________________
॥ ७४ ॥
उत्तराध्ययनसूत्रम्
अभिज्ञानार्थमुश- प्रोक्तानि वचनानि च ॥ ११ ॥ साभिज्ञानं धीसखोऽपि तत्सर्वं पत्रकेऽलिखत् ॥ नृपाज्ञयाऽऽनयत्तां च, खगेहे प्रसवोन्मुखीम् ॥ १२ ॥ गर्भकाले च सम्पूर्णे, साऽसूत सुतमुत्तमम् ॥ ततः प्रमुदितोऽमात्य - स्तस्य जन्मोत्सवं व्यधात् ॥ १३ ॥ सुरेन्द्रदत्त इत्याख्यां, तस्य चक्रे च सोत्सवम् ॥ सोऽप्यवर्धिष्ट तहे, कल्पद्रुरिव नन्दने ॥ १४ ॥ अग्निकाख्यः पर्वतको, बहली सागराभिधः ॥ दासेरा इति चत्वार - स्तस्याऽभूवन् सहोद्भवाः ॥ १५ ॥ तैश्चतुर्भिः समं दासा - पत्यैः क्रीडां मनोरमाम् ॥ कुर्वाणः स कलाभ्यास-योग्यः समजनि क्रमात् ॥ १६ ॥ तं च मातामहोऽन्येद्युः, कलाग्रहणहेतवे ॥ कलाचार्यस्य तस्यैवाऽभ्यासेऽमुञ्चन्महामहैः ॥ १७ ॥ मातामहकलाचार्यशिक्षाभिः सकला अपि ॥ क्रीडास्त्यक्त्वा कलाभ्यास - मेकचित्तो व्यधत्त सः ॥ १८ ॥ दासेरास्ते कलाभ्यासा-वसरे पूर्वसंस्तवात् ॥ अन्तरायान् व्यधूस्तस्य, तुमुलाकर्षणादिना ॥ १९ ॥ तैरप्यस्वलितोत्साहः, कुर्वन् सोऽभ्यासमन्वहम् || स्वभाववत्सदभ्यस्ता-चक्रे द्वासप्ततिं कलाः ॥ २० ॥ विशेषाच्च धनुर्वेदाभ्यासं स विदधे तथा ॥ असाधयद्यधाराधा- - वेधमप्यनुवासरम् ॥ २१ ॥ ते तु द्वाविंशतिः सम्य-कलाभ्यासं न चक्रिरे ॥ कुर्वन्तो विविधां क्रीडा - मन्योन्यं वल्गनादिकाम् ॥ २२ ॥ पाठकेन प्रणुन्नास्तु, कलाग्रहणकर्मणि ॥ दुष्टवाक्यानि जल्पन्तो ऽभूवंस्तत्कुट्टनोद्यताः ! ॥ २३ ॥ तांश्च कम्वादिनाचार्य - स्ताडयेद्यदि कर्हिचित् ॥ तदा रुदन्तस्ते गत्वा स्वभातॄणां न्यवेदयन् ॥ २४ ॥ ततस्तास्तं कलाचार्य - मित्युपालम्भयन् रुपा ॥ भवन्त्यस्मादृशां प्राय - स्तनयाः खलु दुर्लभाः ! ॥ २५ ॥ तदस्माकं सुता एते, पाठनीया यथासुखम् ॥ ताडनीयास्तु युष्माभि-नैव निष्ठुरमानसैः ॥ २६ ॥ ततो दध्यावुपाध्यायो - ऽमीपामध्यापनान्मया || सम्प्राप्तं नैव सन्मान- मुपालम्भस्त्वलभ्यत ! ॥ २७ ॥ तदमीषां शुकलाश्व-- देश्यानां दुष्टचेतसाम् । अध्यापनप्रयासेन, ममातिबहुना कृतम् ! ॥ २८ ॥ तेनेत्युपेक्षिताः क्ष्माप - पुत्रास्ते सकलाः कलाः ॥ नाम्नैव जगृहुः सभ्यक्, नत्वविन्दन्त काञ्चन ॥ २९ ॥ यतः - " नानुद्योगवता न च प्रवसता नात्मानमुत्कर्षता, नालस्योपहतेन नान्यमनसा नाचार्यविद्वेपिणा ॥ न भ्रूभङ्गविलासविस्मितमुखीं सीमन्तिनीं ध्यायता, लोके ख्यातिकरः सतामभिमतो विद्यागुणः प्राप्यते ! ॥ ३० ॥” तादृशानपि भूपस्तान् विवेद विदुषोऽखिलान् ॥ आन्तरङ्गं गुणं वेत्ति, परीक्षामन्तरा हि कः ? ॥ ३१ ॥ सपुत्रां मन्त्रिपुत्रीं तु, पूर्ववद्यस्मरनृपः ॥ गताहर्भुक्तमप्यल्पबुद्धयो हि स्मरन्ति न ! ॥ ३२ ॥
इतश्च मथुरापुर्या, जितशत्रोर्महीपतेः ॥ भूर्भुवः स्वर्वधूजैत्रा, सुता निर्वृतिरित्यभूत् ॥ ३३ ॥ तामशेषकलादक्ष, प्राप्ताभिनवयौवनाम् ॥ अन्येद्युः प्राहिणोन्माता, परिष्कृत्य नृपान्तिके ॥ ३४ ॥ साऽपि गत्वा सभामध्ये, प्रणनाम महीधवम् ॥ तां निवेश्य निजोत्सङ्गे, नृपोप्येवमचिन्तयत् ॥ ३५ ॥ पाणिग्रहणयोग्याऽसौ सुताऽभूत्प्राप्तयौवना ॥ प्रायो भवन्ति भूपानां, नन्दनाश्च स्वयंवराः ॥ ३६ ॥ तदभीष्टेन भर्त्राऽसौ, विवायेति विमृश्य सः ॥ सुते ! कस्ते बराऽभीष्टः, सस्नेहमिति पृष्टवान् ? ॥ ३७ ॥ सा प्रोचे यः पुमान् राधा - वेधं साधयति स्फुटम् ॥ खामिन्नहं वरिष्यामि, तं वरं वसुधावरम् ॥ ३८ ॥ तत इन्द्रपुराधीश - स्येन्द्रदत्तस्य भूभुजः ॥ कलाभ्यासपरान् भूय-स्तरानाकर्ण्य नन्दनान् ॥ ३९ ॥ जितशत्रुनृपस्तत्र, गन्तुं प्रातिष्ठिपत्सुताम् ॥ युक्तां वृद्धैः कुलामात्यै - श्वतुरङ्गचमूवृताम् ॥ ४० ॥ [ युग्मम् ] क्रमादिन्द्रपुरे साऽगा-दिन्द्रदत्तनृपोऽपि ताम् ॥ पुरे प्रावीविशन्तुष्ट - चेता गुरुभिरुत्सवैः ॥ ४१ ॥ दध्यौ चाsशेष भूपेभ्यः कृतपुण्योऽस्मि नन्वहम् ॥ यत्कनीयं विहायान्या-न्मत्सुतं परिणेष्यति ! ॥ ४२ ॥ ध्यायन्निति प्रतिज्ञां च तस्यास्तामवधारयन् ॥ अकारयन्नृपो भव्यं स्वयंवरणमण्डपम् ॥ ४३ ॥ काञ्चनस्तम्भसंलग्न - चञ्चन्माणिक्यतोरणे ॥ मौक्तिकस्वस्तिक श्रेणी - दन्तुरीभूतभूतले ॥ ४४ ॥ सुगन्धिपञ्चवर्णाढ्य - पुष्पप्रकरपूजिते ॥ विचित्रोलोचरचना - चित्रीयितजगत्रये ॥ ४५ ॥ अकाण्डोद्भूतसन्ध्याभ्र-पटलभ्रान्तिकारिभिः ॥ अभ्रंलिहैः पञ्चवर्णैः, केतुलक्षैर्विभूषिते ॥ ४६ ॥ तस्मिंश्च मण्डपे शक्रा - स्थानमण्डपसन्निभे ॥ इन्द्रदत्तो नृपः स्तम्भ - मेकमुचैरतिष्ठिपत् ॥४७॥ [ चतुर्भिः कलापकम् ] चत्वारि सृष्ट्या चत्वारि, संहत्या चातिवेगतः ॥ भ्राम्यन्ति लोहचत्राणि, स्तम्भोई च न्यवीविशत् ॥ ४८ ॥ तेषां चोपरि राधेति - प्रसिद्धां शालभञ्जिकाम् ॥ अस्थापयदधस्ताच्च, तैलसम्पूर्ण कुण्डिकाम् ॥ ४९ ॥ कुण्डीतैलस्थचक्रादि- प्रतिविम्बानुसारतः ॥ राधाया वामनयनं, वेध्यं तत्र च साधकैः ॥ ५० ॥ ततः स भूपः सानन्दं, द्वाविंशत्या सुतैः समम् ॥ पुराद्वहिःस्थे तत्रागा - न्मण्डपे सपरिच्छदः ॥ ५१ ॥ सुरेन्द्रदत्तसचिव- स्तत्रागा - त्सचिवोऽपि सः ॥ पौराश्च कोटिशस्तत्रा -ऽऽययुः कौतुकमीक्षितुम् ॥ ५२ ॥ सर्वालङ्कारसुभगा, लक्ष्मीरिव वपुष्मती ॥