________________
उत्चराप्ययनसूत्रम् खयंवरस्रज काम-दोलाभां विनती करे ॥ ५३॥ दधाना श्वेतवस्त्राणि, व्यूतानीवेन्दुकान्तिभिः ॥ हरन्ती सर्व गर्व, नेत्ररेव सविभ्रमैः ॥ ५४ ॥ दर्शनादपि विश्वेषां, विशां निर्वृतिदायिनी ॥ तस्थौ निर्वृतिकन्यापि, तस्य स्तम्भस रान्निधौ ॥ ५५ ॥ [ त्रिभिर्विशेषकम् ] अथोचे भूपतिर्येष्ठ-सुतं श्रीमालिसंज्ञकम् ॥ राधावेधात्कनीमेना, राज्य चामुहि वत्स हे। ॥ ५६ ॥ स त्वनभ्यासतश्चापा-कर्षणेप्यक्षमोऽभवत् । तथापि धायमालम्व्य, कथञ्चित्तदुपाददे ॥५७ ॥ यत्र वा तत्र या यातु, मुक्तः श्रीमालिना शरः ॥ इत्युक्त्वा सोऽमुचद्वाणं, सद्यः पाश्चालिकां प्रति ॥५८॥ विशिखः स तु चक्रेणा-स्फल्य भमोऽपतछवि ॥ अहो! कलायानिति सो-ऽहासि लोकैस्ततो भृशम् ! ॥ ५९॥ वीक्षापनस्ततो वीक्षा-बभूव भुवमेव सः ॥ विविक्षुरिव पातालं, तया निन्दोत्थया हिया ॥ ६॥ शरः कस्याप्येवमेक-मतिचक्राम चक्रकम् ॥ कस्यापि द्वे त्रीणि कस्या-प्यन्येषां चान्यतो ययौ ॥ ६१ ॥ न पुनः कोऽपि रादपुत्रो, राधावेधमसाधयत् ॥ मिथी नतुल्यता हानि-र्माऽभूदिति धिया किमु ! ॥ ६२ ॥ तद्विलोक्य सनिर्वेद, दध्यावेवं घराधवः ॥ अमीभिस्तनयैर्लोक-समा
व: ॥ अमीभिस्तनयैर्लोक-समक्षं धर्पितोऽस्मि हा!॥६३॥ भतलव्यापिमत्कीर्ति-मार्तिसंहारकारिणः॥मम वैरिण एवामी, पुत्ररूपेण जज्ञिरे ! ॥ ६४ ॥ अमीभिः सत्कलाहीन-भूयोभिरपि किं सुतैः १ ॥ श्रेष्ठः कलावांस्त्वेकोऽपि, क्षीराब्धेरिव चन्द्रमाः!॥ ६५ ॥ पुत्रो हि गुणवान् पित्रो-महानन्दाय जायते ॥ गुणहीनस्तु दुःखाय, कहेधूम इवाङ्गजः! ॥ ६६ ॥ यदाहुः-"कामं श्यामवपुस्तथा मलिनयत्यावासवस्त्रादिकम् ॥ लोकं रोदयते भनक्ति जनतागोष्ठी क्षणेनापि यः ॥ मार्गेप्यङ्गुलिलम एव जनकस्याभ्येति न श्रयसे ॥ हा ! खाहाप्रिय ! धूममङ्गजमिमं सूत्वा न किं लजितः १ ॥ ६७ ॥" गतसर्वखवद्भपे, ध्यायत्येवमधोमुखे ॥ उवाच सचिवः खामिन् !, किमेवं दुर्मनायसे १॥ ६८ ॥ बभाषे भूपतिर्मत्रिन्!, पुत्रैरेभिरशिक्षितैः ॥ ध्वस्तो मे महिमा तेन, दौर्मनस्यं श्रयाम्यहम् ! ॥ ६९ ॥ मयूचे दौर्मनस्येन, कृतं यत्ते सुतोऽपरः ॥ सुरेन्द्रदत्तनामाऽस्ति, दौहित्रो मे कलानिधिः॥७॥राधावेधं विधातुं स, प्रभूष्णुर्विद्यते प्रमो! ॥ तदाकर्पोऽभ्यधाद्भपो, मत्रिन्नाहं स्मरामि तम् ! ॥ ७१ ॥ राज्ञः पुरं ततो वृत्त-पत्रं तत्सचिवोऽमुचत् ॥ तद्वाचयित्वा स्मृत्वा च, सर्व भूपोऽप्यमोदत ॥ ७२ ॥ काऽधुना स सुतोऽतीति, राज्ञोक्ते धीसखोऽपि तम् ॥ दर्शयामास भूपोऽपि, तमालिङ्गयेत्यवोचत ॥ ७३ ॥ राधावेधं साधयित्वा, वत्स ! केनाप्यसाधितम् ॥ राज्ययुक्तां कनीमेनां, खीकुरु त्वं महामते ! ॥ ७४ ॥ ततः प्रमाणमादेशः, पूज्यानामित्युदीर्य सः ॥ स्तम्भस्य तस्य पार्थे च, गत्वा चापमुपाददे ॥ ७५॥ अधिजीकृत्य तत्सत्य- सन्धः संधाय चाशुगम् ॥ ऊद्देमुष्टिरधोरष्टि-स्तत्र तस्थी च भूपभूः ॥ ७६ ॥ दध्यौ नित्तिकन्याऽपि, वीक्ष्य तं रूपमन्मथम् ॥ अहो रूपमहो कान्ति-रहो लावण्यमद्भुतम् ! ॥ ७७ ॥ ॥ एष विध्यति चेद्राधां, तत्कृतार्था भवाम्यहम् ॥ ध्यायन्तीति तदेकाग्र-चित्तासीद्योगिनीव सा ॥ ७८ ॥ तदा च तत्समीपस्था, दासेरास्ते चतुर्दिशम् ॥ चकुः कोलाहलं प्रोबैखालिकास्फालनादिना ॥ ७९ ॥ तेऽपि द्वाविंशती राज-सुता उल्लण्ठभाषणैः ॥ असौ विध्यतु मा राधा-मित्यपायान् वितेनिरे ॥ ८० ॥स्खलिते सति ते शीर्ष, छेत्स्याव इति वादिनौ ॥पाचयोस्तस्थतुस्तख, खगव्यप्रकरौ नरौ ॥८१॥ समीपस्थः कलाचार्यो-ऽप्येवं स्माह मुहुर्मुहुः ॥ स्खलिते ते वधो भावी, तद्भूयास्त्वं समाहितः॥ ८२ ॥ दासेरांस्तान् कुमारांचा-ऽगणयन् सुमटौ च ती ॥ कुण्डिकातैलसंक्रान्त-चक्रान्तय॑स्तलोचनः ॥८३॥ लक्ष्ये निरुद्धया दृष्ट्या, ज्ञात्वा चक्राष्टकान्तरम् ॥ तदेकामनाः सद्यः, कुमारो व्यमुचच्छरम् ॥ ८४॥ [युग्मम् ] प्रविश्य तेषां चक्राणा-मन्तराले शरोऽपि सः॥ क्षणाद्विव्याध राधाया, वामनेत्रकनीनिकाम् ॥ ८५ ॥ ततो लोकैः प्रमुदितै-चके जयजयारवः ॥ तदैकाग्र्यकरस्थैर्य-लघुहस्तत्वशंसिभिः ॥८६॥ तदा निवृत्तिकन्याऽपि, मुखे तस्य प्रमोदमाक् ॥ कटाक्षमालिकां न्यास्थ-त्कण्ठे तु कुसुमस्रजम् ॥ ८७ ॥ तमोभिरिव लोकस्य, सुतैरेभिरभून्मम ॥ यन्मालिन्यं तदा पूर्ण-विधुनेव त्वया हृतम् ॥ ८८ ॥ तत्त्वयैव सुतेनाह-मस्मि पुत्रीत्युदीरयन् ॥ तदेन्द्रदत्तराजेन्द्रः, प्रेम्णा तं परिषखजे ॥ ८९॥ [युग्मम् ] ततः कुमाररतां कन्या-मुपायंस्त महामहैः ॥ इन्द्रदत्तनरेन्द्रोऽपि, तस्मै राज्यं ददौ क्रमात् ॥ ९॥ ते तु द्वाविंशतिः पूर्व-मनभ्यासात्तदा कथम् ॥ राधावेधं साधयन्ति, श्रयन्ति च नृपश्रियम् १ ॥ ९१ ॥ दिव्यानुभावादथ तेऽपि राधा-वेधं कुमाराः किल साधयेयुः ॥ प्रमत्तचित्तस्तु जनो नरत्वा-व्युतः पुनस्तन्न लभेत सद्यः ॥ ९२ ॥ इति राधावेघदृष्टान्तः सप्तमः ॥ ७॥ अथ चर्मदृष्टान्तस्तथा हि
हद एकोऽभवत् कापि, योजनानि सहस्रशः ।। विस्तीर्णोऽगाधपानीयो, भूरिनीरचरै तः ॥ १॥ तख चोपरि