________________
उतराष्ययनसूत्रम् ।
11 20 11
तथापि स शठविता - नात्याक्षीत्तं कदाग्रहम् ॥ क्षोभनां पुनरन्यत्र, करिष्यामीति चिन्तयन् ॥ ७३ ॥ अन्यदा नवमं पूर्व, प्रत्याख्यानाभित्रं पठन् ॥ वन्ध्यसाधुर्मुनेः प्रत्या-ख्यानमेवमवर्णयत् ॥ ७४ ॥ यावज्जीवं सर्वमेव, प्राणिप्राणातिपातनम् ॥ त्रिविधं त्रिविधेनाङ्गी, प्रत्याख्याति व्रतीभवन् ॥ ७५ ॥ इत्याद्याकर्ण्य तं गोष्ठा-माहिलः प्रोचि - बानिति ॥ परिमाणयुतं प्रत्या-ख्यानं साधोर्न युज्यते ॥ ७६ ॥ यावज्जीवमिति प्रोक्ते, कालमानमुरीकृतम् । तथा चा हनिष्यामीत्याशंसादूषणं भवेत् ॥ ७७ ॥ तस्मादपरिमाणेन, प्रत्याख्याम्यखिलं बधम् ॥ त्रिविधं त्रिविधेनेति, वाच्यं स्वीकुर्वता व्रतम् ॥ ७८ ॥ एवं वदन्तं तं बन्ध्यो-भ्यधादिति महामतिः ॥ आशंसा किं कालमाना-जायते बाष्छ्याऽथवा १ ॥ ७९ ॥ आद्ये पक्षे मुनेरद्धा - प्रत्याख्यानं वितन्वतः ॥ पौरुष्यादिपदोच्चारे - ऽप्याशंसा स्यादनाहता ! ॥ ८० ॥ पौरुष्यादिपदेनाद्धा - प्रत्याख्यानेऽपि निश्चितम् ॥ यामादिकं कालमान - मेव यस्मादुदीर्यते ॥ ८१ ॥ अथ तत्रापि पदं तन्नो वाच्यमिति चेत्तदा ॥ भवेदनशनापत्तिः प्रव्रज्यादिन एव हि ! ॥ ८२ ॥ न च साधोर्मबेन्नाद्धा - प्रत्याख्यानमिति त्वया ॥ वक्तव्यमपसिद्धान्त - दोषापत्तिर्यतो भवेत् ॥ ८३ ॥ सिद्धान्ते हि जिनैरद्धा-प्रत्याख्यानं तपखिनाम् ।। कर्तव्यत्वेन कथितं, दशधाऽनागतादिकम् ॥ ८४ ॥ वाञ्छारूपो द्वितीयोऽपि, पक्षो नो युज्यते कचित् ॥ मुनेरन्यभवेऽवद्य - सेवाशा यन्न विद्यते ॥ ८५ ॥ अन्यच्चापरिमाणत्वं प्रत्याख्यानस्य यत्पुरा ॥ त्वया प्रोक्तं तदपि नो, युक्त युक्तिविरोधतः ॥ ८६ ॥ क्रियमाणेऽपरिमाण - प्रत्याख्याने हि जायते ॥ अनागताद्धा सर्वापि, प्रत्याख्यानस्य गोचरः ॥ ८७ ॥ तदा चायुःक्षयादेव - भवं गतवतो यतेः ॥ सावद्यसेवनेऽवश्यं, व्रतभङ्गः प्रसज्यते ! ॥ ८८ ॥ अथ यावच्छक्ति यस्मात् प्रत्याख्यानं विधीयते ॥ तस्मादपरिमाणत्व - मिति चेदभिधीयते ॥ ८९ ॥ तर्हि शक्तिमितं प्रत्याख्यानमङ्गीकृतं स्वयम् ॥ तथा चापरिमाणत्व - स्वीकारस्तस्य नोचितः ॥ ९० ॥ किञ्चाशंसावशान्नैव, यावज्जीवेति पठ्यते ॥ व्रतभङ्गभयात्किन्तु, यावज्जीवेति पठ्यते ॥ ९१ ॥ आशंसारहितत्वेन, तत्सावधिकमप्यहो ॥ प्रत्याख्यानं न दोषाय, कायोत्सर्गनिदर्शनात् ॥ ९२ ॥ इत्यादिवन्ध्यवचनं, न यदा खीचकार सः ॥ तदा सर्वेऽपि मुनय - स्तमेवं प्रोचिरे मुहुः ॥ ९३ ॥ महात्मनित्थमेवेदं वन्ध्यवाक्यमुरीकुरु ॥ एवमेवैतदुक्तं श्री-आर्यरक्षितसूरिभिः ॥ ९४ ॥ अन्येऽपि स्थविरा अन्य गच्छीया ये बहुश्रुताः ॥ तेऽपि पृष्टा जगुः प्रत्याख्यानं साबधिकं ध्रुवम् ॥ ९५ ॥ तथाऽपि माहिलो नैव, तं कदाग्रहमत्यजत् ॥ आग्रहो यङ्गिनां प्रायो ऽसाध्यः स्यात्क्षयरोगवत् ॥ ९६ ॥ तानित्यूचे च नो यूयं तत्त्वं जानीथ किञ्चन । तीर्थङ्करैर्हि भावोऽयं कथितोऽस्ति मदुक्तवत् ॥ ९७ ॥ ततः साध्वादिकः सर्व-सङ्घः प्रष्टुं जिनेश्वरम् ॥ उद्दिश्य शासनसुरीं, कायोत्सर्ग विनिर्ममे ॥ ९८ ॥ साऽप्याऽऽययौ ब्रूत, किं करोमीति वादिनी १ ॥ सङ्घः स्माहेति पृच्छ त्वं, गत्वा सीमन्धराधिपम् ॥ ९९ ॥ किं गोष्ठामा हिलमुनि - रुदीरयति सूनृतम् ॥ सो दुर्बलिकापुष्प- मित्रादिः सकलोऽथवा ? ॥ १०० ॥ ततो देव्यवदद्दत्त, कायोत्सर्गबलं मम ॥ यथाऽनेकसुराकीर्णे, मार्गे स्यां गन्तुमीश्वरी ॥ १ ॥ सनाऽथ कृते कायो--त्सर्ग शासनदेवता ॥ गत्वा विदेहे सोक्त युक्त्याऽप्राक्षीजगत्प्रभुम् ॥ २ ॥ शशंस शम्भुशक्रोऽथ, सङ्घोऽसौ वक्ति श्रनृतम् ॥ माहिल - स्त्वनृतं भूते, निहवो ह्येष सप्तमः ॥ ३ ॥ तदाकर्ण्याऽऽगता देवी, सङ्घमेवमवोचत | कायोत्सर्ग पारयित्वा, भाषितं शृणुताऽर्हतः ॥ ४ ॥ सङ्घः सत्यो माहिलस्तु, निहवोऽनृतभाषकः ॥ तयेत्युक्तेऽवदद्गोष्ठा -- माहिलोऽतिकदाग्रही ! ॥ ५ असौ वराकी खल्पर्द्धा - स्तत्र गन्तुं क्कं शक्नुयात् ? ॥ तत्कल्पितमियं वक्ति, न पुनर्जिनभाषितम् ! ॥ ६ ॥ ततस्तं पुष्पमित्राख्य-सूरयोऽप्येवमूचिरे ॥ सम्यक् श्रद्धेहि नोचेत्त्वं, सङ्घबाह्यः करिष्यसे ! ॥ ७ ॥ तथापि तत्तन्मतमत्यजन्तं, चकार सङ्घोऽखिलसङ्घनाशं ॥ व्युद्वाहयन् सोऽपि जनाननेकान्, बभ्राम भूमौ गतबोधिरत्नः ! ॥ १०८ ॥ इति सप्तमनिहवकथा ॥ ७ ॥
" इति खल्पजिनप्रोक्त-वचनोत्थापका अमी ॥ सप्तोक्ता निहवाः पूर्व, प्रोक्ता गाथाद्वयेन ये ॥ १ ॥ " " अथ भूरिषिसंवादी, प्रसङ्गात् प्रोच्यतेऽष्टमः ॥ श्रीवीरमुक्तेर्जातोऽब्द - शतैः षड्विर्नवोत्तरैः ॥ २ ॥ " " तथाहि ” रथवीरपुरामिख्ये, पुरेऽभूद्दीपकाभिधम् ॥ वनं तत्रार्यकृष्णाख्याः, सूरयः समवासरन् ॥ ३ ॥ इतश्च शिवभूत्याख्यः, क्षत्रियः सात्विकाग्रणीः ॥ सहस्रयोधी तत्रत्यं नृपं सेवितुमाश्रयत् ॥ ४ ॥ नृपो दध्यौ परीक्षेऽहमस्य धैर्यादिकान् गुणान् ॥ निर्गुणो मनुजीवी स्या- त्स्वामिनो नो सुखाकरः ॥ ५ ॥ परीक्षापूर्वमेवास्मै प्रदास्ये वृत्तिमप्यहम् ॥ निर्गुणे हि जने दत्तं स्याद्भस्मनि हुतोपमम् ! ॥ ६ ॥ ध्यात्वेति भूपतिः श्याम - चतुर्दश्यां निशामुखे ॥ पशुमेकं वारुणीं च,