________________
॥ ७६ ॥
उत्तराध्ययनसूत्रम्
शेवाल - जालैरन्योन्यसङ्गतैः ॥ सर्वत्राच्छादनं चर्म - समानं समभूत्सदा ॥ २ ॥ तत्र चैकोऽवसत्कूर्मः, पुत्रपौत्रादिसंयुतः ॥ ग्रीवां प्रसारयामास स चाब्दानां शते शते ॥ ३ ॥ अन्यदा तस्य सान्द्रस्य, मध्ये शेवालचर्मणः ॥ छिद्रं बभूष प्रबल - समीरणसमीरणात् ॥ ४ ॥ दैवयोगात्स कूर्मोऽपि, ग्रीवां प्रासारयत्तदा । रन्ध्रेण तेन ग्रीवाऽपि, निग्गाञ्चर्मणो वहिः ॥ ५ ॥ ततः स पूर्णिमाचन्द्र - तारामण्डलमण्डितम् | अदृष्टपूर्वमाकाशं वीक्ष्यात्यन्तं विसिष्मिये ॥ ६ ॥ महाश्चर्यमिदं स्वीय-बन्धूनां दर्शयाम्यहम् ॥ ध्यात्वेत्याह्नातुमात्मीया- न्मध्ये हृदमगाच सः ॥ ७ ॥ तानाहूय समेतस्तु, न लेभे पर्यटन्नपि ॥ तच्छिद्रं पवनोद्भूतैः, शेषालैः स्थगितं क्षणात् ! ॥ ८ ॥ कूर्मः पुनस्तत्र लभेत रन्धं, पश्येच पूर्ण शशिनं कदाचित् ॥ परिच्युतो मर्त्यभवान्नरत्वं लभेत जन्तुर्न तु धर्महीनः ! ॥ ९ ॥ इति चर्मष्टान्तोऽष्टमः ॥ ८ ॥ अथ युगदृष्टान्तः तथा हि
अस्ति स्वयम्भुरमण - वारिधिर्वलयाकृतिः ॥ सहस्रयोजनोद्वेधो ऽसंख्ययोजनविस्तृतः ॥ १ ॥ विहाय वलयं सर्वाकारैर्जलचरैर्भृते ॥ सर्वेषामपि वार्द्धांना-मन्तिमे तत्र नीरधौ ॥ २ ॥ देवः कोऽपि दिशि प्राच्यां, लीलया निक्षिपेद्युगम् ॥ युगस्य तस्य ककुभि, पश्चिमायां च कीलिकाम् ॥ ३ ॥ [ युग्मम् ] तस्मिन्नपारेऽकूपारे, भ्राम्यन्ती समिलाऽथ सा ॥ खयमेव युगच्छिद्रे, प्रविशेत्किं कदाचन १ ॥ ४ ॥ प्रचण्डवातोत्थितवीचिनुन्ना, दैवात्स्वयं साऽपि युगस् रम् ॥ कुर्यात्प्रवेशं न तु पुण्यहीनः पुमान्पुनर्विन्दति मर्त्यभावम् ! ॥ ५ ॥ इति युगदृष्टान्तो नवसः ॥ ९ ॥ जय परमाणुदृष्टान्तस्तथा हि
स्तम्भमेकं महामानं, माणिक्यमयमुत्तमम् ॥ खसामर्थ्यपरीक्षार्थ, गीर्वाणः कोप्यचूर्णयत् ॥ १ ॥ तच्च चूर्णमतिलक्ष्णं निर्माय परमाणुवत् ॥ नलिकान्तर्निचिक्षेप, क्षेपीयः स सुधाशनः ॥ २ ॥ आरुह्य मेरुचूलायां, सोऽथ फूत्कुतमारुतैः ॥ द्रुतमुलालयामास, तच्चूर्ण परितोऽखिलम् ॥ ३ ॥ तेन देवेन विक्षिप्ता - स्ततस्ते परमाणवः ॥ प्रचण्डपवनोद्धृता, अभजन्त दिशोदिशम् ॥ ४ ॥ अथ विश्वश्रये कोऽपि, शक्तिमान विद्यते न सः ॥ यस्तं स्तम्भं पुनः कुर्या - तैरेव परमाणुभिः ॥ ५ ॥ स्तम्भो यथाऽसौ परमाणुभिस्तैः केनापि निष्पादयितुं न शक्यः । प्रमादिना प्राणभृता तथैव, भूयोऽपि लभ्येत न मानवत्वम् ॥ ६ ॥ इति ॥ यद्वा काऽपि सभा भूरि-स्तम्भा दग्धा कृशानुना ॥ तैरेव पुद्गलैर्न स्या - तथा नृत्वेऽपि भावना ॥ ७ ॥ इति वा परमाणुदृष्टान्तो दशमः ॥ १० ॥ इत्थं जिनेन्द्रगदितानि मनुष्यजन्म-दौर्लभ्यसूचनचणानि निदर्शनानि ॥ आकर्ण्य भो भविजनाः ! भगवत्प्रणीते, धर्मे महोदबकरे कुरुत प्रयत्नम् ॥ ६२६ इति दश दृष्टान्ताः सम्पूर्णाः । तत्र यथा मानुषत्वं दुर्लभं तथा दर्शयितुमाहमूलम् -- समावण्णा ण संसारे, नाणागुत्तासु जाइसु ॥ कम्मा नाणाविहा कटु, पुढो विस्तंभिआ पया ॥२॥
ब्याख्या --- समापन्नाः समन्तात्प्राप्ताः प्रजा इति योगः, मानुष्यमिति गम्यते, ' णेति' वाक्यालंकारे, केत्याहसंसारे भवे, तत्रापि केत्याह- नानागोत्रासु अनेकाभिधानासु जातिषु क्षत्रियादिषु, अत्र हेतुमाह- कर्माणि ज्ञानावरमीयादीनि नानाविधानि अनेकप्रकाराणि कृत्वा निर्वर्त्य तेषामधीनाः सन्तः 'पुढोत्ति' पृथक्भेदेन एकैकश इत्यर्थः, 'विस्संभिअत्ति' प्राकृतत्वादनुखारलोपे विश्वभृतो जगत्पूरका वर्तन्ते इति शेषः, क्वचित्कदाचिदुत्पत्त्या सर्वजगव्यापनादुक्तं च- "नत्थि किर सो पएसो, लोए वालग्गकोडिमित्तोवि ॥ जम्मणमरणावाहा, जत्थ जिएहिं न संपत्ता ॥ १ ॥” ततोऽवाप्याऽपि नरजन्म खकृतकर्मानुभावतोऽन्यान्यगतिभागिन्य एव प्रजा जनसमूहरूपा भवन्तीति दुर्लभमेव पुनर्नरजन्मेति सूत्रार्थः ॥ २ ॥ एतदेव स्पष्टयति
मूलम् — एगया देवलोएसु, नरएसुवि एगया ॥ एगया आसुरं कार्यं अहाकम्मेहिं गच्छइ ॥ ३ ॥ व्याख्या - एकदा शुभकर्मानुभवकाले देवलोकेषु सौधर्मादिषु, नरकेषु च रत्नप्रभादिषु, अपिशब्दश्चकारार्थे, एकदा दुष्कर्मोदयकाले, एकदा 'आसुरं' असुरसम्बन्धिनं कायं निकायं, ' अहाकम्मेर्हिति' यथाकर्मभिस्तत्तद्गत्यनुरूपचेष्टितैर्यथायोगं सरागसंयममहारम्भबालतपःप्रभृतिभिः, 'गच्छइत्ति' वचनव्यत्ययाद्गच्छन्ति प्राणिन इत्युत्तरेण योग इति सूत्रार्थः ॥ ३॥
मूलम् — एगया खत्तिओ होई, तओ चंडालबोक्सो ॥ तओ कीडपयंगो अ, तओ कुंथुपिवीलिआ ॥ ४ ॥ व्याख्या -- एकदा क्षत्रियो राजा भवति, जन्तुरिति गम्यं, सुत्रवैचित्र्याद्बहुवचनप्रक्रमेप्येकवचनं, ततस्तदनन्तरं चण्डालो