________________
उचराप्ययनसूत्रम् वसन् ॥ गत्वोद्याने पञ्चमेह्नि, चम्पकद्रुतलेऽखपीत् ॥ १९२ ॥ तदा च तत्पुराधीशः, प्रापापुत्रः परासुताम् ॥ ततोऽधिवासयामासुः, पञ्च दिव्यानि धीसखाः ॥ १९३ ॥ हस्त्यश्वछत्रभृङ्गार-चामरा मन्त्रवासिताः ॥ पुरीमध्ये भ्रमन् राज्य-योग्यं मत्यै तु नाऽऽमुवन् ! ॥ १९४ ॥ ततो बहिर्धेमन्तस्ते, मूलदेवं व्यलोकयन् ॥ प्रसुप्तमपरावृत्त-च्छायं चम्पकसन्निधौ ॥ १९५ ॥ ततश्चक्रे हयो हेषां, गजो गुलगुलायितम् ॥ अभिषेकं च भृङ्गार-चामरौ वीजनं तथा ॥ १९६ ॥ पुण्डरीकं च तस्यो , व्यकसत्पुण्डरीकवत् ॥ सुखामिप्राप्तिमुदितै-जनैश्चक्रे जयारवः ॥ १९७ ॥ ततस्तं सिन्धुरः सौव-स्कन्धेऽध्यारोपयत्वयम् ॥ प्रावीविशच्च नगरे, नागरैर्निर्मितोत्सवे ॥ १९८॥ राज्याभिषेकं तस्याऽथ, चक्रुः सामन्तमत्रिणः ॥ तदा च देवता ब्योनि, व्यक्तमेवमवोचत ॥ १९९ ॥ “देवतानां प्रभावेणा-वाप्तराज्यः कलानिधिः ॥ एष विक्रमराजाह्वो, राजा मान्योऽखिलैर्जनैः ॥ २०॥ यस्त्वस्य भूपतेराज्ञा-मात्मद्वेषी न मंस्यते ॥ तमहं निग्रहीष्यामि, विद्युत्पात इवाझिपम् ॥ २०१॥” तन्निशम्याऽखिलं राज-मण्डलं भीतविस्मितम् ॥ तस्याऽवश्यमभूवश्यं, सौख्यं धर्मवतो यथा ॥ २०२ ॥ सोऽथ भूपो व्यधात्प्रीति, प्राभृतप्रेषणादिना ॥ विचारधवलाख्येनो-जयनीखामिना समम् ॥ २०३ ॥
[इतश्च-] देवदत्ताऽपि तां प्रेक्ष्य, मूलदेवविडम्बनाम् ॥ इत्युवाचाऽचलं कोपा-वेशकम्पितविग्रहा ॥ २०४ ॥ रेमूढ ! किं त्वया ज्ञाता, परिणीतवधूरहम् ॥ यन्ममापि गृहेऽकार्षी-रसमञ्जसमीदृशम् ॥ २०५॥ अतः परं समागम्यं, नैवास्मद्वेश्मनि त्वया ॥ इत्युक्त्वा तं च निष्काश्य, गेहात्सागानृपान्तिकम् ॥ २०६ ॥ इत्यूचे च प्रभो ! दत्त, तं वरं मम साम्प्रतम् ॥ नृपः प्रोचे यदिष्टं ते, तदाख्याहि यथा ददे ॥ २०७॥ मूलदेवं विना नान्यः, कोऽपि प्रेष्यो मदालये ॥ अचलश्चायमागच्छ-निवार्य इति साऽवदत् ॥ २०८ ॥ अस्त्वेवं किन्तु को हेतु-रिति पृष्टेऽथ भूभृता ॥ देवदत्ताज्ञयावा, तामवोचत माधवी ॥ २०९ ॥ रुष्टोऽथ पार्थिवः सार्थ- वाहमाहूय तं जगौ ॥ रे ! किमत्राऽधिपोऽसि त्वं, यदेवं कुरुषे बलम् ? ॥ २१० ॥ देवदत्तामूलदेवी, रतभूतौ पुरे मम ॥ यत्त्वया धर्षितौ तत्त्वां, मारयिष्यामि साम्प्रतम् ॥ २११ ॥ क्षुद्रेणानेन भूजाने !, किं हतेनेति वादिनी ॥ देवदत्ताऽमोचयत्तं, भूप
॥२१२॥ अस्या वाक्येन मुक्तस्त्वं, यद्यप्यचल ! सम्प्रति ॥ तथापि मूलदेवेऽत्रा-ऽऽनीते शुद्धिर्भवेत्तव ॥ २१३ ॥ अचलोऽथ नृपं नत्वा-ज्न्वेषयामास सर्वतः ॥ मूलदेवं न तु प्राप, निर्भाग्य इव सेत्रधिम् ॥ २१४ ॥ तया न्यूनतया भूपा-भीतः सार्थपतिस्ततः ॥ अगात्पारसकूलं द्राग, भाण्डान्यादाय वाहनैः ॥ २१५ ॥ इतश्च मूलदेवोऽपि, तद्राज्यमपि नीरसं ॥ मन्यमानो विना देव-दत्तां निर्लवणान्नवत् ॥ २१६ ॥ प्राहिणोद्देवदत्तायै, लेखं सतपाणिना ॥ साऽपि त वाचयामासा-ऽऽनन्दापूर्णमना इति ॥ २१७॥ [युग्मम् ] खस्ति वेण्णातटान्मूलदेवेनोजयनीस्थिता ॥ आलिंग्यालाप्यते देव-दत्ता चित्ताजहंसिका ॥ २१८ ॥ अस्तीह कुशलं देव- गुरुपादप्रसादतः॥ त्वयाऽपि खाङ्गवार्तत्व-वार्ता ज्ञाप्या मुदे मम ॥ २१९ ॥ किञ्च साधोर्मया दत्तं, दानं तद्वीक्ष्य मां सुरी ॥ ऊचे वरं वृणुष्वेति, ततोऽहमिति तां जगौ ॥ २२० ॥ देवदत्तासहस्रभ-युक्तं राज्यं प्रदेहि मे ॥ ततो राज्यं मया लब्धं, तच व्यर्थ त्वया विना ! ॥ २२१॥ तत्सत्वरं त्वयाऽऽगम्य-मिहापृच्छय धराधरम् ॥ कालक्षेपश्च नात्रार्थे, कर्तव्य इति मङ्गलम् ॥ २२२ ॥ वाचयित्वेति सा तुष्टा, दूतमेवमभाषत ॥ अहं तदेकचित्तापि, कुर्वेऽपेक्षां पुरीपतेः॥२२३॥ दृष्टो दूतस्ततो गत्वा, भूपमेवं व्यजिज्ञपत् ॥ मूलदेवनृपो देव !, मन्मुखेनेति याचते ॥ २२४ ॥ खामिन्मे देवद. त्तायां, निविडं प्रेम वर्त्तते ॥ तत्सा प्रेष्या यदा तस्या, युष्माकं च रुचिर्भवेत् ॥ २२५ ॥ ततः प्रोचे नृपो राज्यमप्येतत्तस्य विद्यते ॥ तत्ति विक्रमराजेन,राज्ञैतन्मात्रमर्थितम् १२२६ ॥ इत्युदित्वा देवदत्तां, समाकार्य नृपोऽलपत् ॥ भद्रे । चिरेण सम्पूर्ण, तव चेतःसमीहितम् ! २२७॥ देवतादत्तराज्यश्रीःप्राहिणोन्मूलदेवराट् ॥त्व निजं मये, तत्त्वया तत्र गम्यताम् ॥२२८॥ इत्यवन्तीनृपेणोक्ता, सागाद्वेण्णातटंक्रमात् ॥ तां च प्रावीविशन्मूल-देवराट् सोत्सवं पुरे ॥ २२९ ॥ सोऽथ वैषयिक सौख्यं, भुजानो देवदत्तया ॥ धर्मकृत्यं व्यधान्नित्य-मर्हचैत्यार्चनादिकम् ॥ २३०॥ ___ इतश्चागण्यपण्यौघं, भृत्वा पारसकूलतः ॥ आगाद्वेण्णातटेऽन्येयुः, सार्थवाहोऽचलाह्वयः ॥ २३१ ॥ किं नागात्र नृपोऽस्तीति, तत्र लोकान् स पृष्टवान् ॥ राजा विक्रमराजाख्यो, वर्ततेऽत्रेति ते जगुः ॥ २३२ ॥ ततः वर्णमणीमुक्ता-भृतस्थालोपदां दधत् ॥ मापालं प्रेक्षितुं सोऽगा-द्भपोप्यासनमार्पयत् ॥ २३३ ॥ तमुपालक्षयन्मक्षु, भूपो भूपं तु नाऽचलः ॥ श्रेष्ठिन् ! कुतस्त्वमायासी-रित्यप्राक्षीनृपोऽथ तम् ॥ २३४ ॥