________________
उचराप्षयनवम् तथा च धर्मः क्षान्त्यादिः शुद्धस्य तिष्ठत्यविचलतया आस्ते, अशुद्धस्य तु कदाचित्कषायोदयादसौ विचलत्यपि, धर्मापस्थितौ च निर्वाणं जीवन्मुक्तिरूपं परमं प्रकृष्टं याति गच्छति, उक्तं हि-"निर्जितमदमदनाना, वाकायमनोविकाररहितानाम् ॥ विनिवृत्तपराशाना-मिहैव मोक्षः सुविहितानाम् ॥ १ ॥ इति" कथम्भूतः सन् ? घृतसिकः पावक इव ज्वलन इय, तपस्तेजोज्वलितत्वेन धृततर्पितानलसमानः सनिति सूत्रार्यः॥ १२ ॥ इत्पं फलमु. पदये शिष्योपदेशमाहमूलम्-विगिंच कम्मुणो हेउं, जसं संघिणु खंतिए ॥ पाढवं सरीरं हिच्चा, उहूं पक्कमई दिसिं ॥ १३॥
व्याख्या-'विगिंचत्ति' विवेचय पृथक्कुरु कर्मणः प्रस्तावान्मानुषत्वादिप्रतिबन्धकस्य हेतुमुपादानकारणं मिथ्यात्वाविरसादिकं, तथा यशोहेतुत्वात् यशः संयमो, विनयो वा, तत्सञ्चिनु पुष्टं कुरु, कया ? क्षान्त्या, उपलक्षणत्वान्मार्दवादि. मिच, एवं च कृते किं स्यादित्याह-पाढयति' पार्थिवं, परप्रसिद्ध्या पृथिवीविकारं, शरीरं वपुर्हित्वा त्यक्त्वा, उही दिशमिति सम्बन्धः, प्रक्रामति प्रकर्षण पुनमेवाभावरूपण गच्छतीति सूत्रायः ॥ १३॥ एवं त यिनां फलमुक्त्वा सम्प्रति तदितरेषां तदाहमूलम्-विसालिसेहिं सीलेहिं, जक्खा उत्तरउत्तरा ॥ महासुक्काव दिप्पंता, मण्णंता अपुणञ्चयं ॥१४॥
अप्पिा देवकामाणं, कामरूवविउविणो ॥ उई कप्पेसु चिट्ठति, पुवावाससया बहू ॥ १५ ॥ व्याख्या-विसालिसेहिति' मगधदेशीभाषया विसदृशैः खखचारित्रमोहनीयकर्मक्षयोपशमापेक्षया विभिन्नैः शीलैप्रेतपालनात्मकैरनुष्ठानविशेषैर्यक्षा देवा ऊर्ध्वं कल्पेषु तिष्ठन्तीति उत्तरेण सम्बन्धः । कीदृशा यक्षा इत्याह-उत्तरोतरा ययोत्तरं प्रधानाः, महाशुक्ला अतिशयोज्वलतया चन्द्रादित्यादयः ते इव दीप्यमानाः प्रकाशमानाः, अनेन शरीरसम्पदुक्ता, सुखसम्पदमाह-मन्यमाना मनस्यवधारयन्तो विशिष्टकामादिप्राप्तिसमुत्थरतिसागरावगाढतया दीर्घस्थितिमत्तया च अपुनश्यवं अपुनश्च्यवनं तिर्यगादिषूत्पत्तेरभावम् ॥१४॥ तथा 'अप्पि अत्ति' अर्पिता इवार्पिता ढौकिताः प्रक्रमात्प्राकृतसुकृतेन, केषामित्याह-देवकामानां दिव्याङ्गनास्पर्शादीनां, कामेन इच्छया रूपविकरणं येषां ते काम
रणशक्तियक्ता इत्यर्थः । ऊर्द्वमुपरिकल्पेषु सौधर्मादिषु, उपलक्षणत्वात् प्रैवेयकानुत्तरेषु च, तिष्ठन्ति आयुःस्थितिमनुभवन्ति, पूर्वाणि सप्ततिकोटिलक्षषदपंचाशत्कोटिसहस्रवर्षपरिमितानि, वर्षशतानि प्रतीतानि, बहून्यसंख्येयानि, जघन्यतोऽपि तत्र पल्योपमस्थितित्वात् , पल्योपमे च तेषामसंख्येयानामेव भावात्, पूर्ववर्षशतप्रहणं त्विह पूर्ववर्षशतायुषामेव चरणयोग्यतया विशेषाद्देशनायोग्यत्वमिति सूचनार्थमिति सूत्रद्वयार्थः ॥१४॥ ॥ १५ ॥ अथ तेषामेतावदेव फलमुतान्यदपीत्याहमूलम्-त हिच्चा जहाठाणं,जक्खा आउक्खए चुआ॥ उवेन्तिमाणुसं जोणिं,से दसंगेभिजायइ ॥१६॥
न्याख्या-तत्र तेषु देवलोकेषु सौधर्मादिषु स्थित्वा यथास्थानं यद्यस्य खानुष्ठानानुरूपमिन्द्रादिपदं तस्मिन् यक्षा आयुःक्षये खखजीवितावसाने च्युता भ्रष्टा उपयान्ति गच्छन्ति मानुषी योनि, तत्र च 'सइति' सावशेषशुभकर्मा जन्तुर्दश अङ्गानि भोगोपकरणानि यस्खासौ दशाङ्गोऽभिजायते, एकवचननिर्देशस्त्विह विसदृशशीलतया कधिदशाङ्गः कश्चिन्नवाङ्गादिरपि जायते इति वैचित्र्य सूचनार्थ इति सूत्रार्थः ॥ १६ ॥ अथ दशाङ्गान्येवाहमूलम्-खित्तं वत्थु हिरणं च, पसवोदासपोरुसं ॥ चत्तारि कामखंधाणि, तत्थ से उववजई ॥१७॥
व्याख्या-क्षेत्रं प्रामारामादि, सेतुकेतूभयात्मकं वा, वास्तु खातोच्छ्रितोभयात्मकं, हिरण्यं सुवर्ण, उपलक्षणत्वात् रूप्यादि च, पशवो गोमहिण्यादयाः, दासाथ प्रेयरूपाः, 'पोरुसंति' प्राकृतत्वात् पौरुषेयं च पदातिसमूहो दासपौरुषेयमिति, चत्वारश्चतुःसंख्या, अत्र हि क्षेत्रं वास्तु चेत्येकः,हिरण्यमिति द्वितीयः, पशव इति तृतीयः, दासपौरुषेयमिति चतुर्थः, एते कामा मनोज्ञाः शब्दादयः तद्धेतवः स्कन्धास्तत्तत्पुद्गलसमूहाः कामस्कन्धा यत्र मवन्तीति गम्यते, प्राकृतत्वाच्च नपुंसकनिदेशः, तत्र तेषु कुलंषु स उपपद्यतं ॥ १७ ॥ अनन चंकमजमुक्तमय शेषाणि नवाजान्याहमूलम्-मित्तवं नाइवं होइ, उच्चागोए अवण्णवं ॥ अप्यायंके महापण्णे, अभिजाए जसो बले॥१८॥
(१) तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सियते ॥१॥ केतुक्षेत्रमाकाशोदकनिष्पाबसस्यम् ॥ २॥ उमयक्षेत्रं तु उभयजलनिष्पापस स्वमिति ३॥ (२)त्र सातं भूमिगृहादि ॥१॥ उच्छिवं प्रासादादि ॥२॥ तदुमयं भूमिगृहोपरिस्थप्रासादम् ॥३॥