________________
॥८२॥
उपरापवनरमम यतः-"अपरापरपर्यायो-त्पत्तिनाशाद्यपेक्षया ॥ कथञ्चिदेव वस्तूनां, नाशोऽनुक्षणमिष्यते ॥९॥" सर्वथा मर्यविध्वंस-खीकारे तु क्षणान्तरे ॥ प्रत्यक्षेण तथारूपः, पदार्थो दृश्यते कथम् ? ॥ १० ॥ “किञ्च"-प्रतिक्षणं वस्तुनाशे, सर्वथा स्वीकृते कथम् ॥ ऐहिकः पारत्रिकश्च, व्यवहारोऽपि सिध्यति ? ॥ ११ ॥ तथाहि-"भुक्तिप्रारम्भकोऽन्यः स्या-तृप्तिरन्यस्य जायते ॥ अन्यो गच्छति पन्थान-मन्योऽनुभवति श्रमम् ॥ १२ ॥" "पश्यत्यन्यो घटापर्थान् , ज्ञानमन्यस्य जायते ॥ अन्यः प्रारभते कार्य, कर्ता चान्यो भवेजनः ॥ १३॥” “अन्यः करोति दुष्कर्म, नरके याति चापरः ॥ चारित्रं पालयत्यन्यो, मुक्तिमन्योऽधिगच्छति ॥ १४ ॥” इति सर्व वैपरीत्यं, भवेत्क्षणिकवादतः॥ न चैतदृष्टमिष्टं वा, केनापि कचिदप्यहो! ॥ १५॥ तत्सर्वथा वस्तुनाशो-ऽनुक्षणं नैव यौक्तिकः॥ज्ञेयोऽसौ किन्तु पर्याय-परावृत्त्या विचक्षणः ॥ १६ ॥ सूत्रेऽपि नारकादीना-मुच्छेदो यः प्रकीर्तितः ॥ पर्यायान्तरसम्प्रा.
ध्यताम ॥ १७॥ जैनानां मखिलं वस्तु, द्रव्यतः शाश्वतं भवेत् ॥ अपरापरपर्याय-परावृत्तेस्त्वशाश्वतम् ॥ १८ ॥ इति सूरिभिरुक्तोपि, न मेने स मुनिर्यदा ॥ बहिश्चक्रे तदोत्सर्ग-पूर्व निह्नव इत्ययम् ॥ १९॥ ततो व्युद्धाहितैः सार्ध, साधुभिर्भूतलेऽभ्रमत् ॥ स समुच्छेदवादोक्त्या, लोकान् ब्युदाहयन् भृशम् ॥ २० ॥ सोऽन्यदा पर्यटन राज-गृहेगात्सपरिच्छदः ॥ शुल्काध्यक्षास्तत्र राज्ञो, बभूवुः श्रावकोत्तमाः! ॥ २१ ॥ ते च तानागतान् ज्ञात्वा, सामुच्छेदिकनिह्नवान् ॥ दध्युरेतान् बोधयामः, कर्कशेनापि कर्मणा ॥ २२ ॥ यतः-“यः कर्कशोप्युपायः प्राग , विपाके सुन्दरो भवेत् ॥ सोप्यङ्गिनां हितस्तीव्रः, प्रतिकार इवापटोः ॥ २३॥ध्यात्वेत्यारेभिरे तेषां, ताडनं ते कशादिभिः ॥ ततस्ते मुनयः प्रोचु-र्भयवेपितभूघनाः ॥ २४ ॥ अस्माभिः श्रावका यूयं, जनश्रुत्या श्रुताः पुरा ॥ तत्किं विधत्त विध्वंस-मस्माकं व्रतिनामपि ? ॥ २५ ॥ श्राद्धाः प्रोचुरभूदात्तं, व्रतं यैस्ते भवन्मते ॥ व्युच्छिन्नाः सर्वथा यूयं, चोत्पन्नाः केचनाऽपरे ! ॥ २६ ॥.किञ्च प्रतिक्षणं युष्मान् , खयमेव विनश्वरान् ॥ विनाशयत्यन्य इति, प्रतिपद्येत कः सुधीः १ ॥ २७ ॥ युष्मन्मते च वयम-प्यपरे श्रावका न तु ॥ अथ चेत्स्वामिसिद्धान्तं, प्रमाणीकुरुतोत्तमम् ॥ २८ ॥ तदा तु युष्मांस्तानेव, श्रद्दध्मः श्रमणोत्तमान् ॥ न च युष्मान्नाशयाम-स्त एव श्रावका वयम् ॥ २९ ॥ यतः-“तदेव वस्तु कालादि-सामग्र्या खामिनो मते ॥ एकसामयिकत्वेन, व्युच्छिनत्ति क्षणान्तरे ॥ ३०॥ द्विसामयिकभावेनो-त्पद्यते चापरे पुनः॥ द्विसामयिकतां त्यक्त्वा, तत्रिसामयिकं भवेत् ॥३१॥ एवं पुनः पुनर्वाच्यं, चतुरादिक्षणेष्वपि ॥ नारकाद्या अप्यनेना-ऽऽशयेन क्षणिका मताः ॥ ३२ ॥ श्रुत्वेति प्रतिबुद्धास्ते, क्षणक्षयकदाग्रहम् ॥ हित्वा वीरविभोर्वाणी, तथेति प्रतिपेदिरे ॥ ३३ ॥ अथ तैर्मुदितैरुपासकैः, क्षमयित्वा परिवन्दिता मुदा ॥ व्यहरन् भुवि ते महर्षयः, पुनरासादितश्रुतबोधयः ॥ ३४ ॥ इति चतुर्थनिह्नवकथा ॥ ४ ॥
"प्रभोर्मोक्षाद्गतेऽन्दाना-मष्टाविंशे शतद्वये ॥ जातस्य निह्नवस्याथ, पञ्चमस्योच्यते कथा ॥१॥" "तद्यथा"तटिन्या उल्लुकातायाः, पूर्वस्मिन्पुलिने पुरं ॥ आसीदुल्लकतीराख्यं, परमार्द्ध मनोरमम् ॥ २॥ तस्या एव सरखत्याः, द्वितीयपुलिने पुनः ॥ बभूव भूरिलक्ष्मीकं, खेटस्थामाभिधं पुरम् ॥ ३॥ महागिरिगुरोः शिष्यः, खेटस्थामपुरेऽन्यदा ॥ धनगुप्ताभिधः सूरि-श्चतुर्मासीमवास्थितः ॥ ४ ॥ तस्य शिष्यो गङ्गदेवा-चार्यस्तु सपरिच्छदः ॥ तस्थावुल्लुकतीराख्ये, पुरे प्राच्यतटस्थिते ॥५॥ स चान्येधुः शरत्काले, गुरुवन्दनहेतवे ॥ खेटस्थामपुरे गच्छन् , प्रविवेशोल्लुकानदीम् ॥६॥खल्वाटस्य तदा तस्य, शीर्ष सूय शुसङ्गमात् ॥ बभूव तापः पानीय-सङ्गाच्छैत्यं च पादयोः॥७॥ गङ्गदेवस्ततो दध्या-वेकत्र समये क्रिया ॥ एकैव वेद्यत इति, सूत्रोक्तिर्घटते कथम् ? ॥ ८॥ शीतमुष्णं च युगप-घदहं वेदयेऽधुना ॥ क्रियाद्वयोपयोगः स्या-तदैकसमयेऽपि हि ॥९॥ ध्यात्वेति खगुरून्नत्वा, सोऽवादीत्तं निजं मतम् ॥ ततस्ते प्रोचिरे मास्म-वादीरेतदयौक्तिकम् ॥ १० ॥ उपयोगयुगं वत्स !, युगपन्नोपपद्यते ॥ छायातपवदन्योन्यं, विरुद्धं तद्भवेद्यतः ॥ ११॥ यदा स्यात्प्राणिनां शीतो-पयोगव्यापृतं मनः ॥ तदा नोष्णोपयोगे त-वाप्रियेत विरोधतः ॥ १२ ॥ यौगपद्यामिमानस्तू-पयोगयुगलस्य यः॥ स तु मानससञ्चार-क्रमस्याऽनुपलक्षणात् ॥ १३ ॥ मनो हि मौलिपादादा-चुपयुक्तीभवन हि ॥ ज्ञायते सूक्ष्मतात्यन्ता-स्थिरताशीघ्रतादिभिः ॥ १४ ॥ "ततश्च" यथा पाथोरुहदल-शतस व्यतिभेदने ॥ प्रतीयमानमप्यस्ति, यौगपचं न वास्तवम् ॥ १५ ॥ तथोपयो गयुग्मस्य, योगपधं भवाशाम् ॥ प्रतीयमानमपि नो, वास्तवं किं बहूक्तिभिः ॥ १६ ॥ इति सूरिभिरुक्तः स, तदा तूष्णीकतां दधौ ॥ न वहासीद्वासनां तां, श्रपुच्छमिव वक्रताम् ॥ १७॥ असन्मतेन तेनान्यान् , स ब्युदना.