________________
5
10
आचार्य श्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
अक्षयत्वेन वा जिनानाम् अर्हतां वरदर्शिनां क्षायिकदर्शनित्वात् तेषां ये ज्ञानाद्यनेकातिशयसम्पदुपेतत्वेन भुवनत्रये प्रसिद्धाः अवर्णः अवर्णवादो वक्तव्यत्वेन यस्यास्ति सोऽवर्णवान् यथा - नास्ति कश्चित् सर्वज्ञः ज्ञेयस्यानन्तत्वात्.
उक्तं च
११०
अज्ज वि धावड नाणं अज्ज वि य अनंतओ अलोगां वि ।
अजविन कोइ विहं पावति सव्वन्नुयं जीवो ||
अह पावति तो संतो होड़ अलोओ न चेयमिति । [ ] त्ति ।
अदूषणं चैतद्, उत्पत्तिसमय एव केवलज्ञानं युगपल्लोकालोको प्रकाशयदुपजायते. यथाऽपवरकान्तर्वर्त्तिदीपकलिका अपवरकमध्यमित्यभ्युपगमादिति. बालः अज्ञो महामोहं प्रकरोतीति एकोनविंशतितमम् १९ ।
नेयाउयस्स मग्गस्स दुट्ठे अवयरई बहु ।
तं तिप्पयंतो भावेति महामोहं पकुव्वति ||२०||
नैयायिकस्य न्यायमनतिक्रान्तस्य मार्गस्य सम्यग्दर्शनादेः मोक्षपथस्य दुष्टो द्विष्टो वा अपकरोति अपकारं करोतीति, बहु अत्यर्थम् पाठान्तरेण अपहरति बहुजन विपरिणमयतीति भावः तं मार्ग तिप्पयंतो त्ति निन्दन् भावयति निन्दया द्वेषेण वा 15 वासयति आत्मानं परं च यः स महामोहं प्रकरोतीति विंशतितमम् २० ।
आयरियउवज्झाएहिं सुयं विणयं च गाहिए ।
ते चेव खिंसती बाले महामोहं पकुव्वति ||२१||
आचार्योपाध्यायैर्यैः श्रुतं स्वाध्यायं विनयं च चरित्रं ग्राहित: शिक्षितः तानेव खिंसति निन्दति 'अल्पश्रुता एते' इत्यादि ज्ञानतः, 'अन्यतीर्थिकसंसर्गकारिणः' इत्यादि 20 दर्शनतः, ‘मन्दधर्माणः पार्श्वस्थादिस्थानवर्त्तिनः' इत्यादि चरित्रतः यः स एवंभूतो बालो महामोहं प्रकरोतीत्येकविंशतितमम् २१ । आयरियउवज्झायाणं सम्मं नो पडितप्पड़ । अप्पडिपूयए थद्धे महामोहं पकुव्वति ||२२||
१. अलोगो त्ति । जेर हे१.२ ।। २ णामयतीति खं० ॥