________________
आचार्य श्री अभयदेवसूरिविरचितटीकासहित समवायाङ्गसूत्र
वा साध्वाचारस्य ज्ञानादिविषयस्य प्रकल्पो व्यवस्थापनमित्याचारप्रकल्पः, तत्र क्वचिद् ज्ञानाद्याचारविषये अपराधमापन्नस्य किञ्चित् प्रायश्चित्तं दत्तम्. पुनरन्यमपराधविशेषमापन्नस्ततस्तत्रैव प्राक्तने प्रायश्चित्ते मासवहनयोग्यं मासिकं प्रायश्चित्तमारोपितमित्येवं मासिक्यारोपणा भवति, तथा पञ्चरात्रिकशुद्धियोग्यं 5 मासिक शुद्धियोग्यं चापराधद्वयमापन्नस्ततः पूर्वदत्तप्रायश्चित्ते सपञ्चरात्रमासिकप्रायश्चित्तारोपणात् सपञ्चरात्रमासिक्यारोपणा भवति, एवं मासिक्यारोपणाः षट् ६. एवं द्विमासिक्यः ६, त्रिमासिक्य : ६, चतुर्मासिक्योऽपोति ६ चतुर्विंशतिरारोपणाः, तथा सार्द्धदिनद्र्यस्य पक्षस्य चोद्घातनेन लघूनां मासादीनां प्राचीनप्रायश्चित्ते आरोपणा औद्घातिक्यारोपणा, यदाह
९६
10
अद्वेण छिन्नसे पुवद्वेणं तु संजुयं काउं । देज्जा य लहुयाणं गुरुदाणं तत्तियं चेव ।। [
] त्ति । यथा मासार्द्धं १५ पञ्चविंशतिकार्द्धं च सार्द्धद्वादश, सर्वमीलने सार्द्धसप्तविंशतिरिति लघुमासः, तथा मासद्वयार्द्धं मासो मासिकस्यार्द्ध पक्ष उभयमीलने सार्द्धा मास इति लघुद्वैमासिकम् २५, तथा तेषामेव सार्द्धदिनद्वयाद्यनुद्घातनेन गुरूणामारोपणा 15 अनौघातिक्यारोपणा २६ तथा यावतोऽपराधानापन्नस्तावतीनां तच्छुद्धीनामारोपणा कृत्स्नारोपणा २७, तथा बहूनपराधानापन्नस्य षण्मासान्तं तप इति कृत्वा षण्मासाधिकं तपःकर्म तेष्वेवान्तर्भाव्य शेषमारोप्यते यत्र सा अकृत्स्नारोपणेत्यष्टाविंशतिः २८. एतच्च सम्यग् निशीथविंशतितमोद्देशकावगम्यम् । अत्रैव निगमनमाहएतावांस्तावदाचारप्रकल्प:, इह स्थानके आरोपणामाश्रित्य विवक्षितोऽन्यथा 20 तद्व्यतिरेकेणापि तस्योद्घातिकानुद्घातिकरूपस्य भावात्, अथवैतावाने वायं तावदाचारप्रकल्पः. शेषस्यात्रैवान्तर्भावात्, तथा एतावत्तावदाचरितव्यमित्यपि तथैव । देवगतिसूत्रे स्थिरास्थिरयोः शुभाशुभयोरादेयानादेययोश्च परस्परं विरोधित्वेनैकदा बन्धाभावादन्यतरद्बघ्नातीत्युक्तम्, तत्र चैकशब्दग्रहणं भाषामात्र एवावसेयमिति,
१. "रात्रिकमासिक तप इति कृत्वा इति पाठ: पतितः ॥ ४. कृत्वा नास्ति खं० ॥
२ ।। २ स्थानाङ्गटीकायामुद्धृतमेतत् पू० २७६ ५५८ ।। ३. जर मध्य षण्मासान्तं