________________
॥ ८० ॥
उत्तराध्ययनसूत्रम्
स्तवः ॥ ६ ॥ लोकाकाशप्रदेशौघ- तुल्याशेषप्रदेशवान् ॥ जीवः पुनर्जीव इति वक्तव्यो व्यक्त बुद्धिभिः ॥ ७ ॥ एनमर्थमधीयानो - धमकर्मोदयेन सः ॥ तदा विप्रतिपेदानः, स्थविरानित्यभाषत ॥ ८ ॥ एकेनापि प्रदेशेन, विहीनाः सकला अपि ॥ जीवप्रदेशा नो जीव-व्यपदेशं लभन्ति चेत् १ ॥ ९ ॥ तदा स एव वक्तव्यः, प्रदेशो जीवसंज्ञया ॥ तद्भाव एव जीवत्वं भवतीति विनिश्चयात् ॥ १० ॥ ततस्तं प्रोचुराचार्या, वत्साऽयुक्तं ब्रवीषि किम् ? ॥ नोकस्थ प्रदेशस्य, जीवत्वं युज्यते क्वचित् ॥ ११ ॥ अंशा निरंशा जीवस्य, प्रदेशा इत्युदीरिताः ॥ घटस्येवाणवस्ते च, तुल्याः सर्वे परस्परम् ॥ १२ ॥ तद्विशेषात्कुतस्तस्यै-कस्य जीवत्वमिष्यते ? || पूरणादिति चेत्तन्न, युक्तं युक्तिविरोधतः ॥ १३ ॥ यथायं पूरकस्तद्व-त्सन्ति सर्वेऽपि पूरकाः ॥ तेषामन्यतमेनापि, विना स्याज्जीवता न यत् ॥ १४ ॥ अथान्तिमत्वादिति चेत्, तदपि स्यान्न यौक्तिकम् ॥ अन्तिमत्वं यतस्तस्या -ऽऽपेक्षिकं न तु तात्विकम् ॥ १५ ॥ आपेचिकञ्च नैकत्र, नियतं स्यात्कदाचन || अपेक्षावशतस्तस्य सर्वत्रापि प्रवर्तनात् ॥ १६ ॥ तदेकेन विना तेन, जीवत्वं न यथाऽपरे । लभन्ते न तथा सोऽपि, तैर्विनाप्नोति जीवताम् ॥ १७ ॥ [" ततश्च"] अणावेकत्र नो कुम्भ-व्यपदेशो मषेद्यथा ॥ तथैकस्मिन्प्रदेशे स्या- निर्देशो नात्मनोपि हि ॥ १८ ॥ भवेत्प्रदेशादेकस्मात्पूर्णस्यार्थक्रियापि न । पटकार्य हि नो तन्तो- रेकस्मादुपलभ्यते ॥ १९ ॥ तत्कृत्स्नात्मप्रदेशेषु, जीवत्वमिति निश्चितम् ॥ श्रद्धेहि भगवद्वाक्यं विधेहि सफलं जनुः ॥ २० ॥ एवं प्रज्ञाप्यमानोऽपि, गुरुभिः करुणापरैः ॥ कदाग्रहगृहीतः स न तत्कुमतमत्यजत् ! ॥ २१ ॥ ततः कायोत्सर्गपूर्व, सूरीन्द्रैः स बहिष्कृतः । पर्याट पृथव्यां कुमतै-र्जनान् व्युद्धाहयन् घनान् ॥ २२ ॥ पुर्यामामलकल्पायां, सोऽन्यदा पर्यटन् ययौ । आम्रसालवने वास्था-त्स परिच्छदसंयुतः ॥ २३ ॥ तस्यां पुर्या च मित्रश्रीसंज्ञोऽभूत् श्रावकाग्रणीः ॥ जिनेन्द्रचरणाम्भोज - भजनैकमधुव्रतः ॥ २४ ॥ स तं सतत्रमायातं श्रुत्वाऽन्य श्रावकैः समम् ॥ तत्रोद्यानेऽगमत्तं च प्रणनाम यथोचितम् ॥ २५ ॥ तद्देशनां च शुश्राव निहवं तं विदन्नपि ॥ तद तिष्यगुप्तोऽपि, निजं प्राकाशयन्मतम् ॥ २६ ॥ समये बोधयिष्यामि, दृष्टान्तेनेति चिन्तयन् ॥ मित्रश्रीर्न समं तेन, विवादं विदधे तदा ॥ २७ ॥ किन्तु स प्रत्यहं तत्र, तं नन्तुं पायया ययौ ॥ समयज्ञा हि कुर्वन्ति, शुभोदर्काय तामपि ॥ २८ ॥ अथ जेमनवाराऽभू-गरिष्ठा तद्गृहेऽन्यदा । तदोद्याने तमाह्वातुं, मित्र श्री श्रावको ययौ ॥ २९ ॥ अद्य यूयं खपादाभ्यां पावित्रयत मद्गृहम् । इत्युक्त्वा सपरीवारं, स्वसौधे च निनाय तम् ॥ ३० ॥ सोऽथ हचैः खण्डखाद्यैर्मोदकाद्यैश्च भूरिभिः ॥ भृतानि बहु पात्राणि, ढौकयामास तत्पुरः ॥ ३१ ॥ खाद्यस्यैकस्यैकमंश, तिलमात्रं च तस्य सः ॥ ददावेवं मोदकादे - रपि सर्वस्य वस्तुनः ॥ ३२ ॥ इत्थं कूरस्य सूपस्या- येकैकं सिक्थमार्पयत् ।। घृतस्य बिन्दु शाकस्याप्यंशं तन्तुं पटस्य च ॥ ३३ ॥ स तु शिष्ययुतो दध्यौ, नूनं केनापि हेतुना ॥ पूर्वमेवं ददात्येष पश्चात्पूर्ण प्रदास्यति ॥ ३४ ॥ मित्रश्रीस्तु तदा प्रोचे, बन्धूनेवं स्वयं नमन् ॥ द्रुतं नमत भो ! यूर्य, निर्ग्रन्थान् प्रतिलम्भितान् ! ॥ ३५ ॥ ततः सशिष्यः सोऽवादी- त्किं वयं धर्षिता इति १ ॥ मित्रश्रीरत्रवीद्यूयं मयका धर्षिताः कथम् १ ॥ ३६ ॥ अन्त्या सवयवा देय - वस्तूनामर्पिता मया ॥ अन्त्यावयवमात्रश्च मते वोऽवयवी भवेत् ! ॥ ३७ ॥ तच्चेत्सत्यं तदा का हि, घर्षणा विहिता मया १ ॥ एभिरेव हि पूर्णानां, कार्य भावि भवन्मते ! ॥ ३८ ॥ अथ चेदईतां वाणी, सूनृताभ्युपगम्यते ॥ तदा तेषां मतेनाहं भवन्तं प्रतिलम्भये ॥ ३९ ॥ तया गिरा तिष्यगुप्तः, संवृद्धः सपरिच्छदः ॥ इत्यभ्यधान्महा श्राद्ध !, सत्येयं प्रेरणा कृता ! ॥ ४० ॥ अथ वीर विभोर्वाक्यं प्रमाणं मम सर्वदा ॥ तदुत्थापनसतं, मिध्यादुष्कृतमस्तु मे ॥ ४१ ॥ ततः प्रमुदितखान्तो, मित्रश्रीर्भक्तिपूर्वकम् ॥ वलाहारादिभिः सम्यक्र, प्रतिलम्भयति स्म तम् ॥ ४२ ॥ आलोच्य तत्पापमवाप तिष्य- गुप्तोऽपि शुद्धिं परिवारयुक्तः ॥ गतोऽपि बोधिर्यदनेन लब्ध- स्तदस्य भाग्यं विषयो न वाचाम् ॥ ४३ ॥ इति द्वितीयनिह्नवकथा ॥ २ ॥
“चतुर्दशोत्तरे वीर-मोक्षाद्वर्षशतद्वये ॥ जातस्याऽथ तृतीयस्य, निहवस्योच्यते कथा ॥१॥” "तद्यथा " - पुर्या श्वेतम्बिकानानयां, वने पोलाशसंज्ञके ॥ सगच्छाः समवासार्षु - रार्याषाढाख्यसूरयः ॥ २ ॥ आगाढयोगवहनं, प्रतिपन्नाः क्रियारताः ॥ बभूवुर्ब्रहवः शिष्या -स्तेषामागमपाठिनः ॥ ३ ॥ अन्यदा निशि सूरीणां तेषामासीद्विसूचिका ॥ न त्वजागरयन् कञ्चि-द्विनेयं ते महाधियः ! ॥ ४ ॥ तया रुजा विपन्नाश्च, कल्पे सौधर्मसंज्ञके ॥ विमाने नलिनीगुल्मे, सुध्यानाद्देवतां ययुः ॥ ५ ॥ सोऽथ देवोवधिज्ञानोपयोगात्तं निजं वपुः ॥ ददर्शागाढयोगान्तः - प्रविष्टांस्तांश्च संयतान् ॥ ६ ॥ ततस्तत्कृपया खाने, प्रविश्य स खुरो मुनीन् ॥ वैरात्रिकस्य वेलाऽभूदित्युदित्वोदतिष्ठपत् ॥ ७ ॥