________________
॥८ ॥
उचराप्ययनसूत्रम् तस दत्वैवमब्रवीत् ॥ ७॥ श्मशानस्थे मातृदेवी-गृहे गत्वा त्वमेककः ॥ पशुमधवलिं देहि, कृत्यमेतद्विधेहि नः ॥ ८॥ शिवभूतिस्तदादाय, धीरः प्रेतवने ययौ ॥ निहत्य छगलं मातृ-देवीनां च बलिं ददौ ॥९॥धुधिः तोऽस्मीति तत्रैवा-ऽऽरेभे तन्मांसभक्षणम् ॥ श्मशानमातृदेवीभ्यो, विभयामास न त्वसौ ॥१०॥ तदा च तद्भापनाय, भूपेन प्रहिता नराः ॥ तत्रागत्य शिवाशब्दान् , भैरवान् परितो व्यधुः ॥ ११॥ बभाज तैरपि क्षोम, तन्मनो न मनागपि ॥ न चाङ्गेऽप्यभवत्तस्य, रोमोझेदो भयोद्भवः ॥ १२ ॥ तत्स्वरूपं ततो राजे, प्रोचुस्ते राजपूरुषाः ॥ सोऽपि खस्थतया भुक्त्वा, जगाम मापसन्निधौ ॥ १३॥ ततोऽवबुध्य तं शूरं, बहीं वृत्तिं ददौ नृपः ॥ शिवभूतिस्ततो भूपं, सिपेवे तमहर्निशम् ॥ १४ ॥ अन्यदा स नृपः सेना-पत्यादीनखिलान् भटान् ॥ इत्यादिदेश मथुरानगरी गृह्यतां द्रुतम् ॥ १५ ॥ ततः सर्वाभिसारेण, चेलुस्ते मथुरां प्रति ॥ पुराबहिश्च गत्वेति, परस्परमचिन्तयन् ॥ १६ ॥ वयं हि मथुरां जेतुं, प्रस्थिताः पार्थिवाज्ञया ॥ द्वे चात्र मथुरापुर्यो, विद्यते दक्षिणोत्तरे ॥ १७ ॥ तद्गोघरो विशेषश्च, नोक्तः कोऽपि महीभृता ॥ चण्डखभावो भृपश्च, न प्रष्टुं शक्यते पुनः ! ॥ १८ ॥ तदस्माभिः क गन्तव्यं, ध्यायन्त इति तेऽखिलाः ॥ स्थातुं गन्तुं चासमर्था, यावन्मार्गेऽवतस्थिरे ॥ १९॥ शिवभूतिस्तावदागा-तत्र तांश्चैवमब्रवीत् ॥ किं स्थिता यूयमशुभ-निमित्तस्खलिता इव ॥ २० ॥ यथास्थितेऽथ तैरुक्ते, सोऽवादीचिन्तया कृतम् ॥ सममेव ग्रहीष्यामो, वयं तन्नगरीद्वयम् ॥ २१ ॥ ते प्रोचुरस्याः सेनायाः, विभागयुगले कृते ॥ नाऽऽदातुं शक्यतेऽस्माभि-रेकापि नगरी सखे ! ॥ २२ ॥ भावी भूयस्तरः काल, एकस्या अपि निर्जये ॥ एकां जित्वा तदन्यस्या, निर्जयोऽप्यति दुष्करः ॥ २३ ॥ शिवभूतिस्ततोऽवादी-द्यद्येवं तर्हि भो भटाः !॥ तयोर्मध्ये दुर्जया या, सा सद्यो मम दीयताम् ॥ २४ ॥ द्वयोर्मध्ये दविष्ठा या, तां ब्रजेत्युदितेऽथ तैः ॥ सोऽपाच्य मथुरादेशं, ययौ बुद्धिपलोर्जितः ॥ २५ ॥ तस्य देशस्य च प्रान्त्यान् , ग्रामादीन् साधयन् खयम् ॥ दुर्गान् जग्राह निखिलान्, क्रमाच नगरीमपि ॥ २६॥वशीकृत्याथ तद्राज्य, शिवभूतिर्महामतिः ॥ गत्वा च भूभुजोऽभ्यर्णे, सर्व व्यतिकरं जगौ ॥२७॥ ततः प्रीतोऽवदद्भूपः, कामितं ते ददामि किम् ? ॥ किञ्चिद्विमृश्य सोऽप्यूचे, खातञ्यं देहि मे प्रभो । ॥ २८॥ यथा हि मां मनोभीष्टां, क्रीडां कुर्वन्तमुच्चकैः ॥ यत्तद्वा वस्तु गृह्णन्तं, न कोऽपि प्रतिषेधयेत् ! ॥ २९ ॥ एवमस्त्विति भूपोऽपि, सत्यसन्धोऽभ्यधात्ततः ॥ सोऽपि नानाविधाः क्रीडाः, कुर्वस्तत्राऽभ्रमत्पुरे ॥ ३०॥ द्यूतकारैः समं रेमे, स कदाचिद्दिवानिशम् ॥ कदाचित्तु सुरां पीत्वा, क्षीबः क्षीवैः सहारमत् ॥ ३१ ॥ कदाचित्तु सिषेवेऽसौ, सुन्दरं गणिकागणम् ॥ कदाचित्तु जलक्रीडां, चकार जलहस्तिवत् ॥ ३२ ॥ विजहार कदाचित्तु, कानने नन्दनोपमे ॥ कुर्वन् पुष्पोच्चयक्रीडां, वृतो विटजनैर्घनैः ॥ ३३ ॥ भ्रमन्नेवं स खसौधे, निशीथेऽप्याऽऽययौ न वा ॥ उल्लछते हि मर्यादां, प्रायो वीतभयो जनः ! ॥ ३४ ॥ यावच स गृहे नागा-त्तावत्तस्य वशा खयम् ॥ नानातिस्म न चाशेत, पालयन्ती सतीव्रतम् ॥ ३५ ॥ नित्यं क्षुधाजागराभ्यां, साऽथ खिन्ना मनखिनी ॥ अन्यदा तस्य जननी-मिति माह सगद्गदम् ॥ ३६ ॥ पुत्रो युष्माकमायाति, निशीथे प्रत्यहं गृहे ॥ यावदागमनं चाहं, न भुले न शयेऽन्वहम् ॥ ३७ ॥ नित्यं क्षुजागराभ्यां तत्पीडा मे जायते भृशम् ॥ तत्किङ्करोम्यहं मात-स्त्वदादेशवशंवदा ॥ ३८ ॥ श्वश्रूः शशंस सुभगे !, खपिहि त्वं यथासुखम् ॥ अद्याहमेव जागर्मि, तयेत्युक्ताऽखपीद्वधूः ॥ ३९ ॥ गृहद्वारं पिधायास्थातस्य माता तु जाग्रती ॥ सोऽथाऽऽगतोऽवदत्सयो, द्वारमुद्घाट्यतामिति ॥४०॥ माता प्रोचेऽधुना यत्र, द्वारमु
द्घाटितं भवेत् ॥ तत्र प्रयाहि न पत्र, द्वारमुद्घाट्यतेऽधुना !॥४१॥ तदाकाऽखर्वगर्वः, शिवभूतिरचिन्तयत् ॥ मात्राऽपमानितोऽद्याऽहं, तद्याम्यन्यत्र कुत्रचित् ! ॥ ४२ ॥ यतः-"स्थानस्थादपमानेऽपि, देहिनस्तद्वरं रजः॥ पादाहतं यदुत्थाय, मूर्द्धानमधिरोहति ! ॥४३॥" विमृश्येति निजाद्गहा-याघुट्य नगरे भ्रमन् ॥ दैवादुद्घटितद्वारं, साधूपाश्रयमैक्षत !॥ ४४ ॥ ततस्तत्र प्रविश्यार्य-कृष्णाचार्यान् प्रणम्य तान् ॥ मां प्रव्राजयतेत्यूचे, ते तु प्रात्राजयन्न तम् ॥४५॥ खयमेव ततस्तेन, लुञ्चिते. खीयमस्तके ॥ गुरवो ददिरे तस्मै, लिङ्गं धर्मध्वजादिकम् ॥४६ ॥ तमुपात्तव्रतं ज्ञात्वा, प्रातस्तत्राऽऽययौ नृपः ॥ मामनापृच्छय किमिदं, त्वया कृतमिति ब्रुवन् ? ॥ ४७ ॥ स प्रोचे पृष्टमेवैत-खातंत्र्यप्रार्थिना मया ॥ ततो नृपस्तं नत्वाऽगा-द्विमनास्तद्वियोगतः ॥४८॥ बहिर्विहृत्य तत्रागुः, सूरयोऽप्यऽन्यदा पुनः ॥ तदा शिवं नृपःस्नेहा-दाहूय खगृहेऽनयत् ॥ ४९ ॥ अनिच्छतोऽपि तस्याऽदा-द्भधवो रनकम्मलम् ॥ तमादायागतं सूरिः, शिवभूति तदेत्सवक ॥५०॥ किमयं भवता वत्स !, जगृहे रत्नकम्बलः ॥ नहि