________________
॥१४॥
उत्तराप्ययनसूत्रम् ।
त्वात्स्त्रियः, उक्तं च-“वारी गयाण जालं, तिमीण हरिणाण वग्गुरा चेव ॥ पासा य सउणयाणं, नराण बंधत्थमित्थीओ ॥ १॥” इति, तेषु ‘पयट्टिअत्ति' आपत्वात् प्रवृत्ताः पाशप्रवृत्ता नराः पुरुषाः, पुनर्नरोपादानमादरख्यापनार्थ, वैरेण वैरहेतुना पापकर्मणानुबद्धाः सततमनुगता वैरानुबद्धा नरकं रत्नप्रभादिकं उपयान्ति गच्छन्ति, ते हि द्रव्यमुपायं रामाखभिरमन्ते, तदभिरत्या च नरकगतिभाज एव स्युरिति भावः, तस्मादिहैव वधवन्धादिहेतुतया परत्र च नरकादि दुर्गतिदायित्वेन तत्वतः पुरुषार्थ एव न भवत्यर्थ इति तत्त्यागतो धर्म प्रति मा प्रमादीरित्युक्तं भवति । द्रव्यलुब्धानां चात्रैवापायदर्शकोऽयमुदाहरणसम्प्रदायः
तथा हि नगरे कापि. बभवैको मलिम्लचः ॥ स चैकमखनत्कृपं. महान्तं खग्रहान्तरे ॥१॥दत्वा क्षानं तम. खिन्यां, सलक्ष्मीकगृहेषु सः ॥ बहुलं द्रव्यमादाय, कूपे तत्राक्षिपत्सदा ॥ २ ॥ धनं दत्वा च कस्यापि, परिणिन्ये स कन्यकाम् ॥ निर्गुणोऽपि जनो जाया-मवाप्नोति धनेन हि !॥ ३ ॥ प्रजातायां तु जायाया-मिति दध्यो स तस्करः ॥ वृद्धिङ्गतान्यपत्यानि, वक्ष्यन्त्यन्यस्य मे रमाम् ! ॥ ४ ॥ अपत्यमपि हन्तव्यं, तल्लक्ष्मीक्षयकृन्मया ॥ तजनन्यां तु जीवन्त्यां, तनिहन्तुं न शक्ष्यते ! ॥ ५ ॥ सापत्यापि वधूर्वध्या, तन्मयेति विमृश्य मः ॥ तत्रैव कूपे चिक्षेप, निहत्य ससुतां स्त्रियम् ॥ ६ ॥ द्रव्येणान्यां पुनः पाणी, कृत्य प्राग्वजधान सः ॥ एवं पुनः पुनर्लोभ-ग्रहग्रस्तो विनिर्ममे ! ॥७॥ अन्यदा स कनीमेका-मुण्येमे मनोरमाम् ॥ जातापत्यामपि न ता-मवधीद्रूपमोहितः ॥८॥ पूर्णाष्टवर्षे सजाते, तजाते चेत्यचिन्तयत् ॥ मया भूयस्तर काल-मियं मोहेन रक्षिता ॥ ९ ॥ एनां निहत्य तत्प. थात् , मारयिष्यामि दारकम् ॥ ध्यात्वेति मारयित्वा तां, कूपे तत्राक्षिपद्रुतम् ! ॥ १० ॥ मार्यमाणां च तां वीक्ष्य, भयभ्रान्तस्तदङ्गजः ॥ गृहान्निर्गत्य पृचक्रे, निर्वलानां दो बलम् ! ॥ ११ ॥ ततः किं पूत्करोषीति, लोकैः पृष्टो जगाद सः ॥ निहत्य जनयित्री मे, कूपे क्षिप्ताधुनामुना ॥ १२ ॥ तच्छुत्वा तस्य सौधान्तः, प्रविश्योरींशपूरुषाः ॥ तं चौरं जगृहुर्जीव-ग्राहं ग्राहा इव द्विपम् ॥ १३ ॥ कूपं च ददृशुर्द्रव्या-पूर्णमस्थिभिराकुलम् ॥ ततोऽवबुध्य तं दस्यु, बदा निन्युनृपान्तिकम् ॥ १४ ॥ भूपोप्युपायैर्भूयोभि-स्तं प्रपीज्याखिलं धनम् ॥ लोकेभ्यो दापयत्तं च, विडम्ब्यामारयदतम् ॥ १५॥ इत्यर्थलोभेन कुकर्म कुर्व-निहापि पीडामधियाति जन्तुः ॥ अमुत्र चाधोगतिमेति तेन, त्यक्त्वार्थलोभं कुरु धर्मयत्नम् ॥ १६ ॥ इति द्रव्यलोभे चोरकथा ॥ तदेवं धनमत्र परत्र चानर्थकारीति सूत्रार्थः ॥२॥ अथ कर्मणोऽवन्ध्यतां कथयन् प्रस्तुतमेवार्थ द्रढयितुमाहमूलम्- तेणे जहा संधिमुहे गहीए, स कम्मुणा किञ्चइ पावकारी ॥
एवं पया पेञ्च इदं च लोए, कडाण कम्माण न मुक्खु अत्थि ॥ ३॥ व्याख्या-स्तेनचौरो यथा सन्धिमुखे क्षात्रद्वारे गृहीत आत्तः खकर्मणा खीयानुष्ठानेन कृत्यते छिद्यते पापकारी पापकरणशीलः, कथं पुनरयं कृत्यते ? इत्यत्र सम्प्रदायस्तथा हि
नगरे क्वाप्यभूत्कोपि, चौरश्चौर्यविशारदः ॥ स चानेकप्रकारेषु, क्षात्रेषु निपुणोभवत् ॥१॥ नन्द्यावर्तघटाम्भोधि-कपिशीर्षादिसंस्थितम् ॥ क्षात्रं दत्वान्वहं चक्रे,तास्कर्य स हि तस्करः ॥ २ ॥ सर्वतो दत्तफलके-ऽन्यदाsपवरके क्वचित् ॥ स क्षात्रमखनचारु, कपिशीर्षकसंस्थितम् ॥ ३॥ तत्र क्षात्रं खनन्तं तं, ज्ञात्वा जाग्रद्हाधिपः ॥ उत्थाय तं प्रदेशं द्राक्, बमाज निभृतक्रमः ॥ ४ ॥ गृहे प्रविष्टः शस्त्रेण, प्रहरिष्यति मामसौ ॥ इति सोऽर्धप्रविष्टं तं, द्रुतं जग्राह पादयोः ॥ ५॥ ततो गृहीतोहमिति, स प्रोचे बाबदस्यवे ॥ सोऽपि तं हस्तयोर्धत्वा, बहिः कष्टुं समाकृषत् ॥ ६ ॥ सोऽन्तःस्थेन गृहेशेन, बहिःस्थेन च दस्युना ॥ आकृष्यमाणो नैवाभू-त्खाङ्गसङ्गोपने क्षमः ॥७॥ अतीव सङ्कटे क्षात्रे, तदा तत्र खनिर्मिते ॥ सोऽकृत्यत भृशं तीक्ष्णैः, कपिशीर्षकदन्तकैः ॥ ८॥ ततः स चौरः सपराक्रमाभ्यां, ताभ्यामुभाभ्यामपि कृष्यमाणः ॥ क्षात्रेण तेन खकृतेन कृत्तः, पीडां प्रपेदे मरणावसानाम् ! ॥९॥ इति खकृतकर्मभोगे चोरकथा ॥ एवमनेनोदाहरणदर्शितन्यायेन प्रजा प्राणिसमूहरूपा, प्रेत्य परलोके, 'इहं च लोएत्ति' इह लोके च, खकृतकर्मनिर्मितविविधवाधाभिः कृत्यते, कुतश्चैवमुच्यत इत्याह- यतः कृतानां कर्मणां न मोक्षोऽस्ति, यदुक्तं-“यदिह क्रियते कर्म, तत् परत्रोपभुज्यते ॥ मूलसिक्तेषु वृक्षेषु, फलं शाखासु जायते॥१॥" ततः पापकर्म न विधेयं, आस्तां वा पापकर्म, तत्प्रशंसाऽऽशंसाऽपि न कार्या, तस्या अप्यनर्थहेतुत्वात्तथा च वृद्धाः