________________
उत्तराप्ययनसूत्रम्
॥८१॥ प्राग्वद्योगक्रिया सर्वां, कारयंस्तांश्च पाठयन् ॥ दिव्यानुभावात्सकलं, द्रुतमेव समापयत् ॥ ८॥ नियूंढयोगकार्यास्ता-नथेत्यूचे स निर्जरः ॥ देवभूयं गतोऽभूव-ममुकस्मिन् दिने ह्यहम् ॥ ९॥ खाङ्गे च प्राविशं भूयो, युष्मद्योगसमाप्तये ॥ अथ त्वहं गमिष्यामि, कृतकृत्यो निजास्पदम् ॥ १०॥ तदसंयतभावेऽपि, युष्माभिः संयतैर्मया ॥ कारितं यद्वन्दनादि, तत्क्षमध्वं क्षमाधनाः ! ॥ ११॥ क्षमयित्वेति तान् देवो, देहं हित्वाऽगमद्दिवम् ॥ तदङ्गं तेऽपि मुनयः, परिष्ठाप्येत्यचिन्तयन् ॥ १२ ॥ अज्ञानाद्वन्दितोऽस्माभि-रियत्कालमसंयतः ॥ तदन्योऽपि मुनिर्देवः, संयतो वेति वेत्ति कः ? ॥ १३ ॥ यथाऽहं नाऽपरं वेनि, तथा सोऽपि न मामिति ॥ एवं सुरी वा साध्वी वे-त्यार्यिकामपि वेत्ति कः?॥१४॥ ततः सकलमव्यक्तं, वक्तव्यं तत्त्ववेदिभिः ॥ यथा न स्यान्मृपावादो, न चासंयतवन्दनम् ॥ १५॥ ध्यायन्त इति ते जाताः, शङ्कामिथ्यात्वमाश्रिताः ॥ अव्यक्तभावस्वीकारा-नावन्दन्त परस्परम् ॥ १६ ॥ अव्यक्तभावं ते सर्वे-ऽन्येषामपि पुरस्तथा ॥ प्ररूपयन्तो व्यहरन् , सममेव यथारुचि ! ॥ १७ ॥ ज्ञात्वा विप्रतिपन्नांस्तान्, स्थविराः केचिदूचिरे ॥ अव्यक्तभावाङ्गीकारे, भावो हि भवतामयम् ॥ १८॥ निर्णतुं शक्यते किञ्चि-दपि ज्ञानेन नैव यत् ॥ अव्यक्ताः प्रतिपत्तव्या-स्तद्भावाः सकला अपि ! ॥ १९ ॥ न चेदं सङ्गतं युष्म-न्मतं युक्तिविरोधतः ॥ यद्वस्तुनिर्णयकर, ज्ञानमेवोपलभ्यते ! ॥ २०॥ चेद् ज्ञानस्याखिलस्यापि, न स्यान्निश्चयकारिता ॥ ज्ञानोपदर्शिता तर्हि, क्रियेयं क्रियते कथम् ? ॥ २१॥ किञ्च चेत्सर्वथा ज्ञानं, नैव निश्चयकारकम् ॥ तत्कथं प्रत्यहं भक्त-पानादेरपि निश्चयः ॥ २२॥ यतः-"इदं शुद्धमुताशुद्धं, निर्जीवमुत जीवयुक् ॥ इत्यादिकमपि ज्ञानं, विना निश्चीयते न हि ॥ २३ ॥" अथ चेद्बहुशो दृष्ट-संवादं व्यवहारतः ॥ उच्यते भक्तपानादे-आनं निर्णयकारकम् ॥ २४ ॥ व्यवहारादेव तर्हि, साध्वादेरपि वस्तुनः ॥ ज्ञानं निर्णयकारीति, कुतो न प्रतिपद्यते ? ॥ २५ ॥ छद्मस्थानां हि सर्वा स्या-त्प्रवृत्तिर्व्यवहारतः ॥ तदुच्छेदे तु तीर्थस्या-ऽप्युच्छेदो यत्प्रसज्यते ॥ २६ ॥ यदाहुः-"जइ जिणमयं पवजह, ता मा ववहार निच्छए मुअह ॥ ववहार नओच्छेए, तित्थुच्छेओ जओ वस्सं ॥ २७ ॥" व्यवहारं प्रपद्यध्वं, तद्यूयमपि साधवः ! ॥ इत्युक्ता अपि तैनँव, तत्यजुस्ते तमाग्रहम् ॥ २८ ॥ ततः कायोत्सर्गपूर्व, स्थविरेस्ते बहिष्कृताः ॥ पर्यटन्तोऽन्यदा जग्मुः, पुरं राजगृहाभिधम् ॥ २९॥ मौर्यवंश्यो नृपस्तत्र, बलभद्राभिधोऽभवत् ॥ आगतान् खपुरेऽश्रीपी- यक्तः सोऽव्यक्तनिह्नवान् ॥ ३० ॥ सुश्रावकः स राजा तान्, प्रतिबोधयितुं निजैः॥ भटैरानाययद्वद्धां-श्चैत्याद्गुणशिलाह्वयात् ॥ ३१ ॥ कटमर्दैन सर्वान-प्यमन्मर्दयतेति च ॥ सेवकानादिशद्भूमान् , दर्शयन् कृत्रिमा रुषम् ॥ ३२ ॥ कटमर्दे हि मर्यन्ते, कटाधःस्था जना द्विपैः ॥ इति द्विपान् कटांश्चैवा-निन्यिरे राजपूरुषाः ॥ ३३ ॥ तान्वीक्ष्य मुनयो भीता, इति भूपतिमूचिरे ॥ श्राद्धोऽपि त्वं कथं साधू-नस्मान् हंसि महीपते ! ॥ ३४ ॥ तस्करा हेरिका वेति, को वो वेत्तीति भूभुजा ॥ प्रोक्त ते प्रोचिरे राज-नूनं साधूनवेहि नः ॥३५॥ भूपोऽवादीद्वस्तु सर्व-मप्यव्यक्तं भवन्मते ॥ तन्नः साधूनवेहीति, युष्माभिः कथ्यते कथम् ? ॥३६॥ युष्मन्मते चाहमपि, श्राद्धोऽन्यो वाऽस्मि तत्कथम् ॥ यूयं मां श्रावकं ब्रूत, खयमव्यक्तवादिनः? ॥३७॥ अथ चेत्प्रतिपद्येत, व्यवहारनयस्तदा ॥ निम्रन्थश्रमणान् युष्मान् , श्रद्दधाम्यहमुत्तमान् ॥ ३८ ॥ ततस्ते लज्जिता बाढं, संबुद्धा भूभुजो गिरा ॥ श्रमणाः स्मो वयमिति, निश्शकं प्रतिपेदिरे ॥ ३९ ॥ ऊचुश्चैवं चिरभ्रान्ताः, साधु राजंस्त्वया वयम् ॥ सन्मार्ग प्रापिता मार्ग-दर्शिनेव विलोचनाः॥४०॥ ततोऽवादीन्नृपो युष्मान् , प्रतिबोधयितुं मया ॥ अयुक्तं विदधे यत्त-न्मर्षणीयं महर्षिभिः ॥ ४१ ॥ इत्युदीर्य बहुमानपूर्वकं, तेन भूपतिवरेण वन्दिताः ॥ साधवः पुनरवाप्तबोधयः, पूर्ववजगति ते विजहिरे ॥ ४२ ॥ इति तृतीयनिह्नवकथा ॥३॥ __ "खामिमोक्षाद्गते विंश-त्यधिकेऽब्दशतद्वये ॥ उत्पन्नस्याऽथ तुर्यस्य, निह्नवस्य कथां त्रुवे ॥१॥" "तथाहि" नगर्या मिथिलाख्यायां, चैत्ये लक्ष्मीगृहाभिधे ॥ समवासार्घराचार्याः, श्रीमहागिरिसंज्ञकाः ॥२॥ तेषां शिष्यस्य कोडिन्ना-ख्यस्य शिष्योऽभवत्सुधीः ॥ अश्वमित्राभिधः पूर्व-पठनोद्यतमानसः ॥ ३ ॥ पूर्व विद्यानुप्रवादा-भिधाने दशमेऽन्यदा ॥ तस्य नैपुणिकं वस्तु, पठतोऽर्थोऽयमागमत् ॥ ४ ॥ वर्तमानक्षणगता, जीवा नैरयिकादयः ॥ वैमानिकान्ताः सर्वेऽपि, व्युच्छेत्स्यन्ति क्षणान्तरे ॥५॥ इह विप्रतिपन्नः स. प्रत्यपद्यत सर्वथा ॥ जीवादीनां पदार्थानां. समुच्छेदं प्रतिक्षणम् ॥ ६ ॥ ऊचे च सर्वथा सर्वे, वस्तूत्पन्नमनुक्षणम् ॥ याति नाशं यथा शक-चापविद्युद्घनादयः ॥ ७॥ इत्यूचानं तमाचार्याः, स्माहुरेवं महाधियः ॥ सर्वथा वस्तुनो नाशं, मा खीकार्षीः प्रतिक्षणम् ॥ ८॥