________________
10
(म० ३०
त्रिंशत्म्थानकम्। राज्ञो दारान् कलत्रं द्वारं वा अर्थागमस्योपायं ध्वंसयित्वा भोगभोगान् विदारयतीति सम्बन्धः. किं कृत्वा ? विपुलं प्रचुरमत्यर्थमित्यर्थः, विक्षोभ्य सामन्तादिपरिकरभेदेन संक्षोभ्य नायकम, तस्य क्षोभं जनयित्वेत्यर्थः, कृत्वा विधाय णमित्यलकारे प्रतिबाह्यम् अनधिकारिणं दारेभ्योऽर्थागमद्वारेभ्यो वा, दारान् राज्यं वा स्वयमधिष्ठायेत्यर्थः । तथा उपकसन्तमपि समीपमागच्छन्तमपि, सर्वस्वापहारे 5 कृते प्राभतेनानुलोमैः करुणैश्च वचनैरनुकूलयितुमुपस्थितमित्यर्थः, झम्पयित्वा नष्टवचनावकाशं कृत्वा प्रतिलोमाभिः तस्य प्रतिकूलाभिर्वाग्भिः वचनैरतादृशस्तादृशस्त्वमित्यादिभिरित्यर्थः, भोगभोगान् विशिष्टान् शब्दादीन विदारयति हरति योऽसौ महामोहं प्रकरोतीति दशमम् १० ।
अकुमारभूए जे केइ कुमारभूए तऽहं वए । इत्थीहिं गिद्धे वसए महामोहं पकुव्वति ॥११॥
अकुमारभूत: अकुमारब्रह्मचारी सन् यः कश्चित् कुमारभूतोऽहं कुमारब्रह्मचारी अमिति वदति, अथ च स्त्रीषु गृद्धो वशकश्च स्त्रीणामेवायत्त इत्यर्थः, अथवा वसति आस्ते स महामोहं प्रकरोतीत्येकादशम् ११ ।
अबंभयारी जे केड बंभयारि तऽहं वए । गहभे व्व गवं मज्झे विस्सरं नदई नदं ।। अप्पणो अहिए बाले मायामोसं बहुं भसे । इत्थीविसयगेहीए महामोहं पकुव्वइ ।।१२।।
अब्रह्मचारी मैथुनादनिवृत्तो यः कश्चित् तत्काल एवाऽऽसेव्याब्रह्मचर्यं ब्रह्मचारी साम्प्रतमहमित्यतिधूर्त्ततया परप्रवञ्चनाय वदति, तथा य एवमशोभावहं सतामनादेयं 20 भणन् गर्दभ इव गवां मध्ये विस्वरं न वृषभवन्मनोज्ञं नदति मुञ्चति नदं नादं शब्दमित्यर्थः, तथा य एवं भणन्नात्मनोऽहितो न हितकारी बालो मूढो मायामृषां
15
१. विशिष्टशब्दादीन जेर ११.२ ।। २. परप्रपंचनाय हेर विना ।। ३. मायामषा ख० जे१ ११ । मायां
मषां जर।