________________
त्रिंशत्स्थानकम् |
[ मू० ३०]
१०५
पाणिना हस्तेन संपिधाय स्थगयित्वा किं तत् ? श्रोतो रन्ध्रं मुखमित्यर्थः, तथा आवृत्य अवरुध्य प्राणिनं ततः अन्तर्नदन्तं गलमध्ये रवं कुर्वन्तं घुरघुरायमाणमित्यर्थः, मारयति यः स इति गम्यते, महामोहं प्रकरोतीति तृतीयम् ३ ।
जायतेयं समारब्भ बहुं ओरुंभिया जणं ।
अंतोधूमेण मारेति महामोहं कुव्व ||४|
जाततेजसं वैश्वानरं समारभ्य प्रज्वाल्य बहुं प्रभूतम् अवरुध्य महामण्डप - वाडादिषु प्रक्षिप्य जनं लोकम् अन्तः मध्ये मण्डपादेः धूमेन वह्निलिङ्गेन, अथवा अन्तर्धूमो यस्य सोऽन्तर्धूमस्तेन जाततेजसा विभक्तिपरिणामात् मारयति योऽसौ महामोहं प्रकरोतीति चतुर्थम् ४ ।
सीसम्म जे पहाड़ उत्तमंगम्मि चेयसा ।
5
10
विभज्ज मत्थयं फाले महामोहं पकुव्वति ||५||
शीर्षे शिरसि यः प्रहन्ति खड्ग - मुद्गरादिना प्रहरति प्राणिन 'मिति गम्यते, किंभूते स्वभावतः ? शिरसि उत्तमाङ्गे सर्वावयवानां प्रधानावयवे तद्विघातेऽवश्यं मरणात् चेतसा सक्लिष्टेन मनसा, न यथाकथञ्चिदित्यर्थः तथा विभाज्य मस्तकं प्रकृष्टप्रहारदानेन स्फाटयति विदारयति ग्रीवादिकं कायमपीति गम्यते स इत्यस्य 15 गम्यमानत्वात् स महामोहं प्रकरोतीति पञ्चमम् ५ ।
१. वाहादिषु खं० ॥ २. यस्यासावन्त खं० ज२ ।। ३ स नास्ति जे२ विना ।। ४. गलाक जे१.२. ह४ ॥ ५ तथा नास्ति जे२ । जे१ मध्येऽत्र पाठः पतितः ।। ६. योगभावितेन जेर हे१.२ ।।
पुणो पुणो पणिहीए हणित्ता उवहसे जणं ।
फलेणं अदुव दंडेणं महामोहं पकुव्वइ ।।६।।
पौनः पुण्येन प्रणिधिना मायया यथा वाणिजकादिवेषं विधाय गलकर्त्तकाः पथि गच्छता सह गत्वा विजने मारयन्ति, तथा हत्वा विनाश्य य इति गम्यते उपहसेत् 20 आनन्दातिरेकात् जनं मुग्धलोकं हन्यमानम्. केन हत्वा ? फलेन योगविभावितेन मातुलिङ्गादिना, अदुव तथा दण्डेन प्रसिद्धेन स इति गम्यते, महामोहं प्रकरोतीति
षष्ठम् ६ ।