________________
उतराध्ययनसूत्रम्
॥ ७३ ॥
प्रत्युवाचाऽचलः खामि—न्नागा पारसकूलतः ॥ ततस्तं वार्तयामास प्रजानाथः सगौरवम् ॥ ३३५ ॥ भाण्डं दर्शयितुं पञ्च-कुले तेनाऽथ याचिते ॥ भूपोऽभ्यधात्समेष्यामः, कौतुकेन स्वयं वयम् ॥ २३६ ॥ महाप्रसाद इत्युक्तेऽचलेनाऽथ नृपो ययौ ॥ तत्सार्थस्थानमास्थानं, धियां पञ्चकुलान्वितः ॥ २३७ ॥ मञ्जिष्ठाक्रमुकादीनि, सोऽपि भाण्डान्यदर्शयत् ॥ ततोऽवदन्नृपो भाण्ड - मिदमेवास्ति किं तव १ ॥ २३८ ॥ भाण्डं ममेदमेवास्ती - त्युक्ते तेन नृपोऽवदत् ॥ सत्यं ब्रूया न चेच्छुल्क- चौर्या विग्रहनिग्रहः ॥ २३९ ॥ नान्यस्यापि पुरोलीकं वचूम्यहं किं पुनः प्रभो ! ॥ तेनेत्युक्ते नृपोऽवादी - दिति पञ्चकुलं प्रति ॥ २४० ॥ अर्धदानं श्रेष्ठिनोऽस्य क्रियतां सत्यवादिनः ॥ किन्तु भाण्डानि सर्वाणि, तोलनीयानि मे पुरः ॥ २४९ ॥ तेषां च तोलने भार - वैषम्यादविघाततः ॥ वंशवेधाच मञ्जिष्ठा - यंतर्मेने नृपोऽपरम् ॥ २४२ ॥ भाण्डस्थानानि सर्वाणि, नरेन्द्रोऽभेदयत्ततः ॥ तेभ्यो मुक्तास्वर्णरूप्यविद्रुमादि विनिर्ययौ ॥ २४३ ॥ तत्प्रेक्ष्योत्पन्न कोपेना - ऽचलोऽबध्यत भूभृता ॥ अरे प्रत्यक्षचौरोऽयं, बध्यतामिति वादिना ! ॥ २४४ ॥ मुक्त्वा भटांश्च तत्सार्थ-स्थानेऽगात्पार्थिवो गृहम् ॥ आरक्षकोऽपि तं बद्ध-मनैषीद्रूपसन्निधौ ॥ २४५ ॥ गाढबद्धं च तं दृष्ट्वा, छोटयित्वा च भूधवः ॥ सार्थवाह ! किमु त्वं मां सआनासीति पृष्टवान् ? ॥ २४६ ॥ सोऽवादीद्भुवनोद्योत - करं वैरितमोहरम् ॥ त्वां जनेशं दिनेशं च, नो जानाति जडोऽपि कः ? ॥ २४७ ॥ चाटुवाक्यैः कृतं सम्यक्, यदि वेत्सि तदा वद ॥ नृपेणेत्युदितः प्रोचे - ऽचलस्तर्हि न वेश्यहम् ॥ २४८ ॥ ततः पृथ्वीपतिर्देव - दत्तामाहूय तं तथा ॥ अदर्शयत्तां च वीक्ष्या -ऽचलोऽभूयाकुलो भृशम् ॥ २४९ ॥ ततो विलक्षं क्ष्मान्यस्ते - क्षणं हीणमधोमुखम् ॥ विस्मयस्मेरनयना, देवदत्तेति तं जगौ ॥ २५० ॥ दैवाद्विपदमाप्तस्य, कार्यमेवं त्वयाSपि मे ॥ तदेत्युक्तस्त्वया योऽभू - न्मूलदेवोऽयमस्ति सः ॥ २५९ ॥ तदिदं व्यसनं वित्त - देहसन्देहसाधनम् ॥ प्राप्तोऽपि त्वं विमुक्तोऽसि राज्ञा दीनदयालुना ॥ २५२ ॥ वीक्षापन्नोऽथ स श्रेष्ठी, प्रणिपत्य तयोः क्रमान् ॥ इत्युवाचाखिलान्मन्तून्, सहध्वं मे तदाकृतान् ॥ २५३ ॥ आगसा कुपितस्तेन, विचारधवलोनृपः ॥ प्रवेशमप्यवन्त्यां मे, युष्मद्वाचैव दास्यति ॥ २५४ ॥ नरदेवोऽवदद्देव - दत्तादेवी यदा त्वयि ॥ प्रसादमकरोन्मन्तु- र्मया सोढस्तदैव ते ॥ २५५ ॥ ततोऽचलः प्रमुदितो, भूयोऽपि प्रणनाम तौ ॥ स्त्रपयित्वाऽभोजयत्तं, देवदत्ताऽपि सादरम् ॥ २५६ ॥ भूपोऽपि भूरिमूल्यानि दत्वा वासांसि तस्य तत् ॥ शुल्कं मुमोच सन्तोहि द्विषामप्युपकारिणः ॥ २५७ ॥ दूतं दत्वाऽऽत्मनो गन्तु - मवन्त्यां व्यसृजश्च तम् ॥ अवन्तीशोऽपि तद्वाचा, प्रवेशं तस्य दत्तवान् ॥ २५८ ॥ विप्रो निघृणशर्माऽपि प्राप्तराज्यं निशम्य तम् ॥ अगाद्वेण्णातटं मूल- देवभूपं ननाम च ॥ २५९ ॥ प्रत्यभिज्ञाय भूपोऽपि, तं कृतज्ञशिरोमणिः ॥ अदृष्टसेवया तस्मै ददौ ग्रामं तमेव हि ॥ २६० ॥
सोऽथ कार्पटिकोऽश्रौषी - द्यच्चन्द्रप्रासलक्षणात् ॥ स्वप्नादासीन्मूलदेवो नृपः सम्यग्विचारितात् ॥ २६१ ॥ ततः सोऽचिन्तयद्धियां, यत्स्वप्नस्तादृशस्तदा ॥ आवेदनेन मन्दानां नीतो निष्फलतां मया ! ॥ २६२ ॥ तदद्यापि हि
चेत्पीत्वा, गोरसं सरसं शये ॥ तदाहमीदृशं स्वप्नं, भूयः पश्यामि राज्यदम् ! ॥ २६३ ॥ इति ध्यायन् राज्यलक्ष्मीं, कांक्षन् सोऽनिशमखपीत् ॥ न तु तं स्वप्नमैक्षिष्ट, गूढमर्थमिवाबुधः ! ॥ २६४ ॥ कदाप्यऽसौ कार्पटिकोऽपि पश्येत्वमं तमप्युत्कटभाग्ययोगात् ॥ न तु प्रमादाच्युतमर्त्यजन्मा, लभेत भूयोऽपि जनो नरत्वम् ! ॥ २६५ ॥ इति स्वप्नदृष्टान्तः षष्ठः ॥ ६ ॥ अथ ' चकेत्ति' पदसूचितो राधावेधदृष्टान्तस्तथा हि
अभूदिन्द्रपुरं नाम, पुरमिन्द्रपुरोपमम् ॥ नृपस्तत्रेन्द्रदत्ताहो, बभूवेन्द्र इव श्रिया ॥ १ ॥ राज्ञस्तस्याऽभवन् वह्नयो, वल्लभाः प्राणवल्लभाः ॥ सुता द्वाविंशतिस्तासा - मासन् पृथ्वीपतिप्रियाः ॥ २ ॥ तांस्तु सर्वानपि नृपो, महोत्सवपुरस्सरम् || कलाभ्यासार्थममुच - त्कलाचार्यस्य सन्निधौ ॥ ३ ॥ स च भूपोऽन्यदा प्रेक्ष्य, मन्त्रिपुत्रीं मनोरमाम् ॥ उपयेमे तां च मन्त्री, दीर्घदर्शीत्यशिक्षयत् ॥ ४ ॥ यदा गर्भसमुत्पत्ति - जयते तव हे सुते ! ॥ तदा दिनादिकं सर्व-मपि ज्ञाप्यं त्वया मम ॥ ५ ॥ प्रतिपेदे पितुर्वाणीं, तथाऽमात्यसुताऽपि ताम् ॥ नोद्वाहमनु भूपस्तु, तां पस्पर्श ददर्श च ॥ ६ ॥ बहुप्रियो भूप्रियस्तां, सस्माराऽपि न कर्हिचित् । ॥ भूरिभार्यस्य किं कार्य, तस्य न स्यात् विनापि ताम् १ ॥७॥ अन्यदा तामृतुस्नातां, ददर्श पृथिवीपतिः ॥ वधूः कस्येयमित्यन्याः पप्रच्छ च निजप्रियाः ॥ ८ ॥ प्रभो ! तवैव पत्नीय-मिति ताभिरुदीरिते ॥ तथैव सह तां रात्रि - मुवासाऽवनिवासवः ॥ ९ ॥ तत्रैव रात्रौ सा गर्भ, बभार नृपसङ्गमात् ॥ खातिपाथोमुचः सङ्गाच्छुक्तिर्मुक्तामणीमिव ॥ १० ॥ गर्भसम्भवकालं तं, साऽथ पित्रे न्यवेदयत् ॥