________________
उत्तराध्ययनसूत्रम्
॥ ७७ ॥
मातङ्गः, यहा शूद्रेण त्राह्मण्या जातश्चण्डालः, बोकसो वर्णान्तरसङ्करजन्मा, तथाहि ब्राह्मणेन शूयां जातो निषादः, ब्राह्मणेनैव वैश्यत्रियां जातश्चांबष्ठ इत्युच्यते । तत्र निपादेनाम्बष्ठ्यां जातस्तु बोकसो भण्यत इति वृद्धवादः । इह च क्षत्रियचाण्डालबोकसग्रहणाद्यथाक्रमं सर्वा उच्चनीचसङ्कीर्णजातय उपलक्षिताः । ततः कीटः प्रसिद्धः, पतङ्गः शलभः, चः समुच्चये, कुंथुः, पिपीलिका च, भवतीति योज्यं, अशेषतिर्यग्भेदोपलक्षणञ्चेदमिति सूत्रार्थः ॥ ४ ॥ इत्थं सर्वत्र पर्यटन्तोऽपि गुरुकर्मत्वेन ते न निर्विद्यन्ते इत्याह
मूलम् — एवमात्र जोणीसु, पाणिणो कम्मकिव्विसा ॥ न निविज्जंति संसारे, सबट्ठेसु व खत्तिआ ॥ ५ ॥ व्याख्या - एवमनेन न्यायेन आवर्तः पुनः पुनर्भ्रमणरूपः परिवर्त्तस्तत्प्रधाना योनयश्चतुरशीतिलक्षप्रमाणानि जीवोत्पत्तिस्थानानि आवर्तयोनयस्तासु, प्राणिनो जीवाः, कर्मणा क्लिष्टेन किल्विषा अधमाः कर्मकिल्विषाः, न निर्विद्यन्ते, कदैतस्मात्पर्यटनान्मोक्षो भावीति नोद्विजन्ते, संसारे भवे, केष्विव के ? सर्वे च ते अर्थाश्च धनकनकादयः सर्वार्थाः विष क्षत्रिया राजानः, अयं भावः - यथा मनोज्ञान् शब्दादीन् मुआनानां तेषां तृष्णा वर्धते एवं तासु तासु योनिषु पुनः पुनरुत्पत्तिमनुभवतामपि संसारिणां, कथमन्यथा ते तत्प्रतिघातार्थ नोद्यमं कुर्युः १ इति सूत्रार्थः ॥५॥ ततममूलम् — कम्म संगेहिं संमूढा, दुक्लिआ बहुवेअणा ॥ अमाणुसासु जोणीसु, विणिहम्मंति पाणिणो ॥ ६ ॥
व्याख्या – कर्मसंगैर्ज्ञानावरणीयादिकर्मसम्बन्धैः संमूढाः अत्यर्थ मूढाः दुःखिता असातयुक्ताः, कदाचित्तन्मानसमेवैकं स्यादित्याह – बहुवेदना भूरिशारीरपीडाः, अमानुषीषु नरकतिर्यगाभियोग्यादिदेवदुर्गतिसम्बन्धिनीषु योनिषु विनिहन्यन्ते, विशेषेण निपात्यन्ते, अर्थात्कर्मभिः न तु ताभ्य उत्तारं लभन्ते प्राणिनो जीवास्ततो दुर्लभमेव मानवत्वमिति सूत्रार्थः ॥ ६ ॥ कथं तर्हि तदवाप्तिरित्याहमूलम् - कम्माणं तु पहाणाए, आणुपुवी कयाइ उ ॥ जीवा सोहिमणुप्पत्ता, आययंति मणुस्सयं ॥ ७॥
व्याख्या - कर्मणां तु पुनर्नरकगतिप्रतिबन्धकानामनन्तानुबन्ध्यादीनां 'पहाणापत्ति' प्रहाण्या अपगमेन, कथं प्रहाणिरित्याह-आनुपूर्व्या क्रमेण, न तु झगित्येव, अत एवाह - 'कयाइउत्ति' 'तु' शब्द एवकारार्थे, ततः कदाचिदेव न सर्वदा जीवाः प्राणिनः शुद्धिं क्लिष्टकर्मापगमात्मिकां, अनुप्राप्ताः सम्प्राप्ताः आददते स्वीकुर्वन्ति मनुष्यतां मनुजजन्म, विशिष्टशुद्धिनिबन्धनैस्तनुकषायत्वादिभिरेव तदायुर्वन्धादिति सूत्रार्थः ॥ ७ ॥ एवं कथञ्चिन्मानुष्ये प्राप्तेऽपि श्रुतिदुर्लभेत्याह
S
मूलम् — माणुस्सं विग्गहं लद्धुं, सुइ धम्मस्स दुल्लहा ॥ जं सुच्चा पडिवज्जंति, तवं खंतिमहिंसयं ॥ ८ ॥
व्याख्या– 'माणुस्संति' सूत्रत्वान्मानुष्यकं मनुष्यभवसम्बन्धिनं विग्रहं देहं, 'लढुंति' लब्ध्वाऽपि, अपेर्गम्यत्वात्, श्रुतिः श्रवणं, धर्मस्य दुर्लभा दुष्प्रापा पूर्वोक्तालस्यादिहेतुभिः, स च धर्मः “मृद्धी शय्या प्रातरुत्थाय पेवा, मध्ये भक्तं पानकं चापराहे ॥ द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ॥ १ ॥" इत्यादिवदादिकल्पितोऽपि स्यादतस्तदपोहार्थमाह-यं धर्म श्रुत्वा प्रतिपद्यन्ते भव्या इति शेषः, तपोऽनशनादि द्वादशविधं, शान्ति क्रोधजयलक्षणां, मानादिजयोपलक्षणञ्चैषा, अहिंस्रतां हिंसनशीलत्वाभावं, अनेन प्रथमत्रतमुक्तं, शेषव्रतोपलक्षणचैतत् एतदृत्तितुल्यानि हि शेषव्रतानि, एवञ्च तपसः क्षान्तिप्रभृतिचतुष्टयस्य महाव्रतपञ्चकस्य चाभिधानाद्दशविधोऽपि धर्मोऽभ्यधायीति सूत्रार्थः ॥ ८ ॥ श्रुतिप्राप्तावपि श्रद्धा दुर्लभेत्याह
मूलम् - आहच्च सवणं लधुं, सद्धा परमदुलहा ॥ सोच्चा नेआउअं मग्गं, बहवे परिभस्सई ॥ २ ॥ व्याख्या–‘आहच्च’ कदाचित् श्रवणं प्रक्रमाद्धर्मस्याकर्णनं, उपलक्षणत्वान्मानुष्यं च, 'लङ्खुति' अपिशब्दस्य गम्यमानत्वात् लब्ध्वाप्यवाप्यापि श्रद्धा धर्मरुचिरूपा परमदुर्लभातीवदुरापा, कुतः पुनः परमदुर्लभत्वमस्या इत्याह- श्रुत्वाकर्ण्य नैयायिकं न्यायोपपन्नं मार्गे सम्यग्दर्शनादिरूपं मुक्तिपथं बहवोऽनेके 'परिभस्सइत्ति' परिभ्रश्यन्ति च्यवन्ते, प्रक्रमान्नैयायिकमार्गादेव । यथा जमालिप्रभृतयः, यच्च प्राप्तमप्यपैति तचिन्तामणिवत्परमदुर्लभमेवेतिभावः । अथ के ते जमालप्रभृतय इति तद्वक्तव्यता लिख्यते, तद्यथा - " बहुरय जमालि पभवा १, जीवपएसा य तीस गुत्ताओ २ ॥ जयतासाढाओ ३, सामुच्छेआसमित्ताओ ४ ॥ १ ॥ गंगाओ दो किरिआ ५, छलुआ तेरासिआण उप्पत्ती ६ ॥ थेराब गोडुमाहिल - पुटुमबद्धं परुवंति ७ ॥ २ ॥” अनयोरर्थः - बहुभिः समयैर्वस्तु निष्पद्यते न त्वेकसमयेनेतिमन्वाना बहुरता जमालिप्रभवा जमालेरुत्पन्नाः २ । प्रदेशो ऽन्त्यप्रदेशः, स एव जीवो येषां ते प्रदेशजीवाः, प्राकृतत्वाच्च व्यत्ववे