SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 10 गूढायारी निगूहेज्जा मायं मायाए छायए । असच्चवाई णिण्हाई महामोहं पकुव्वइ ||७|| गूढाचारी प्रच्छन्नाचारवान् निगूहयते गोपयेत्, स्वकीयं प्रच्छन्नं दुष्टमाचारम्, तथा मायां परकीयां मायया स्वकीयया छादयेत् जयेत् यथा शकुनिमारकाश्छदैरात्मानमावृत्य 5 शकुनीन् गृह्णन्तः स्वकीयमायया शकुनिमायां छादयन्ति तथा असत्यवादी निह्नवी अपलापकः स्वकीयाया मूलगुणोत्तरगुणप्रतिसेवायाः सूत्रार्थयोर्वा महामोहं प्रकरोतीति 15 १०६ 20 आचार्य श्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे सप्तमम् । धंसेड़ जो अभूएणं अम्मं अत्तकम्मुणा । अदुवा ममकासित महामोहं पकुव्व ॥८॥ ध्वंसयति छायया भ्रंशयति यः पुरुषोऽभूतेन असद्भूतेन कम् ? अकर्मकम् अविद्यमानदुश्चेष्टितम् आत्मकर्मणा आत्मकृतऋषिघातादिना दुष्टव्यापारण अदुवा अथवा यदन्येन कृतं तदाश्रित्य परस्य समक्षमेव त्वमकार्षीरतन्महापापमिति वदति वदिक्रियायाः गम्यमानत्वात् स इत्यस्यापि गम्यमानत्वात् स महामोहं प्रकरोतीत्यष्टमम् ८ । जाणमाणो परिसओ सच्चामोसाणि भासति । अक्खीणझंझे पुरिसे महामोहं कुव्वति ||९|| जानान: यथा अनृतमेतत्, परिषदः सभाया बहुजनमध्ये इत्यर्थः, सत्यामृषाणि किञ्चित्सत्यानि बह्वसत्यानि वस्तूनि वाक्यानि वा भाषते अक्षीणझञ्झः अनुपरतकलहः यः स इति गम्यते, महामोहं प्रकरोतीति नवमम् ९ । अणायगस्स नयवं दारे तस्सेव धंसिया । विउलं विक्खोभइत्ताणं किच्चा णं पडिबाहिरं || उवगसंतं पि झंपिता पडिलोमाहिं वग्गूहिं । भोगभोगे वियारेति महामोहं पकुव्वति ||१०|| अनायकः अविद्यमाननायको राजा, तस्य, नयवान् नीतिमानमात्यः, स तस्यैव १. स नास्ति खं० हे ।। २ प्रतिषु पाठ:- सत्यामुषाणि किंचित्स" हे२ । सत्यमृषा किंचित्स हर विना ॥ ३ बहन्यसत्यानि जे२ । बहसत्यानि नास्ति खं० ॥
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy