर्वजनात सकाशात् परः प्रकृष्टः स्तेन: चौरो भावचारत्वात महामोहम् अतपस्विताहेतुं प्रकरोतीति चतुर्विंशतितमम् २४ । माहारणट्ठा जे केइ गिलाणम्मि उवट्ठिए । पभू ण कुव्वई किच्चं मज्झं पि से न कुव्वति ।। सढे नियडिपण्णाणे कलुसाउलचेयसे । अप्पणो य अबोहीए महामोहं पकुव्वति ।।२५।। साधारणार्थमुपकारार्थं यः कश्चिदाचार्यादिग्र्लाने रोगवति उपस्थिते प्रत्यासन्नीभूते प्रभुः समर्थ उपदेशनौषधादिदानेन च स्वतोऽन्यतश्चोपकारे न करोति कृत्यमुपेक्षते 20 इत्यर्थः, केनाभिप्रायेणेत्याह- ममाप्येष न करोति किंचनापि कृत्यं समर्थोऽपि सन्निति दुषण. असमर्थो वाऽयं बालत्वादिना, किं कृतेनास्य ? पुनरुपकर्तुमशक्तत्वादिति लाभनति. शठः कैतवयुक्तः शक्तिलोपनात्, निकृति: माया तद्विषये प्रज्ञानं यस्य स तथा. ग्लान. प्रतिचरणीयो मा भवत्विति ग्लानवेषमहं करोमीति विकल्पवानित्यर्थः, अत एव कलुषाकुलचेताः आत्मनश्चाबोधिको भवान्तराप्राप्तव्यजिनधर्मको 25
15