________________
उचराघवनस्वम् लिकापुष्प--मित्रर्षिों गणाधिपः ॥ २८ ॥ इयत्कालं मदादेशो, युष्माभिर्मानितो यथा ॥ अतः परं तथा मान्द, चोऽमुष्य गणेशितुः ॥ २९ ॥ अकृतेऽपि मदादेशे, जातु कोपो न मे भवेत् ॥ अयं तु स्तोकमप्यागो, न कसापि सहिप्यते ॥ ३०॥ इत्युक्ते सूरिभिः सर्वे, प्रत्यपद्यन्त तत्तथा ॥ ततो दुर्वलिकापुष्प-मित्रमित्यं जगी गुरुः॥३१॥ गुणित्वात्स ! गच्छोऽयं, त्वदके स्थाप्यते मया ॥ तदसौ भवता मव-पालनीयो महामते ! ॥ ३२ ॥ श्रीफल्गुरक्षिते गोष्ठा-माहिले च यथा मया ॥ प्रवृत्तं भवताऽप्येवं, वर्तितव्यं, विशेषतः ॥ ३३ ॥ इत्युक्त्वा स्थापयित्वा च, तं मुनीन्द्रं निजे पदे ॥ विहितानशनाः खर्ग, जग्मुः श्रीआर्यरक्षिताः ॥ ३४ ॥ श्रीआर्यरक्षिताचार्यान् , समाकर्ण्य दिवङ्गतान् ॥ गोष्ठामाहिलनामापि, ययौ दशपुरे द्रुतम् ॥ ३५॥ न्यधीयत निजे पद्दे, शिष्यः को नाम सूरिभिः ॥ इति चागतमात्रोऽपि, सोऽप्राक्षीदखिलान् मुनीन् ॥ ३६ ॥ ततोऽभ्युत्थाय ते कुम्भ-दृष्टान्तांस्तानुदीर्य च ॥ श्रीमहुलिकापुष्प-मित्राख्यं सूरिमूचिरे ॥ ३७॥ तन्निशम्योद्गतामों, माहिलः सर्वसाधुभिः ॥ इहैव तिष्ठतेत्युक्तो-ऽप्यनिच्छन्निर्ययौ बहिः ॥ ३८ ॥ पूर्वोपाश्रयपार्थस्थे, स्थित्वा सोपाश्रये पृथक् ॥ प्रावर्तिष्ठान्यसावादीन् , व्युद्धाहयितुमुचकैः ॥ ३९ ॥ व्युद्धाहयितुमैशिष्ट, न पुनः कश्चनापि सः ॥ ततः सोऽन्वेषयामास, सूरीणां छिद्रमन्वहम् ॥ ४० ॥ इतच पुष्पमित्राख्य-सूरयोप्यर्थपौरुषीम् ॥ सर्वर्षीणां पुरश्चकुः, श्रुतार्थकथनात्मिकाम् ॥४१॥ सूरीणां सन्निधानेऽर्थ, शृणुतेति महर्षिभिः ॥ तदा प्रोक्तो माहिलर्षि-ईविष्टोऽब्रवीदिति ॥ ४२ ॥ निष्पावकुम्भकल्पस्य, तस्याभ्यणे महाधियः । ॥ यूयमेव श्रुतामायान् , गृहीत निखिलानपि ॥४३॥ पूर्व कर्म प्रवादाख्य-मष्टमं सूरयस्तु ते ॥ अध्यापयन्तो बन्ध्यादि-साधूनामभवंस्तदा ॥ ४४ ॥ तत्रावन्ध्यमतिर्वन्ध्यो-ऽन्य दाधीत्यानुचिन्तयन् ॥ त्रैविध्यं कर्मबन्धस्य, न्याचख्याविति तद्यथा ॥ ४५ ॥ जीवैर्हि बध्यते कर्म, बद्धं स्पृष्टं निकाचितम् ॥ तत्र बद्धं यथा सूची-कलापस्तन्तुवेष्टितः ॥ ४६ ॥ स्पृष्टं यथा सूचिकास्ताः, किट्टेनैकत्वमाश्रिताः ॥ निकाचितं यथा ताप-कुट्टनैरेकतां गताः ॥ ४७ ॥ बनायेवं पूर्वमात्मा, रागादिपरिणामतः ॥ प्रदेशैः सकलैः कर्म, विज्ञानावरणादिकम् ॥ ४८ ॥ तदेव कुरुते स्पृष्टं, तत्परीणामवृद्धितः ॥ संक्लिष्टान्तु परीणामा-तत्करोति निकाचितम् ॥ ४९ ॥ तत्र बद्धं याति नाश-मुपायैर्निन्दनादिभिः ॥ प्रायश्चित्ताधुपायैस्तु, स्पृष्टं कर्म निवर्तते ॥ ५० ॥ निकाचितं तु यत्कर्म, जीवैः सुदृढबन्धनात् ॥ उदयेनैव तत्प्रायो, वेद्यते नान्यथा पुनः॥५१ ॥ इत्यनुप्रेक्षमाणं तं, गोष्ठामाहिल इत्यवक् ॥ मैवं वादीर्यदस्माभि-गुरुभ्यो नेदृशं श्रुतम् ॥ ५२ ॥ यदि स्यादात्मना कर्म, बद्धं स्पृष्टं निकाचितम् ॥ तदा तदपृथग्भावा-मोक्षस्तस्य कथं भवेत् ? ॥५३॥ वन्ध्योऽभ्यधात्कथं तर्हि, सम्बन्धो जीवकर्मणोः॥ तत इत्यलपद्गोष्ठा-माहिलः कल्पनापटुः ॥५४॥ यथा कञ्चुकिनो देहं, बहिः स्पृशति कक्षुकः ॥ वपुषा सह सम्बद्धो, न त्वसौ जातु जायते॥५५॥ एवं कर्मापि जीवेन, स्पृष्टं बद्धं पुनर्न तत् ॥ यस्तु तन्मन्यते बद्धं, तस्य न स्याद्भवक्षयः ॥५६॥एतावदेव गुरुभिः, प्रोक्तं नः पाठनक्षणे॥ एष सूरिस्तु तत्तत्त्वं, नैव जानाति किञ्चन ॥५७॥ जाताशङ्कस्ततो गत्वा, पन्ध्यः सूरीन्द्रसन्निधौ ॥ निवेष माहिलवचः, किं तथ्यमिति पृष्टवान् ? ॥ ५८ ॥ सूरयः प्रोचुरुक्तं हि, प्राग्मवा सभ्यमेव ते ॥ माहिलख तु गीनैव, युक्ता युक्तिविरोधतः ॥ ५९ ॥ जीवो हि खावगाहाभि-व्याप्त एवाम्बरे स्थिसम् ॥ गृह्णाति कर्मदलिक, जातु न त्वन्यदेशगम् ॥ ६० ॥ तथा च वह्नययापिण्ड-बदैक्यं जीवकर्मणोः ॥ स्थान तु स्पृष्टमात्रत्वं, देहकञ्चुकवत्तयोः ॥ ६१ ॥ अथात्मान्यप्रदेशस्थं, कर्मादायानुषेष्टयेत् ॥ यद्यात्मानं तदा तस्स, घटते कशुकोपमा ॥६२॥ किन्तु स्वादपसिद्धान्त-स्तदा सूत्रविरोधतः ॥ सूत्रे सन्यप्रदेशस्थ-कर्मादानं निषिध्यते ॥६३॥ किञ्च कञ्चकवत्कर्म, चेद्वहिःस्थितमात्मनि ॥ वेदनापि तदा कर्म-निमित्तान्तः कथं भवेत् १ ॥ ६४ ॥ अथ संचारि. भावात्स्या-कर्म मध्येपि संस्थितम् ॥ इत्यन्तर्वेदनापि सा-दिति चेत्तेन मन्यते ॥ ६५ ॥ तर्हि कझुककल्पत्वं, कर्मणो न्याहतं स्फुटम् ॥ कक्षुको हि पहिः स्पृष्ट, एव स्वान्न तु मध्यगः ॥ ६६ ॥ तदा च युगपन्न स्था-दहिर्मध्ये च वेदना ॥ कर्मणो बहिरन्तर्वाऽ सम्बन्धाद्वेदना कुतः१॥ ६७ ॥ संचारित्वाच तत्कर्म, न गच्छति भवान्तरे ॥ जीवेन सह देहस्थ-निःश्वासादिसमीरवत् ॥ ६८ ॥ सर्जीवप्रदेशस्त-निबद्धं कर्म मन्यताम् ॥ रागादिवन्धहेतूनां, सझावात्सकलात्मनि ॥ ६९ ॥ न चाविभागसम्बन्धा-त्पार्थक्यं जीवकर्मणोः ॥ नैव भावीति विज्ञेयं, तद्वाक्याकर्जनात्त्वया ॥ ७० ॥ यतोऽविमागसम्बन्ध-वतोरप्पश्महेमयोः ॥ ध्यग्मावो जायमानः, प्रत्यक्षेण निरीक्ष्यते ॥७१॥ इत्यादिमिः सूरिखास्य-वन्ध्यो निःशक्तां गतः ॥ माहिलायाऽवदत्तानि, दूतं गत्वा तदन्तिके ॥७२॥