________________
॥ ८३ ॥
उत्तराध्ययनस्त्रम् । इयन्मुनीन् ॥ आग्रही हि खवत्कर्तु - मिच्छत्यन्यमलर्कवत् ॥ १८ ॥ तं च श्रुत्वा जनश्रुत्या, जनन्युग्राहणोद्यतम् ॥ सूरयोऽवारयन्नेष, संसारे मा भ्रमीदिति ! ॥ १९ ॥ तथापि तं तथावस्थ-मत्यजन्तं तमाग्रहम् ॥ उत्सर्गपूर्वमाचार्याः, शासनान्निरकाशयन् ॥ २० ॥ ततो व्युद्वाहयन् लोका-नसद्भावनया तया ॥ पुरे राजगृहेऽन्येधु- र्ययौ खैरं परिभ्रमन् ॥ २१ ॥ सुखं तत्रावतस्थे च मणिनागाख्यभोगिनः ॥ चैत्ये महातपस्तीर - प्रभावहदपार्श्वगे ॥ २२ ॥ तत्र चोपादिशदिदं श्रोतृसन्दोहसंसदि । वेद्यते युगपज्जीवैः, क्रियायुगलमप्यहो ! ॥ २३ ॥ इति प्ररूपयन्तं तं, पर्षन्मध्यस्थमेव सः । उद्यम्य मुद्गरमिति, प्रोचे, चैत्याधिपः फणी ॥ २४ ॥ श्रीवीरेणाऽत्र समव - सृतेनेति. प्ररूपितम् । एकैव वेद्यते जीवै - रेकस्मिन् समये क्रिया ॥ २५ ॥ तत्किं त्वमधिकज्ञानो, जातो ? वीरप्रभोरपि ॥ यदन्यथा वचस्तस्य, कुरुषे दुष्ट शिष्य रे ! ॥ २६ ॥ मुच दुर्वासनामेना - मङ्गीकुरु विभोर्वचः ॥ नो चेत्त्व शिक्षयिष्यामि, मुद्गरेणाऽमुनाऽधुना ॥ २७ ॥ प्रत्यक्षीभूय तेनैवं, शिक्षितो नागनाकिना । तत्सोऽङ्गीकृतवान् मिथ्यादुष्कृतं मेऽस्त्विति ब्रुवन् ॥ २८ ॥ गङ्गदेव इति तेन भोगिना, बोधितः पुनरवाप्तबोधिकः ॥ गाङ्गवारिविमलं दधव्रतं भूतले विहरति स्म पूर्ववत् ॥ २९ ॥ इति पञ्चमनिह्नवकथा ॥ ५ ॥
“चतुश्चत्वारिंशदाढ्यै- र्वर्षाणां पञ्चभिः शतैः ॥ श्रीवीरमुक्तेर्जातस्य षष्ठस्याथोच्यते कथा ॥ १ ॥ " तद्यथा" - श्री अन्तरञ्जिकापुर्या, बलश्रीरभवनृपः ॥ तिरस्कारी रिपुबल - श्रियां स्वीयबलश्रिया ॥ २ ॥ तस्यां नगर्याम- भूतगुहाभिधे ॥ सगच्छाः समवासार्षुः, श्रीगुप्साह्वयसूरयः ॥ ३ ॥ इतश्चैको भूरिविद्या - बलाढ्यो र्गवपर्वतः ॥ परित्राडाययौ तस्यां पुर्यामखिलशास्त्रवित् ॥ ४ ॥ लोहपट्टाबद्धतुन्दो, जम्बूशाखां दधत् करे ॥ पुरे तत्राभ्रमलोकैः, पृष्टचैवमुवाच सः ॥ ५ ॥ इदं तुन्दं महाविद्या- सम्भारेणातिभूयसा ॥ स्फुटतीति मया लोह -पकेन निबध्यते ! ॥ ६ ॥ जम्बूद्वीपे च मे कोपि, प्रतिवादी न विद्यते ॥ इति सूचयितुं जम्बू-शाखासौ प्रियते मया ! ॥ ७ ॥ ततो लोकाः 'पोहसाल', इति नाम्ना तमूचिरे ॥ सोऽपि राजसभां गत्वा, बलश्रीनृपमित्यवक् ॥ ८ ॥ तव पुर्या भवेत्कोऽपि, यदि वादी तदा मया ॥ वादं कारय नो चेन्मे, जयढक्कां समर्पय ! ॥ ९ ॥ तारो बादिनोऽन्यस्या - Sभावाद्भूमिविभुस्ततः ॥ विमनस्कोऽप्यदात्तस्मै, पटहं जयसुचकम् ॥ १० ॥ परप्रवादाः सर्वेऽपि, शून्या इतकि सोऽप्यथ ॥ उद्घोषयितुमारेभे, डिण्डिमाघातपूर्वकम् ॥ ११ ॥ इतश्च तेषां श्रीगुप्त-सूरीणां भागनीसुतः ॥ शिष्यश्व रोहगुप्ताख्य-स्तत्रागच्छन् पुरान्तरात् ॥ १२ ॥ परित्राकारितां श्रुत्वोघोषणां तामदोवदत् ॥ करिष्ये वादममुना, तन्माबादय तानकम् ! ॥ १३ ॥ उद्घोषणां निषिध्येति, गत्वा च गुरुसन्निधौ ॥ परित्रा पटहापोह - वार्ता तेषां जगाद सः ॥ १४ ॥ ततस्तं प्रोचुराचार्या, वत्स ! दुष्टु कृतं त्वया ॥ स हि त्रिदण्डिको भूरि-विद्याढ्यो विद्यते यतः ॥ १५ ॥ स च वादे पराभूतो, विद्याभिः प्रतिवादिनः । करोत्युपद्रवं नाना- विधामिदम्भिकाग्रणीः ॥ १६ ॥ वृश्विकान्पन्नगानाखू - न्मृगशूकरवायसान् ॥ शकुन्तिकाश्च कुरुते, स हि विद्यामिरुटान् ॥ १७ ॥ ततोऽवादीद्रोहगुप्तः, कृतं चिन्तनयाऽनया । न हि वादं प्रतिज्ञाया - ऽन्तर्द्धातुं शक्यतेऽधुना ॥ १८ ॥ मया हि शासनं जैन-मपि मा धर्षयत्वयम् ॥ इति वादोऽङ्गीकृतस्त- धद्भाव्यं तद्भवत्विह । ॥ १९ ॥ ततस्तं वादकरणैका निर्णीय सूरयः ॥ परिब्राजित्वरीः पाठ-सिद्धा विद्या इमा ददुः ॥ २० ॥ केकिनो नकुला ओतु - व्याजसिंहाथ कौशिकाः ॥ श्येनाथ यामिर्जायन्ते तद्विद्याबाधकाः क्रमात् ॥ २१ ॥ अथ चेदपरं किञ्चि - दुपद्रवकरं भवेत् ॥ रजोहरणमेतत्त्वं भ्रमयेः परितस्तदा ॥ २२ ॥ अनेनैव निहन्याम, तदुपद्रवकारकम् ॥ अस्यानुभावाच्छक्रस्याऽप्यजय्यस्त्वं भविष्यसि ! ॥ २३ ॥ इत्युक्त्वा मन्त्रयित्वा च ते रजोहरणं वरम् ॥ ददुस्तस्मै तदादाय, सोप्यगाडूपपर्षदि ॥ २४ ॥ किं बेसि दुर्विदग्धोऽसौ परिव्राजकदर्दुरः ॥ पूर्वपक्षस्तदस्यैव भवत्विति जगाद च ॥ २५ ॥ एते हि जैना दक्षाः स्यु-र्वादादौ युक्तिपाटवात् । तदेषामेव सिद्धान्तं गृहामीति विचिन्तयन् ॥ ततत्रिदण्डिकोवादीत्, द्वौ राशी मम सम्मतौ ॥ जीवराशिरजीवानां, राशिश्चेति क्रमेण तौ ॥ २७ ॥ [ युग्मम् ] तदाकर्ण्य तदा रोहगुप्त एवं व्यचिन्तयत् ॥ अयं हि मम सिद्धान्ते, प्रविष्टो धूर्त धूर्वहः ॥ २८ ॥ अहमप्येवमेवाथ, चेद्वक्ष्ये तदयं जनः ॥ ज्ञास्पत्यसौ परित्राजो, मतं स्वीकृतवानिति ॥ २९ ॥ तद्वचः सत्यमप्यस्यो -त्थापनीयं मयाऽधुना ॥ वादे हि तथ्यमप्यन्य- वचो हन्येत युक्तिभिः ॥ ३० ॥ ध्यात्वेति सोऽवदद्वादि - न्मावादीरीदृशं वचः ॥ यज्जीवाजीवनोजीव-रूपं राशित्रयं भवेत् ॥ ३१ ॥ तत्र जीवा मवस्थाद्या, अजीवाश्च घटादयः ॥ नो जीवास्तु छिन्नगृह - गोषापुच्छादयो
,