________________
॥ ७८ ॥
उचराप्पयनसूत्रम् जीवप्रदेशास्ते तिष्यगुप्तादुद्भूताः २ । अव्यक्ताः संयतादिज्ञाने सन्देहवादिन आषाढाचार्याजाताः ३।सामुन्छेदा उत्पादानन्तरमेव वस्तुसमुच्छेदवादिनोऽश्वमित्राजाताः ४॥ १॥ द्विक्रिया एकत्र समये क्रियाद्वयानुभववादिनो गंगाचार्याजाताः ५ । त्रैराशिकानां जीवाजीवनोजीवरूपराशित्रयवादिनां 'छलुअत्ति' वैशेषिकाभिमतपट्पदार्थनिरूपकस्वादुलूकगोत्रत्वाच्च पडुलूको रोहगुप्तस्तस्मादुत्पत्तिः ६ । स्थविराश्च गोष्ठामाहिलाः, स्पृष्टं कञ्चकवत् , अबद्धश्चाऽसंबद्धं, न तु क्षीरनीरवदन्योन्यानुगतमात्मप्रदेशैः समं कर्मेतिशेषः, प्ररूपयन्ति, अनेन च गोष्ठामाहिलादेवावद्धिकानामुत्पत्तिरिति सूचितमिति गाथाद्वयाक्षरार्थः ॥२॥ भावार्थस्त्वनयोः सम्प्रदायादवसेयः, स चायं-"श्रीवीरज्ञानतो वर्ष-श्चतुर्दशभिरुत्थितं ॥ तेष्वादिनिह्नवस्यादौ, वृत्तान्तं वच्मि तद्यथा ॥ १ ॥"
पुरे क्षत्रियकुण्डाख्ये, श्रीमद्वीरजिनखसुः ॥ सुदर्शनायास्तनयो, जमालिः क्षत्रियोऽभवत् ॥ २॥ जगप्रयमनोहारिदर्शना प्रियदर्शना ॥ श्रीवीरखामिदुहिता, प्रिया तस्याऽभवत् प्रिया ॥३॥ अन्येचुस्तत्र भगवान् , श्रीवीरः समवासरत् ॥ जमालिर्जायया साकं, सार्वे नन्तुमगात्तदा ॥४॥स्वामिदेशनया जात-संवेगः संयमोत्सुकः॥ गृहं गत्वाग्रहीत्पित्रो-रनुज्ञां सकथञ्चन ॥५॥ महोत्सवैस्ततो विश्व-श्लाघ्यैर्गत्वाऽर्हतोऽन्तिके ॥ जमालिः प्राब्रजत्पञ्च-शतक्षत्रियसंयुतः ॥६॥ तदा च खामिनः पुत्री, तत्प्रिया प्रियदर्शना ।। प्राबाजीत्खामिनोऽभ्यर्णे, स्त्रीसहस्रेण संयुता ॥ ७॥ जमालिश्रमणः सोऽथ, विहरन् खामिना समम् ॥ पपाठैकादशाङ्गानि, तपस्तेपे च दुस्तपम् ॥ ८॥ ततः साध्वीसहस्रं त- साधुपञ्चशतीं च ताम् ॥ प्रभुस्तस्मै ददौ शिष्य-तयामुख्यं विधाय तम् ॥९॥ सोऽन्यदा खामिनं नत्वा, पप्रच्छेति कृताञ्जलिः ॥ सतत्रोऽहं विभोऽन्यत्र, विहरामि त्वदाज्ञया ॥ १० ॥ लाभाभावात्प्रभुस्तस्मै, न ददौ किञ्चिदुत्तरम् ॥ अनिपिद्धं हनुमत-मिति मेने तदा स तु ॥ ११ ॥ निरगाच प्रभोः पार्था-द्विहर्तुं सपरिच्छदः ॥ क्रमाच पुर्या श्रावस्त्यां, विहरन्नन्यदाऽगमत् ॥ १२ ॥ तत्रोद्याने कोष्टुकाख्ये, तस्थुषस्तस्य कर्हिचित् ॥ अन्तप्रान्ताशनैर्दाघ-ज्वरः प्रादुरभून्महान् ॥ १३ ॥ उपविष्टतया स्थातु-मक्षमः स ततो यतीन् ॥ इत्यूचे संस्तारको मे, क्रियतां क्रियतां द्रुतम् ! ॥१४॥ ततः संस्तारकं कर्तु, प्रवृतान् व्रतिनो निजान् ॥ संस्तारकः कृतो नो वे-त्यपृच्छत्स मुहुर्मुहुः ॥१५॥ संस्तारकः कृतो नास्ति, किन्त्वद्यापि विधीयते ॥ तैरित्युक्ते परिभ्रष्ट-सम्यक्त्वः स व्यचिन्तयत् ॥ १६ ॥'क्रियमाणं कृतमिति', जिनोक्तं सूनृतं कथम् ? ॥ संस्तारको यत्संस्तीर्य-माणोऽप्येष न संस्तृतः ! ॥ १७ ॥ तदध्यक्षविरुद्धत्वा-तन्न सङ्गतिमङ्गति ॥ विमृश्येत्यखिलान्साधू-नाहूयैवमभाषत ॥ १८ ॥ 'क्रियमाणैः कृतमिति', श्रीमहावीरभापितम् ॥ मिथ्या. ध्यक्षविरुद्धत्वा-च्छैत्यं हुतभुजो यथा! ॥ १९॥ न चाध्यक्षविरुद्धत्वं, तस्यासिद्धं भवेत्कचित ॥ संस्तारको । स्तीर्य-माणोऽप्येष न संस्तृतः ॥ २०॥ निष्पद्यते क्षणव्यूहै-यत्कार्यमपरापरैः ॥ तत्कथं कृतमित्याद्य-समयेऽपि निगद्यते ॥ २१॥ प्रारम्भेऽपि कृतं चेत्स्या-तदाऽन्यत्र क्षणबजे ॥ कृतस्यैव विधानेना-ऽनवस्था स्यादनाहता! २२ ॥ सत्यप्येवं मन्यते चे-क्रियमाणं कृतं तदा ॥ घटादेरुपलम् भोऽस्तु, प्रारम्भक्षण एव हि ॥ २३ ॥ 'कृतमेव कृतं' तस्मा-चौक्तिकं भो महर्षयः! ॥ तदमुं भामकं पक्षं, कक्षीकुरुत सूनृतम् ! ॥ २४ ॥ न च वाच्यं स सर्वज्ञः, कथं मिथ्यावदेदिति ? ॥ ययात्सोऽपि तजातु, महान्तोऽपि स्खलन्ति हि ॥ २५ ॥ एवं विप्रवदन्तं तं, जमालिं मार्गविच्युतम् ॥ स्थविराः प्रोचुरार्य ! त्वं, विरुद्धं किं वदस्यदः १ ॥ २६ ॥ रागद्वेषविनिर्मुक्ता, न भाषन्ते मृषा जिनाः ॥ वचनेऽपि च नो तेषां, दोषलेशोऽपि सम्भवेत् ॥ २७ ॥ [तथाहि-]आद्यक्षणे चेत्कार्यस्यो- त्पत्तिर्न स्यात्तदा कथम् ॥ क्षणान्तरे तदुत्पत्तिः, स्यात्क्षणत्वाविशेषतः १ ॥ २८ ॥ उक्तश्च-"आद्यतन्तुप्रवेशे च, नोतं किञ्चिघदा पटे ॥ अन्त्यतन्तुप्रवेशेऽपि, नोतं स्यान्न पटोदयः ॥ २९॥" न चाऽध्यक्षविरोधोऽपि, सम्भवेदिह कर्हिचित् ॥ संस्तीर्यते यद्वस्त्रादि, तद्धि संस्तृतमेव यत् ॥ ३० ॥ यावत् प्राक् संस्तृतं तावत्, पुनः संस्तीर्यते न यत् ॥ ततः कृतस्याऽकरणा-नाऽनवस्थापि विद्यते ॥ ३१ ॥ यच्चारम्भक्षणे कुम्भो-पलम्भोऽस्त्विति भापितम् ॥ तदप्यसद्यदन्यस्या-रम्भेऽन्यद् दृश्यतां कथम् ? ॥ ३२ ॥ तदा हि शिवकादीना-मेवावान्तरकर्मणाम् ॥ वर्त्तते क्रियमाणत्वं, ते च दृश्यन्त एव हि ॥ ३३ ॥ कुम्भः पुनरनारब्ध-स्तदानीं दृश्यते कथम् ? ॥ घटं करोतीत्युक्तिस्तु, प्रारम्भे स्थूलपद्धितः ॥ ३४ ॥ क्रियमाणं कृतमिति, सर्वज्ञस्य वचस्ततः ॥ प्रमाणमेव न पुन-श्छद्मस्थानां भवादृशाम् ! ॥ ३५ ॥ मर्वजोऽप्यनतं ब्रया-दिति त्वद्वचनं पुनः॥ सतां न श्रोतुमप्यह, म मत्तोन्मत्तप्रलापवत् ! ॥३६॥ तज्जैनेन्द्रं वचसध्यं, मा दूषय महामते ! ॥ दुष्कर्मणाऽमुना मास्म-भ्राम्यस्संसारसागरे ! ॥ ३७ ॥ एकस्यापि जिनोक्तस्य, पद