________________
उत्तराप्ययनसूत्रम
॥ ९३॥ [पञ्चभिः कुलकम् ] किन्नु तुल्यबलौ वीक्ष्य, तौ जयश्रीः स्वयंवरा ॥ ध्य यन्ती कं वृणोमीति, नकमप्यवृणोत्तदा ॥४०॥ पूर्ण भावि द्वितीयेह्नि, नियुद्धमनयोर्ननु ॥ इत्युनम्यौ नृपस्ताव-तावपि खाश्रयं गतौ ॥ ४१ ॥ ततोट्टनेन फलही, प्रोचे पुत्र ! तदुच्यताम् ॥ तेन मल्लेन यद्वाद, त्वदङ्ग बाधितं भवेत् ॥ ४२ ॥ अट्टनाय ततः सर्वे, फलही सत्यमब्रवीत् ॥ प्रायश्चित्तग्रहीतेव, गुरवे शुद्धमानसः ! ॥४३॥ ततोऽदनः पकतैल-मर्दनैर्वहितापनैः ॥ तदर्भपजैश्च द्राग , विदधे तं पुनर्नवम् ॥ १४ ॥ मात्स्यिकन्यापि पार्थेऽङ्ग-मर्दकान्प्राहिणोन्नृपः ॥ स तु श्रमादिताङ्गोऽपि, गर्वान्नामर्दयद्वपुः ॥ ४५ ॥ प्रोचे च क्कनु रङ्कोयं, स्थातुं शक्ष्यति मे पुरः ॥ अहं ह्यमुष्य जनक-मप्यजैषं पुरा जवात् ! ॥४६॥ समयुद्धावजायेतां, द्वितीयदिवसेऽपि तौ ॥ पार्थिवे चोत्थिते प्राग्व-तमसज्जगदट्टनः ॥ ४७ ॥ मात्स्यिकस्तु मदाविष्टो-ऽचीकरनाङ्गगमर्दनम् ॥ नियुद्धमारभेतां तौ, तृतीयेप्यहि पूर्ववत् ॥ ४८ ॥ तदा च मात्स्यिक वीक्ष्य, नियुद्धश्रान्तविग्रहम् ॥ निरोजस्कप्रहारञ्च, वैशाखस्थानसंस्थितम् ॥ ४९ ॥ फलहीति वदंस्तस्य, भ्रूसंज्ञामट्टनो व्यधात् ॥ जग्राह फलहीग्राहं, पाणिना सोऽपि मात्स्यिकम् ॥५०॥ [ युग्मम् ] तं कमण्डलुवन्मौलिं,
मयच्च सः॥ ततस्तुष्टो बहुद्रव्य-मट्टनायार्पयन्नपः ॥५१॥ तच दत्वा हालिकाया-ऽट्टनोऽपि विससर्ज तम् ॥ खयं त्ववन्तीमगमत् , कृतार्थो वैरशुद्धितः ॥ ५२ ॥ विमुक्तयुद्धव्यापारो, गृहे तिष्ठन् सुतादिभिः ॥ वृद्धोऽयमऽसमर्थोय-मिति सोऽहील्यतानहम् ! ॥ ५३॥ ततो मानादनापृच्छ्य, तान् काशाम्बी जगाम सः ॥ आव. त्सरं सिषेवे च, स्थित्वा क्वापि रसायनम् ॥ ५४ ॥ बलिष्ठतां ततः प्राप्तः, प्राप्ते युद्धोत्सवेऽट्टनः ॥ कुर्वन्नियुद्धमवधीद्राज्ञो मलं निरङ्गणम् ॥ ५५ ॥ आगन्तुकेन मल्लो मे, व्यापादित इति क्रुधा ॥ प्रशशंस न तं भूप-स्तेन लोकोऽपि नाऽस्तवीत ! ॥५६॥ ततो माभूच्छमो व्यर्थो, ममेयानिति चिन्तयन् ॥ इत्येकामब्रवीदायाँ, खं ज्ञापयितुमनः ॥ ५७ ॥ सा चेयं-"कथयति वनशकुनानां, कथयत हे शकुनकाः ! शकुनकानाम् ॥ यदिहाहनेन निहतो, निरगणः शस्त्ररहितेन ! ॥ ५८ ॥” श्रुत्वेति श्रुतपूर्वी तं, महामलं महीपतिः ॥ यावज्जीवं जीविकाह, तुष्टस्तस्मै ददौ धनम् ॥ ५१ ॥ लोकोऽपि द्रविणं तस्मै, यथाशक्ति ददौ तदा ॥ तत्रस्थं प्राप्तवित्तं च, श्रुश्रुवुर्बन्धवोऽपि तम् ॥६०॥ ततस्तेऽभ्येय तत्पार्थे, तं पादपतनादिभिः ॥ विश्वास्योपयिकैः प्राग्व-दश्रयन् वित्तलोभतः ॥ ६१ ॥ अध्यासीदट्टनो वित्त-लुन्धा ह्येते श्रयन्ति माम् ॥ निर्धनस्य तु मे भूयः, करिष्यन्ति पराभवम् ॥ ६२ ॥ विस्रसापि शरीरं मे, खीकरोति शनैः शनैः ॥ तया व्याप्तस्तु नैवाहं, भविष्याम्यौषधैर्युवा ॥६३ ॥ अधीनं मानवानां त-द्वेषजं न हि विद्यते ॥ पुनर्नवं भवेद्येन, जराजर्जरमङ्गगकम् ॥ ६४ ॥ न च वार्धकदिव्यास्त्रं, प्रयुक्तं कालविद्विषा ॥ पतकाये स्खलयितुं, शक्यं खजनकङ्कटैः ! ॥६५॥ तज्जराया न हि त्राणं, भेषजं बन्धवोऽपि च ॥ त्राणं तु धर्म एव स्था-त्सर्वावस्थासु तत्वतः ॥ ६६ ॥ तत्सामर्थ्य किञ्चिदस्तीह देहे, यावत्तावद्धर्ममाराधयामि ॥ ध्यात्वेत्यन्तं सदुरूणामुपान्ते, प्रव्रज्याऽभूदट्टनः सौख्यपात्रम् ॥ ६७ ॥ इत्सट्टनमलकथा ॥
एवं जराभिभतस्याटनस्येव भेषजैः खजनै, त्राणं न भवति । ततश्च 'एअमित्यादि' एतमनन्तरोत्तमर्थ विजानीहि विशेषणावबुध्यख, तथा एतच वक्ष्यमाणं जानीहि, जना लोकाः प्रमत्ताः प्रमादपराः 'उभयत्र सूत्रत्वादेकवचनं' कं ? अर्थ, प्रक्रमात् त्राणं, 'नु' इति वितर्के, विहिंस्रा विविधहिंसनशीलाः, तथा अयताः पापस्थानेभ्योऽनुपरताः, 'गहितित्ति' ग्रहीष्यन्ति स्वीकरिष्यन्ति, अयं भावः-एते प्रमत्तादिविशेषणान्विताः खकृतदुष्कर्मभिर्नरकादिकमेव यातनास्थानं यास्यन्ति, परं नास्ति त्राणमिति सूत्रार्थः ॥१॥ इह चासंस्कृतं जीवितं, जरोपनीतस्य च न त्राणमतो मा प्रमादीरित्युक्ते, अर्थस्थापि पुरुषार्थतया सकलैहिकामुष्मिकफलनिबन्धनतया च तदुपार्जनं प्रति प्रमादो न कार्य इति केषाञ्चित्कदाशयो भवतीति तन्मतमपाकर्तुमाह
मूलम्-जे पावकम्महिं धणं मणूसा, समाययंती अमइं गहाय ॥
पहाय ते पासपयहिए नरे, वेराणुबद्धा नरयं उविति ॥ २॥ व्याख्या-ये केचन पापकर्मभिः कृषिवाणिज्यादिभिरनुष्ठानैर्धनं द्रव्यं मनुष्या मानवास्तेषामेव प्रायो द्रव्योपार्जनोपायप्रवृत्तेरित्थमुक्त, समाददते स्वीकुर्वते, अमतिं कुमति, “धनैर्दुःकुलीनाः कुलीना भवन्ति, धनैरेव पापात्पुननिस्तरन्ते ॥ धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चि-द्धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥१॥” इत्यादिकां गृहीत्वा
य प्रकर्षेण हित्वा धनमेव ते धनैकरसिकाः, 'पासपयट्टिअत्ति' पाशा इव पाशा बन्धननिवन्धन