________________
उपराष्पयनसूत्रम् म्वाख्या-मित्रवान्वयखवान् भवतीति योगः १ज्ञातिमान खजनवान भवति २। उबैर्गोत्र उत्तमकुलः ३॥ पः समुच्चये, वर्णवान् प्रशस्तशरीरच्छविः ४ । अल्पात आतविरहितो नीरोग इत्यर्थः ५। महाप्राज्ञः पण्डितः६। अभिजातो विनीतः, स हि सर्वजनाभिगम्यो भवति, दुर्विनीतस्तु शेषगुणयुक्तोपि न तथेति ७ । अत एव च 'जसोत्ति' यशसी शुभख्यातिमान् ८ । 'बलेत्ति' बली कार्यकरणम्प्रति सामर्थ्यवान् ९ । उभयत्र सूत्रत्वान्मत्वर्थीयलोप इति सूत्रद्वयार्थः ॥ १८ ॥ ननु यथोक्तगुणयुक्तं मानुष्यमेव तत्फलमुतान्यदपीत्याहमूलम्-भोच्चा माणुस्सए भोए, अप्पडिरूवे अहाउअं॥ पुवं विसुद्धसद्धम्मे,केवलं बोहि बुझिआ॥१९॥
व्याख्या-भुक्त्वा मानुष्यकान् मनुष्यसम्बन्धिनो मोगान् मनोज्ञशब्दादीन् , अप्रतिरूपान् अनन्यतुल्यान्, यथायुरायुषोऽनतिक्रमेण, पूर्व पूर्वजन्मनि विशुद्धो निदानादिरहितः सद्धर्मः शोभनधर्मोऽस्येति विशुद्धसद्धर्मः, केवलमकलई बोधिं जिनोक्तधर्मावासिलक्षणं बुद्धा अनुभूय प्राप्येति यावत् ॥ १९ ॥ ततः किमित्याहमूलम्-चउरंगं दुल्लहं मच्चा, संजमं पडिवज्झिआ॥तवसाधुअकम्मंसे,सिद्धे हवइ सासएत्ति बेमि॥२०॥
॥ इइ तइयमज्झयणं सम्मत्तं ॥
न्याख्या-चतुरङ्गमुक्तखरूपं दुर्लभं दुष्प्रापं मत्वा ज्ञात्वा संयम सर्वसावद्यविरतिरूपं प्रतिपद्यासेव्य तपसा पानान्तरेण च धुतकर्माशो विध्वस्ताशेषकर्मभागः सिद्धो भवति, स चान्यतीर्थिककल्पितसिद्धवन्न पुनरिहायातीसाह-शाश्वतः शश्वद्भवनात् , शश्वद्भवनञ्च पुनर्भवनिबन्धनकर्मबीजात्यन्तिकोच्छेदात्तथा चाह-"दग्धे बीजे यथात्यन्तं, प्रादुर्भवति नाङ्करः ॥ कर्मवीजे तथा दग्धे, न रोहति भवाङ्करः ॥ १ ॥” इति सूत्रद्वयार्थः इति ब्रवीमीति प्राग्वत् ॥२०॥
യയിലാദ്യമായല
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायर श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ तृतीयाध्ययनं सम्पूर्णम् ॥३॥
ROOO
॥ अथ चतुर्थाध्ययनम् ॥ ॥ अर्हन् । उक्तं तृतीयमध्ययनमथ चतुर्थमारभ्यते, अस्स चायमभिसम्बन्धः, इहानन्तराध्ययने चतुरङ्गी दुर्लमेत्युक्तमिह तु तत् प्राप्तावपि महते दोषाय प्रमादो, महते गुणाय चाप्रमाद इति प्रमादाप्रमादौ हेयोपादेयतया पहुं प्रमादाप्रमादामिधं चतुर्थाध्ययनमाह, तस्य चेदमादिसूत्रम्मूलम-असंखयं जीविअ मा पमायए, जरोवणीअस्स हु नत्थि ताणं ॥
एअं विआणाहि जणे पमत्ते, कं नु विहिंसा अजया गहिंति ॥१॥ न्याख्या-असंस्कृतं असंस्करणीयं, जीवितं प्राणधारणं, यत्नशतैरपि सतो वर्धयितुं त्रुटितस वा तस्य कर्णपाशवत्सन्धातुमशक्यत्वात्, यदुक्तं-“वासाई दोण्णि तिण्णि व, वाहिजा जइ घरं पि सीडेइ ॥ सा का वि नत्यि नीई, सीडिजद जीविरं जीए !॥१॥" तथा-"मलैः कौतुकैर्योगै-विद्यामंत्रैस्तथौषधैः॥ न शक्ता मरणात्रातुं, सेन्द्रा देवगणा अपि ! ॥१॥" ततः किं कार्यमित्याह-मा प्रमादीः, अयं भावः- यद्यायुः कथञ्चित्संस्कर्तुं शक्य
सावपिन प्रमादो दोषाय, यदा तु नैवं तदा चतरङ्गी प्रमादिनां भूयो दुलेभेति मा प्रमाद कृथाः । ननु ? वार्धक एष धर्म करिष्यामीति कोऽपि वक्ति इत्याशंक्याह-जरामुपनीतः प्रापितो गम्यमानत्वात्स