________________
[म
त्रिंशत्स्थानकम् ।
१००
जे नायगं व रट्ठस्स नेयारं निगमस्स वा । सेटिं बहुरवं हंता महामोहं पकुव्वति ।।१६।।
यो नायकं वा प्रभु राष्ट्रस्य राष्ट्रमहत्तरादिकमिति भावः, तथा नेतारं प्रवर्तयितारं प्रयोजनेषु निगमस्य वाणिजकसमूहस्य, कम् ? श्रेष्ठिनं श्रीदेवताकितपट्टबद्धम्, किंभूतम् ? बहुरवं भूरिशब्दं प्रचुरयशसमित्यर्थः हत्वा महामोहं प्रकुरुत इति षोडशम् 5
15
बहुजणस्स णेयारं दीवं ताणं च पाणिणं । एयारिसं नरं हंता महामोहं पकुव्वति ॥१७||
बहजनस्य पञ्चषादीनां लोकानां नेतारं नायकं द्वीप इव द्वीप: संसारसागरगतानामाश्वासस्थानम्, अथवा दीप इव दीपोऽज्ञानान्धकारावृत- 10 द्धिदृष्टिप्रसराणां शरीरिणां हेयोपादेयवस्तुस्तोमप्रकाशकत्वात्, तम्, अत एव त्राणम् आपद्रक्षणं प्राणिनामेतादृशं यादृशा गणधरादयो भवन्ति, नरं प्रावचनिकादिपुरुष हत्वा महामोहं प्रकरोतीति सप्तदशम् १७ ।
उवट्ठियं पडिविरयं संजयं सुतवस्सियं । वोकम्म धम्मओ भंसे महामोहं पकुव्वति ॥१८॥ उपस्थितं प्रव्रज्यायाम्, प्रविब्रजिषुमित्यर्थः, प्रतिविरतं सावद्ययोगेभ्यो निवृत्तम्, प्रव्रजितमेवेत्यर्थः, संयतं साधुम्, सुतपस्विनं तपांसि कृतवन्तं शोभनं वा तप: श्रितम् आश्रितम्, क्वचित् जे भिक्खु जगजीवणं ति पाठः, तत्र जगन्ति जङ्गमानि अहिंसकत्वेन जीवयतीति जगजीवनस्तं विविधैः प्रकारैरुपक्रम्याक्रम्य व्युपक्रम्य, बलादित्यर्थः, धर्मात् श्रुत-चारित्रलक्षणाद् भ्रंशयति यः स महामोहं प्रकरोतीति 20 अष्टादशम् १८ । तहेवाणतणाणीणं जिणाणं वरदंसिणं । तेसिं अवण्णिम बाले महामोहं पकुव्वति ॥१९।। यथैव प्राक्तनं मोहनीयस्थानं तथैवेदमपि, अनन्तज्ञानिनां ज्ञानस्यानन्तविषयत्वेन १. व्युपाक्रम्य ज२ । व्युपक्रम्य नास्ति जे५ हे५.२ ।।