________________
उचराप्ययनसूत्रम् एवं तयोरभूद्वादः, षण्मासी यावदन्वहम् ॥ ७६ ॥ अथ भूपो गुरुं प्रोचे, खामिन् ! वादः समाप्यताम् ॥ निलं सीदति मे राज-कार्य व्यग्रतयाऽनया ॥ ७७ ॥ ऊचे सूरिरियत्कालं, धृतोऽयं लीलया मया ॥ अथाऽस्य निग्रहं प्रातः, करिष्ये नात्र संशयः ॥ ७८ ॥ ततः प्रभाते गुरवः, सभां गत्वेति तं जगुः ॥ एहि सत्यपरीक्षार्थ, गच्छामः कुत्रिकापणम् ॥ ७९ ॥ हट्टो हि देवसम्बन्धी, 'कुत्रिकापण' उच्यते ॥ सद्भावानखिलास्तत्र, प्रदत्ते प्रार्थितः सुरः ॥८०॥ इत्युक्त्वा ते सहादाय, रोहगुसं नृपान्विताः ॥ सुधियामापणा जग्मु-गुरवः कुत्रिकापणम् ॥ ८१ ॥ तत्र जीवानजीवांश्च, नोजीवांश्च प्रदेहि नः ॥ तैरित्युक्तः सुरो जीवा-नजीवांश्च ददौ द्रुतम् ॥ ८२ ॥ नोजीवास्तु जगत्यत्र, नो सन्तीति शशंस च ॥ नोजीवे याचिते भूयो-ऽप्यजीवं वा ददौ सुरः॥८३ ॥ रोहगुप्तं ततः सूरि-रूचे मुञ्च कदाग्रहम् ॥ नोजीवश्चेदस्ति विश्वे, तर्हि नादात्कथं सुरः १ ॥ ८४ ॥ प्रभैरित्यादिभिः सूरि-स्तं द्रुतं नृपसाक्षिकम् ॥ निजग्राह चतुश्चत्वा-रिंशंद्युतशतोन्मितः ॥ ८५ ॥ तथापि रोहगुतस्या-ऽत्यजतस्तं . कदाग्रहम् ॥ खेलमलकभस्म द्राक्, शिरसि न्यक्षिपद्गुरुः ॥ ८६ ॥ ततस्तं निह्नव इति, सूरिराजैर्बहिष्कृतम् ॥ चक्रे निर्विषयं भूपः, कुद्धस्तच्छाख्यदर्शनात् ॥ ८७ ॥ जयति श्रीमहावीर-जिन इत्यखिले पुरे ॥ उद्घोषणां धराधीश-श्वकार गुरुशासनात् ॥८८॥ गुरुदत्तेयमित्यङ्गे, वहन् भूति ततः परम् ॥ निर्लज्जो रोहगुसोऽपि, खैरं बभ्राम भूतले ॥८९॥ स वैशेषि. कसूत्राणि, कल्पयामास च खयम् ॥ पदार्थानियतं द्रव्य-गुणादीन् षट् प्ररूपयन् ॥९० ॥ पूर्वोदिताः प्रश्नगणास्विह-ज्ञेया बृहदृत्तिविलोकनेन ॥ आसादितोऽप्येवमपैति बोधि-यलादयं तन्ननु रक्षणीयः॥९१॥इति षष्ठनिह्नवकथा॥६॥ ___"अथो चतुरशीत्याढ्यै-वर्षाणां पञ्चभिः शतैः ॥ श्रीवीरमुक्तेर्जातस्य, ससमस्योच्यते कथा ॥१॥""तथा हि"देवेन्द्रवन्दिताः पूर्वो-दिताः श्रीआर्यरक्षिताः॥ पुरं दशपुरं जग्मु-रन्यदा गच्छसंयुताः ॥२॥ तेषां शिष्यास्त्रयोऽभूवन्, विशेषेण विचक्षणाः॥ तेषु दुर्बलिकापुष्प-मित्रनामादिमो मतः ॥३॥ द्वैतीयिकस्तु सूरीणां, सोदरः फल्गुरक्षितः॥ तृतीयस्त्वभवद्गोष्ठा-माहिलः सूरिमातुलः ॥ ४ ॥ तदा च मथुरापुर्या-माययौ कोऽपि नास्तिकः ॥ नास्त्यात्मेसादिभिक्यै-र्लोकान् व्युराहयन् बहून् ॥५॥ तत्र चाऽभूत्साधुसहो, न पुनः कोऽपि वादकृत् ॥ नास्तिकस्तु स निग्राह्यः, कथञ्चिल्लोकवञ्चकः ॥६॥ इति वादिनमानेतुं, सङ्घः स मथुरास्थितः ॥ श्रमणान् प्राहिणोत् श्रीमदार्यरक्षितसन्निधौ ॥ ७॥ इति व्यज्ञपयंस्तेऽपि, गत्वा श्रीआर्यरक्षितान् ॥ लोकान् व्युद्राहयत्युच्चै-मथुरापुरि नास्तिकः ॥८॥ तत्तं जेतुं खयं पूज्या, नगरी पावयन्तु ताम् ॥ प्रेषयन्त्वथवा कश्चि-द्विनेयं वादिजित्वरम् ॥९॥ ततस्ते सूरयस्तत्र, वृद्धत्वाद्न्तुमक्षमाः ॥ बादलब्धिधर गोष्ठा-माहिलं प्रेषयंस्तदा ॥ १०॥ सोऽपि तत्राग त्रा-ऽऽहातुमागतसाधुभिः ॥ वादे निरुत्तरीचक्रे, तश्च चार्वाकमुप्रधीः ॥ ११॥ जितकाशी सूरिपार्थे, यियासुरपि स व्रती ॥ सवाग्रहवशात्तत्र, चतुर्मासीमवास्थितः ॥ १२ ॥ __इतश्च विश्रवन्धाः श्री-आर्यरक्षितसूरयः ॥ निजायुःप्रान्तमासन्न-विज्ञायैवमचिन्तयन् ॥ १३ ॥ योग्यस्यैव विनेयस्थ, प्रदेया गणधारिता ॥ अयोग्यस्य तु तहाने, दातुर्दोषो भवेन्महान् ॥ १४ ॥ यदाहुः-“बूढो गणहरसहो, गोजमाईहिं धीरपुरिसेहिं ॥ जो तं ठवेइ अपत्ते, जाणतो सो महापावो! ॥ १५ ॥" तदाचार्यपदं देयं, योग्यस्यैव विवेकिना ॥ अयोग्यस्त न तस्याः , पायसस्येव वायसः!॥१६॥ योग्यस्त मम दधिः ॥ अस्ति दुर्बलिकापुष्प-मित्रनामा महाशयः ॥ १७ ॥ सर्वेषामात्तदीक्षाणां, मद्वन्धूनां तु सर्वथा ॥ श्रीफल्गुरक्षितो गोष्ठा-माहिलो वाऽस्ति सम्मतः ॥ १८ ॥ कांक्षन्ति गणधारित्वं, खजनत्वाद्धि ते तयोः ॥ सम्यग्जानन्ति न त्वेषां, प्रयाणां गौणमन्तरम् ॥ १९ ॥ ततस्तदन्तरं प्रोच्य, सर्वर्षीणां निजे पदे ॥ शिष्यं दुर्बलिकापुष्प-मित्राख्यं खापयाम्यहम् ॥ २०॥ विमृश्येत्सखिलान् साधून् , समाहूय मुनीवरः ॥ वल्लतैलाज्यकुम्भानां, दृष्टान्तानित्यवोचत ॥ २१ ॥ वलकुम्भाद्यथा रिक्ती-कर्तुं नीचैर्मुखीकृतात् ॥ निष्पावा निखिला मध्य-गता निर्यान्ति सत्वरम् ॥ २२ ॥ एवं दुर्बलिकापुष्प-मित्रनाम्नो महामतेः ॥ जातोऽस्मि श्रुतसूत्रार्थ-दाने बल्लघटोपमः ॥ २३ ॥ अधोमुखीकृतात्तैल-घटात्तैलं यथा द्रुतम् ॥ निर्याति भूरि किञ्चित्तु, तिष्ठत्यपि घटाश्रितम् ॥ २४ ॥ फल्गुरक्षितसंज्ञस्य, श्रुतामायार्पणे तथा ॥ जातोऽस्म्यहं तैलकुम्भ-सन्निभो भो महर्षयः । ॥ २५ ॥ अवाशुखीकृतादाज्यकुम्मातु स्तोकमेव हि ॥ घृतं निर्याति भूयस्तु, तिष्ठत्येव घटान्तरे ॥ २६ ॥ एवं जातोऽस्म्यहं गोष्ठा-माहिलामिषसन्मुनेः ॥ श्रीमत्सिद्धान्तसूत्रार्थ-दाने घृतघटोपमः ॥ २७ ॥.तदयं श्रुतपायोधि-पारस्था गुणोदधिः ॥ अस्तु