________________
उत्तराप्पयनसूत्रम्
-
सोत्थापने जनः ॥ मिथ्यात्वं लभते तस्मा-दिदमालोचय दुतम् ॥ ३८ ॥ तैरित्युक्तोऽपि नात्याक्षी-जमालिः साप्रहं यदा ॥ तदा विहाय त केचि-न्मुनयो जिनमाश्रयन् ॥ ३९॥ केचित्तु श्राधानास्त-न्मतं तस्थस्तदन्तिके॥ बयाययौ पुरीमध्या-तं नन्तुं प्रियदर्शना ॥४०॥ तदग्रेऽपि जमालिस्त-मतं प्राग्वन्यरूपयत् ॥ पूर्वस्नेहात्साऽपि सर्वे, प्रत्यपद्यत तत्तथा ॥४१॥ गत्वा चोपाश्रये टण्क-कुम्भकारस्य वेश्मनि ॥ प्राकाशयत्पुरः सर्व-साध्वीनां सपतेर्मतम् ॥ ४२ ॥ शय्यातरस्य टण्कस्या-ऽप्यग्रे सा तदवोचत ॥ स तु श्राद्धस्तदाकर्ण्य, दघ्यावेवं विशुद्धधीः॥४॥ उत्यापयत्यसो जैनं, वचस्तथ्यं तदाग्रहात् ॥ तदिमां बोधयिष्यामि, समये कापि युक्तिभिः ॥४४॥ ध्यात्वेति सोजवीदार्ये !, विशेषमहमीदृशम् ॥ सम्यग्जानामि नो किन्तु, यूयं जानीय तद्विदः ॥ ४५ ॥ कुलालः सोऽन्यदा पक-भाण्डान्यवर्तयन्खयम ॥ स्वाध्यायकरणकान-श्रीवीरहितः पटे ॥४६॥ चिक्षेप ज्वलदकार धीमान्केनाप्यलक्षितम् ॥ ततः पटं दयमानं, वीक्ष्य सा प्रतिनी जगौ ॥ ४७ ॥ [युग्मम् ] संघाटी मम दग्धेयं, मो टक। स्वत्प्रमादतः ॥ टएकोऽवादीहसमाना, दग्धेति प्रोच्यते कथम् १ ॥ ४८ ॥ भवन्मते हि सम्पूर्ण-संघाटीदहने खलु ॥ दग्धा संघाटीति वक्तुं, युक्तं न पुनरन्यथा ! ॥ ४९ ॥ अथ चेद्भगवद्वाक्यं, खीक्रियेत तदा पदः ॥ वक्तुं युज्येत तद्विश्व-मान्यं तत्प्रतिपद्यताम् ॥ ५० ॥ तन्निशम्य गलन्मिथ्या-दर्शना प्रियदर्शना ॥ इत्यवादीदहो आर्य !, साध्य बोधिता त्वया ! ॥५१॥ अतः परं जैनवचः, प्रमाणं मे जगद्धितम् ॥ यत्तु तषितं तस्स, मिथ्यादुष्कृतमा मे! ॥ ५२ ॥ इत्युक्त्वा सा ययौ पार्थे, जमालेः सपरिच्छदा ॥ तस्याग्रे चावदन्नैका, युक्तीर्जिनमतानुगाः ॥५३॥ तसा वचोभिरपि स, नामुचत्तं कदाग्रहम् ॥ रसोन इव दुर्गन्धं, सुगन्धिद्रव्यवासनैः ॥ ५४॥ ततः सा सपरीबारा, गतशेषाश्च साधवः ॥ हित्वा दुर्मतममं तं, श्रीमहावीरमाश्रयत् ॥५५॥ तदा च भगवांश्चम्पानगरी पावयन्नभूत् ॥ जमालिरपि नीरोग-श्चम्पायामगमत्ततः ॥ ५६ ॥ तत्र चैत्ये पूर्णभद्रा-ऽभिधाने तस्थुषोऽहंतः ॥ पार्थे गत्वा नातिदूरे, स्थित्वा चैवमुवाच सः॥ ५७॥ भगवन् ! भवतः शिष्या-च्छमस्था बहवो यथा ॥ परलोकं गता नाहं, विज्ञेयः किल तादृशः ! ॥ ५८ ॥ यतोऽहमस्मि सम्प्राप्त-केवलज्ञानदर्शनः ॥ जिनोऽहंश्चेति तेनोक्ते, गौतमस्तमदोऽवदत् ॥ ५९॥ जमाले ! केवली जात-स्त्वं चेदेतत्तदा यद ॥ लोको जीवश्च किमसौ, शाश्वतोऽशाश्वतोऽथवा ? ॥ ६०॥ सोऽथ तस्योत्तरं दातु-मशक्तो मौनमाश्रयत् ॥ ततो जगाद भगवान् , जमाले ! शृणु मचः॥६१॥ प्रभस्यास्योत्तरे मह-छक्ताः शिष्याः सहस्रशः ॥ छमस्थाः सन्ति मे किन्तु, त्वद्वन्नैवं वदन्ति ते ॥६२ ॥ अत्र प्रत्युत्तर चेदं, जानीहि त्वं यथातथम् ॥ लोकजीवौ हि विद्यते, शाश्वताशाश्वतौ सदा ॥ ६३॥ तथा हि द्रव्यरूपेण, लोकः शाचत उच्यते ॥ अशाश्वतस्तु पोय-परावृत्तः प्रतिक्षणम् ॥ ६४ ॥ द्रव्यरूपेण जीवोऽपि, कथ्यते किल शाश्वतः॥ नृदेवत्वादिपर्याय-परावृत्तेस्त्वऽशाश्वतः ॥६५॥ इति स्वामिवचो नैव, श्रद्दधौ स कदाग्रहात् ॥ प्रभुपार्थाव निर्गत्य, खैरं पर्याट भूतले ॥ ६६ ॥ निह्नवत्वाच संघेना-ऽखिलेनापि बहिष्कृतः ॥ स ब्युदग्राहयलोकान् , बहुभिः कुमतोक्तिमिः ॥ ६७ ॥ एवं जमालिः श्रामण्यं, प्रपाल्य बहुवत्सरान् ॥ प्रान्ते संलेखनामर्ध-मासिकी प्रविधाय च ॥ ६८ ॥ तत्पातकमनालोच्य, मृतः षष्ठे सुरालये॥ त्रयोदश समुद्रायुः, सुरः किल्विषिकोऽभवत् ॥ ६९॥[युग्मम्] विपनं तं समाकर्ण्य, प्रमुं पप्रच्छ गौतमः ॥ जमालिरत्युप्रतपाः, कां गतिं गतवानिति ? ॥ ७० ॥ जिनो जगी षष्ठकल्पे, सोऽभूत्किविषिकः सुरः॥ गणी स्माह कुतो घोर-तपसोऽप्यस्य सा.गतिः ॥७१॥जिन गुरू-पाध्यायादेविरोधतः ॥ जमालिस्तां गतिं लेभे, कृतभरितपा अपि ! ॥ ७२ ॥ ततध्युत्वा क स खामिन् । यास्थतीति पुनर्जिनम् १ ॥ पप्रच्छ गौतमखामी, ततोऽवादीददो विभुः ॥ ७३ ।। तिर्यनुनाकिषु भवान् कतिचिअमित्वा, सिद्धिं गमिष्यति चिरेण ततश्श्युतोऽसौ ॥ प्राप्याऽपि बोधमिति केचन हारयन्ति, तद्देवरजमिव दुर्लभ एव बोधिः ॥७४ ॥ इति प्रथमनिहवकया ॥१॥
“अथ वीरविभोर्ज्ञानात् , षोडशाग्या बभूवुषः ॥ निहवस्स द्वितीयस, वृत्तान्तं वच्मि तद्यथा ॥१॥" पुरा पुरे राजरहे, चैत्ये गुणशिलामिधे ॥ वसुसंज्ञा महाप्रज्ञाः, सूरयः समवासरन् ॥२॥ तेषामशेषपूर्वाब्धि-पारगाणां मनखिनाम् ॥ शिष्योऽभूत्तिष्यगुप्ताख्यः, पूर्वाध्ययनतत्परः ॥ ३॥ पूर्वमात्मप्रवादाख्यं, सप्तमं पठतोऽन्यदा ॥ जीवनदेशविषय- स्तस्सार्थोऽयमुपागमत् ॥ ४ ॥ एकः प्रदेशो जीवस, न जीव इति कथ्यते ॥ एवं द्वित्रिचतुष्पाच-संख्यातासंख्यका अपि ॥ ५॥ यावत्प्रदेशेनाऽप्यूनो, जीवो जीवो न भण्यते ॥ ऊने वस्तुनि यत्पूर्ण-व्यपदेशो न वा.