________________
॥८४॥
उत्सराप्ययनसूत्रम् मताः ॥ ३२ ॥ वाच्यं न चेदं त्रैविध्य-मयुक्तं युक्तिवेदिभिः ॥ दण्डादावादिमध्यान्त-रूपत्रैविध्यदर्शनात् ॥३३॥ मावेष्वेवं जगत्काल-मुख्येषु सकलेष्वपि ॥ विध्यं दृश्यते तन्न, द्वैविध्यं स्यादिहोचितम् ॥ ३४ ॥ तेनेति राशित्रितयं, व्यवस्थाप्य पराजितः ॥ परिव्राट् तज्जयायाऽथ, वृश्चिकान् विदधे बहून् ॥ ३५॥ ऊीकृतोरुपुच्छांस्तानायातो वीक्ष्य दुर्धरान् ॥ रोहगुप्तो न्यधाद्भरि-बहिणस्तन्निवर्हणान् ॥ ३६ ॥ वृश्चिकेषु मयूरैस्तै-निहतेषु त्रिदण्डिकः ॥ भोगाभोगेन कीनाश-दण्डाभान् भोगिनोऽतनोत् ॥ ३७ ॥ दृष्ट्वोत्कटस्फुटाटोप-विकटांस्तानयो मुनिः ।। चकार नकुलांस्तैश्च, ते व्याला जनिरे द्रुतम् ॥ ३८॥ ततः परित्राड् विदधे, मूषकान् दशनोद्यतान् ॥ रोहगुप्तविमुक्तैस्ते-ऽप्योतुभिर्दाग् निजक्षिरे ॥ ३९ ॥ तीक्ष्णशृङ्गांस्ततोऽमुश्च-त्स परिव्राजको मृगान् ॥ तेऽपि व्याप्रैः साधुमुक्तै-निहता विलयं ययुः ॥ ४०॥ चकार शूकरान् सोऽथ, त्रिदण्डी चण्डदंष्ट्रिकान् ॥ रोहगुप्तोऽपि तान् रुद्रैः, पारीन्द्राक् न्यवारयत् ॥ ४१॥ मुमोचाऽथ द्विकव्यूहान् , वज्रतुण्डास्त्रिदण्डिकः ॥ तांश्च न्यषेधयद्विचाविहितैः कौशिकैव्रती॥ ४२ ॥ अतिदुष्टाः शकुनिका-स्ततः सन्यासिकोऽमुचत् ॥ श्येनैर्निरुत्तरीचक्रे, तांश्च साधुमहाबलैः ॥ ४३ ॥ विद्याभिराभिस्तं जेतुं, परिवाड् नाऽशकधदा ॥ तदा स मुमुचे विद्या-निर्मितां रासभी रुषा ॥४॥ तां चायान्ती रोहगतो. निरीक्ष्य परितस्तनम ॥ तद्रजोहरणं भ्राम, भ्रामं तेन जघान ताम ॥१५॥ तन्महिना निष्प्रभावा, निवृत्ता साऽपि रासभी ॥ तस्योपरि परिव्राज- छर्दयित्वा तिरोदधे ॥४६ ॥ क्षीणविद्याबलः सोऽथ, त्रिदण्डी तेन निर्जितः ॥ अहील्यताऽखिलैर्लोक-निर्देष्ट्र इव पन्नगः ॥ ४७ ॥ ततः स लजितोऽत्यर्थ, निरगाद्राजसंसदः ॥ रोहगुप्तस्त्वगालोकैः, स्तूयमानोऽन्तिके गुरोः ॥ ४८ ॥ यथा जातमवादीच, तादव्यतिकरं गुरोः ॥ तदाकाऽवदत्सूरि-रीकृतकदाग्रहः ॥ ४९॥ विजेतुं वादिनं राशि-त्रितयं स्थापितं त्वया ॥ राशिद्वितयमेवास्ति, वास्तवं तु जगत्रये ॥ ५० ॥ एवमुत्तिष्ठता वत्स, ! नोक्तं चेत्पर्षदि त्वया ॥ इदानीमपि तत्तत्र, गत्वाख्याहि यथातथम् ॥५१॥ युग्मम ] श्रीगप्तसरिभिरिति.प्रोक्तोऽपि स पुनः पुनः॥ ममापभ्राजना माऽभदिति नैषीद्गुरोर्गिरम् ॥ ५२ ॥ एवमूचे च नन्वत्र, दोषः को नाम विद्यते ? ॥ अस्त्येव राशित्रितयं, वास्तवं यजगत्रये ॥ ५३॥ गुरुर्जगावसद्भाव--मेनं माख्याहि सन्मते! ॥ आशातना जिनानां स्या-दसतो हि प्ररूपणे ॥ ५४॥ एवं निवार्यमाणोऽपि, सूरिभिः स तमाग्रहम् ॥ नात्याक्षीकिन्तु तैः साक-मारेभे वादमुन्मदः ॥ ५५ ॥ ततस्तेन सहाचायो, गत्वा पार्थिवपदि ॥ इत्यूचुमेम शिष्येणा-ऽमुनाऽयुक्तं तदोदितम् ॥५६॥ द्वावेवराशी विद्यते, मते न: कथितो जिनैः ॥ असौ तु वादिनं जेतुं, जगौ राशित्रयं तदा ॥ ५७ ॥ अथ चाऽयं मदाध्मातः, सत्यं न प्रतिपद्यते ॥ मया प्रज्ञाप्यगानस्तु, विवादायोपतिष्ठते ॥५८ ॥ आकर्णयोभयाकर्णि, राजस्तद्वादमावयोः ॥ सत्याससविवेको हि, न स्यायुष्माशैबिना ॥ ५९॥ ततो राज्ञाभ्यनुज्ञाता-स्तत्र श्रीगुप्तसूरयः ॥ उपविश्याऽवदन् रोहगुप्तं ब्रूहि निजं मतम् ॥ ६०॥रोहगुप्तो जगौ जीवा-दजीयो भिद्यते यथा ॥ विलक्षणत्वानोजीयो-ऽप्येवं तस्माहिमियते ॥ ६१ ॥ तज्जीवाजीवनोजीव-रूपं राशित्रयं स्फुटम् ॥ मतं ममेति तेनोक्ते, जजल्पुरिति सूरयः ॥ ६२ ॥ जीवाद्विलक्षणत्वं य-रोजीवस्योदितं त्वया ॥ तन्न सङ्गच्छते जीव-धर्माणां तत्र दर्शनात् ॥ ६३ ॥ नोजीवो हि छिन्नपल्ली-पुच्छादिस्तव संमतः ॥ तत्र तु प्रेक्ष्यते जीव-लक्षणं स्फुरणादिकम् ॥ ६४ ॥ अथ चेजीवदेशत्वा-नोजीवः स त्वयोच्यते ॥ तत्किं स देशः स्याजीवा-द्भिन्नस्तदितरोऽथवा ? ॥६५॥ भिन्नश्चेत्तेन जीवेन, पुनस्तत्सङ्गमः कथम् ? ॥ भिन्नो हि देशोऽन्यत्रापि, संमिलेत्परमाणुवत् ॥ ६६ ॥ तस्य देशस्य चान्येन, जीवेन सह सङ्गमे ॥ मुखदुःखादि सार्य,स्यात्तयोः कर्मसङ्करात् ॥ ६७ ॥ अथ जीवस्य कर्मेव, देशे संक्रामतीति चेत् ॥ तदा तु दोषी जायेतां, कृतनाशाकृतागमौ ॥ ६८ ॥ कृतनाशो हि जायेत, नाशाद्देशस्थकर्मणः ॥ जीवस्थकर्मणो देशे, सञ्चारावाकृतागमः ॥ ६९ ॥ किश्चामूर्तस्य जीवस्य, गगनस्व कर्हिचित् ॥ नैव देशो मवेशिनः, खतोऽपि परतोऽपि च ॥ ७० ॥ अभिन्नश्चेत्तदा तु स्या-जीवान्तर्गत एव सः ॥ तदा च राशिद्वितय-मेवासीन्न तु तत्रयम् ॥ ७१॥ अथाऽमिन्नोऽप्ययं देशः, स्थानमेदविवक्षया ॥ नो जीवः कथ्यते कुम्भ-गृहाचाकाशवद्यदि ॥ ७२ ॥ तर्हि राशि!बजीव-नामाऽपि प्रतिपद्यताम् ॥ व्योमादीनामजीवाना-मप्येवं देशसम्भवात् ॥ ७३ ॥ तथात्वे च भवेद्राशिचतुष्कं भवतो मते ॥ तद्राशित्रयमेवात्र, कुतस्त्वं प्रतिपद्यसे १ ॥७४ ॥ अथाऽजीवानोअजीवो, लक्षणक्यान मियते ॥ नो जीवोऽपि तदा जीवा-लक्षणैक्यान्न मिद्यते ॥ ७५ ॥ तद्राशिवयमेवास्ति, वास्तवं न तु तत्रयम् ॥