________________
॥ ९२ ॥
उत्तराध्ययनसूत्रम्
कर्मभिर्जरोपनीतस्तस्य 'हु' इति निश्चये नास्ति त्राणं शरणं येन जराऽपनीयते न तच्छरणमस्ति यदुक्तं - " रसायण निसेवंति, मज्जं मंसं रसं तहा ॥ भुंजंति सरसाहारं, जरा तहवि न नस्सए ॥ १ ॥ " जराजर्जरवपुषश्च नैव तादृशी धर्मकरणशक्तिः स्यात्ततो यावदसौ न व्याप्नोति तावद्धर्मे मा प्रमादीः । उक्तं च- " तद्यावदिन्द्रियबलं, जरया रोगैर्न बाध्यते प्रसभम् ॥ तावच्छरीरमूर्च्छा, त्यक्त्वा धर्मे कुरुष्व मतिम् ॥ १ ॥” जरोपनीतस्य च त्राणं नास्तीत्यत्राऽट्टनमो दृष्टान्तस्तत्र चायं सम्प्रदायः, तथाहि
उज्जयन्यां नगर्यो श्री-जितशत्रुर्नृपोऽभवत् ॥ तत्र चाप्रतिमल्लोभून्मल्लराजोऽट्टनाभिधः ॥ १ ॥ स च गत्वान्यराज्यस्थै-रपि मल्लैरयुध्यत ॥ तस्य दोर्दण्डकण्डूस्तु, व्यपनिन्ये न केनचित् ॥ २ ॥ तदा चाम्भोधितीरस्थे, पुरे सोपारकाभिधे ॥ मल्लयुद्धप्रियः सिंह- गिरिसंज्ञोऽभवन्नृपः ॥ ३ ॥ यो मल्लेष्वजयत्तस्मै, भूपः सोऽदाद्धनं घनम् ॥ इति तत्रानो गत्वा, प्रत्यन्दमजयत्परान् ॥ ४ ततः सिंहगिरिर्दध्यौ, यदागत्यान्यराज्यतः ॥ अयं जयति मन्मलान्ममापभ्राजना हि सा ॥ ५ ॥ ततोऽहमपरं कञ्चित्कुर्वे मलं बलोत्कटम् ॥ ध्यात्वेति मार्गयन्मलं, वार्द्धितीरे ययौ नृपः ॥ ६ ॥ वसां पिबन्तं मीनानां, तत्राद्राक्षीच धीवरम् ॥ ततस्तं बलिनं ज्ञात्वा, पोषयामास पार्थिवः ॥ ७ ॥ अशिक्षयन्नियुद्धं च, भूपस्तस्य तरखिनः ॥ ततः सोऽभून्महामलो - ऽजय्योन्यैर्हस्तिमलवत् ॥ ८ ॥ अथानो नियुवाहे, समासन्ने निजात्पुरास् ॥ शम्बलेन बलीवर्द, भृत्वा सोपारकं ययौ ॥ ९ ॥ स च मात्स्यिकमलेन, नियुद्धे निर्जितो द्रुतम् ॥ विषादमाससादोचे - नो हस्तीव हस्तिना ॥ १० ॥ स्वीयावासे ततो गत्वा ऽट्टन एवं व्यचि - न्तयत् ॥ केनाप्यजितपूर्वोहं मल्लेनानेन निर्जितः ॥ ११ ॥ तारुण्योपचयाञ्चायं, चीयमानबलः कथम् ? ॥ पुनर्जय्यो या क्षीण - जसा यौवनहानितः ! ॥ १२ ॥ कर्तव्या वैरशुद्धिश्व, मयोपायेन केनचित् ॥ शल्यवत् खाकरोत्यन्तर्मानम्लानिर्हि मानिनाम् ॥ १३ ॥ ध्यात्वेति तज्जैत्रबलं, सोऽन्यं मल्लं गवेषयन् ॥ सौराष्ट्रे बहवो मल्लाः श्रुत्वे तमभिव्रजन् ॥ १४ ॥ भृगुकच्छसमीपस्थ - हरणीग्रामसीमनि ॥ एकं कर्षकमद्राक्षी - त्कर्पासवपनोद्यतम् ॥ १५ ॥ [ युग्मम् ] हलमेकेन हस्तेन, वाहयन्तं द्रुतं द्रुतम् ॥ द्वितीयेनोत्पाटयन्तं, फलहीस्तृणलीलया ॥ १६ ॥ तञ्च प्रेक्ष्य पुमानेष, बलिष्ठ इति चिन्तयन् ॥ तदीयाहारवीक्षायै, तत्रास्थाद्यावदनः ॥ १७ ॥ [ युग्मम् ] प्रातराशकृते तावलात्वा कूरभृतं घटम् ॥ तत्रागात्तत्प्रिया सोऽपि, सीरमच्छोटयत्ततः ॥ १८ ॥ कूरञ्च सद्यः कुम्भस्थं, जग्रसे ग्रासलीलया ॥ गत्वा क्वापि पुरीषस्योत्सर्ग चक्रे च कर्षकः ॥ १९ ॥ अट्टनोऽपि ततो गत्वा, तत्पुरीषं व्यलोकत ॥ तच्चाद्राक्षीदतिखल्पं, शुष्कं छागपुरीषवत् ॥ २० ॥ जाठराग्निं ततस्तस्य, ज्ञात्वा प्रबलमट्टनः ॥ वैरशुद्धिसमर्थोयं, भावीत्यन्तरभावयत् ॥ २१ ॥ तस्यैव सौधे सन्ध्यायां, ययाचे वसतिं च सः ॥ सोऽपि तामार्पयत्तत्र, महोप्यस्थाद्यथासुखम् ॥ २२ ॥ का युष्माकं जीविकेति, तं च पप्रच्छ वार्तयन् ॥ प्रोचे कृषीवलोप्येवमस्म्यहं ननु निर्धनः ॥ २३ ॥ तत्प्राज्येन प्रयत्नेन, कृषिं कुर्वे तथा पि हि ॥ अन्नमप्युदरापूर्ति - करं सम्पद्यते न मे ! ॥ २४ ॥ मल्लोबादीदमुं मुक्तो - ममेहि समं मया ॥ अतिस्तोकेन कालेन कुर्वे त्वामीश्वरं यथा ! ॥ २५ ॥ सोप्यूचेऽहं तदागच्छाम्यादिशेद्यदि मां वशा ॥ पृष्टा मलेन तत्रार्थे, ततः साप्येवमब्रवीत् ॥ २६ ॥ उप्तोस्त्यनेन कर्पासो -ऽधुना स च विनाऽमुना ॥ विनश्यति तदा च स्या- त्कथमाजीविका मम १ ॥ २७ ॥ मलोब्रवीदत्र यावान्, कर्पासश्चितितो भवेत् ॥ गृहाण तावतो मूल्य- मधुनैवार्पयामि ते ॥ २८ ॥ इत्युदीर्य तया प्रोक्त-मानं मलो ददौ धनम् ॥ ततोनुमेने सा कान्तं, किं हि वित्तान्न जायते ? ॥ २९ ॥ अनो तमादाय, ययावुज्जयनीं जवात् ॥ पोषयामास तं प्रोच्चै - रुपायैश्च परश्शतैः ॥ ३० ॥ अशिक्षयच तस्योत्रं, मलयुद्धं महौजसः ॥ फलहीमल इत्यस्या - ऽभिधानं च विनिर्ममे ॥ ३१ ॥ द्वितीयान्दे च सम्प्राप्ते, मलयुद्धमहोत्सवे ॥ अट्टनोगात्समं तेन, पुनः सोपारके पुरे ॥ ३२ ॥ अथ सिंहगिरौ राज्ञि मल्लयुद्धदिदृक्षया ॥ समं पौरैः परोल - रङ्गमण्डपमाश्रिते ॥ ३३ ॥ योधं योधमनेकेषु, मल्लेधूपरतेषु च ॥ नियुद्धार्थमढौकेतां, फलहीमात्स्यिको मिथः ॥ ३४ ॥ [ युग्मम् ] क्षोभयन्तौ भुजास्फोट - खैर्वीरमनांस्यपि ॥ कम्पयन्तौ धरापीठं, दुर्धरैः पाददर्दुरैः ॥ ३५ ॥ मुष्टामुष्टिप्रकुर्वन्तौ दन्तादन्तीव कुअरौ ॥ प्रबलैः पादविन्यासै - र्नमयन्ताविव क्षमाम् ॥ ३६ ॥ भूतले निपतन्तौ च, छिन्नमूलमहाद्रुवत् ॥ क्ष्मातलाच्चावधूयाङ्ग-मुत्तिष्ठन्तौ विनिद्रवत् ॥ ३७ ॥ विलगन्तौ मिथो वाढं, चिरान्मिलितबन्धुवत् ॥ कृतप्रहारडुडुव - द्वियुआनौ च सत्वरम् ॥ ३८ ॥ उत्पतन्तौ पतङ्गवत्, प्लवमानौ प्लवङ्गवत् ॥ तौ चिरं चक्रतुर्मल - युद्धं मलशिरोमणी ॥ ३९ ॥