________________
उत्तराप्ययनसूत्रम्
॥७१॥ धूर्तराट् ॥ द्रुच्छायामाश्रयत् स्निग्ध-वधूवत्खेदहारिणीम् ॥ १५१ ॥ विप्रस्तु स्थगिकामध्या-त्सक्तूनाऽऽकृष्य वारिणा॥ आर्द्रयामास तान् भोक्तुं, चैक एवोपचक्रमे ॥१५२॥ धूर्तों दध्यौ क्षुधार्तत्वा-भोज्यं नाऽऽदावऽदान्मम॥ भुक्त्वा तृप्तः पुनरयं, ममाऽप्येतत्प्रदास्यति ! ॥ १५३ ॥ विप्रस्तु मार्गमित्राया-ऽप्यस्मै नो किञ्चिदप्यदात् ॥ याचको हि स्वयं प्रायो-ऽन्यस्मै दातुं न शक्नुयात् ! ॥ १५४ ॥ विप्रेऽथ स्थगिका वड्वा, पुरतः प्रस्थिते सति ॥ धूर्तेशोऽनुव्रजन् दध्या-चपराह्ने प्रदास्यति ! ॥ १५५ ॥ द्विजस्तथैव सायाहू-ऽप्यभुक्ताऽस्मै तु नो ददौ ॥ कल्ये दास्यत्यसौ नून-मिति दध्यौ च धूर्तपः ॥१५६॥ पुरो यान्तौ च तौ रात्रौ, जातायां वटसन्निधौ ॥ मार्ग मुक्त्वा सुषु. पतुः, प्रभाते च प्रचेलतुः ॥ १५७ ॥ जाते मध्यंदिने प्राग्व-द्विप्रो भुङ्क्ते स्म नत्वदात् ॥ मूलस्त्वाशातन्तुबद्ध-जीवितः पुरतोऽचलत् ! ॥ १५८ ॥ तृतीये तु दिने मूल-देवो दध्यौ क्षुधातुरः ॥ तीर्णप्रायाटवी तस्मा-दद्यावश्यं प्रदास्यति ॥१५९ ॥ तत्राप्यहि द्विजो नादा-त्तीर्णेऽरण्ये जगौ तु तम् ॥ वयस्य ! तय मार्गोयं, मम चायं ब्रजामि तत् ॥ १६०॥ मूलदेवोऽभ्यधाद्भट्ट !, त्वत्साहाय्यादियं मया ॥ तीर्णा महाटवी तुम्व-महिम्नेव महानदी ॥ १६१॥ कार्योत्पत्तौ ततो मूल-देवनानो ममान्तिके ॥ वेण्णातटे त्वमागच्छे-र्नामाऽऽख्याहि निजं च मे ॥ १६२ ॥ अहं निघृणशर्मेति, जनैर्दत्तापराभिधः ॥ द्विजोऽस्मि सद्धडो नामे-त्युदित्वा सोऽगमत्ततः ॥ १६३ ॥ प्रति वेण्णातटं गच्छन् , मूलदेवस्ततोऽन्तरा ॥ वसन्तं ग्राममैक्षिष्ट, भिक्षार्थ तत्र चागमत् ॥ १६४ ॥ भ्रामं भ्रामं तत्र लेभे, कुल्मापानेव केवलान् ॥ तानादाय प्रतस्थेऽथ, मूलः प्रति जलाशयम् ॥ १६५ ॥ अत्रान्तरे तपस्तेज-स्तरणिं शान्तचेतसम् ॥ मासोपवासिनं साधु-मायान्तं ग्रामसंमुखम् ॥ १६६ ॥ समीक्ष्य मुदितो मूल-देव एवमचिन्तयत् ॥ धन्योऽहं यन्मया दृष्टः, समयेऽस्मिन्नसी मुनिः ॥ १६७॥[युग्मम् ] यथा भवेन्मरुस्थल्या, दुलेभस्त्रि बत्रयाधारः, स्थानेऽत्राऽसौ महामुनिः ! ॥ १६८ ॥ ग्रामेऽस्मिन्कृपणे किश्चि-दप्यसौ न च लप्स्यते ॥ लप्स्येऽहं तु पुनर्भोज्य-मत्र वाऽन्यत्र वा भ्रमन् ॥ १६९ ॥ इमान् विशुद्धान् कुल्माषां-स्तद्दत्वाऽस्मै महात्मने ॥ विवेकशाखिनं कुर्वे-ऽचिरात्सफलमात्मनः ! ॥ १७० ॥ ध्यात्वेत्युद्गतरोमाञ्चः, प्रमोदाश्रुविमिश्रक ॥ भक्तिपूर्व मूलदेवो. मुनि नत्वैवमब्रवीत् ॥ १७१ ॥ व्यसनाम्भोधिपतिते, मयि कृत्वा कृपां प्रभो ! ॥ एतानादत्व कुल्मापा-माञ्च निस्तारय द्रुतम् ! ॥ १७२ ॥ द्रव्यादिशुद्धिं विज्ञाय, ततस्तानाददे यतिः ॥ ततः प्रमुदितो मूल-देव एवमवोचत ॥ १७३ ॥ धन्यानां हि नराणां स्युः, कुल्माषाः साधु पारणे ॥ तदा च वीक्ष्य तद्भक्तिं, हृष्टा काऽपि सुरीत्यवक् ॥ १७४ ॥ वत्स ! त्वया कृतं साधु, साधुभक्तिं वितन्वता ॥ ततः श्लोकोत्तरार्धन, यत्तेऽभीष्टं वृणुष्व तत् ! ॥ १७५ ॥ मूलदेवोऽपि तां देवी-मवादीन्मुदितस्ततः ॥ देहि वेश्यां देवदत्तां, राज्यञ्चेभसहस्रयुक् ॥ १७६ ॥ देव्युवाचाऽचिरादेव, लप्स्यसे सर्वमप्यदः ॥ मूलदेवस्ततः साधु, नत्वा ग्रामेऽगमत्पुनः ॥ १७७ ॥ भिक्षां तत्राऽपरां प्राप्य, भुक्त्वा च स पुरो व्रजन् ॥ प्राप वेण्णातटं पान्थ-शालायां तत्र चाखपीत् ॥ १७८ ॥ निशायाश्चान्तिमे यामे, पूर्णेन्दु निर्मलघुतिम् ॥ खमेऽपश्यन्मूलदेवः, प्रविशन्तं निजानने ॥ १७९ ॥ तदा कार्पटिको-ऽप्येकोऽद्राक्षीत्स्वप्नं तमेव हि ॥ विनिद्रः स तु पप्रच्छा-ऽन्येषां खप्नफलं ततः॥ १८० ॥ खमार्थ तस्य तत्रैव-मेकः कार्पटिकोऽवदत् ॥ मण्डकं साज्यमद्यत्वं, खण्डायुक्तं च लप्स्यसे ! ॥ १८१ ॥ स च कार्पटिकः प्राप, तावताऽपि परां मुदम् ॥ मूलदेवस्तु मूढानां, नो तेषां खप्नमब्रवीत् ॥ १८२॥ सोऽथ कार्पटिको लेभे, गेहाच्छादनकर्मणि ॥ यथोक्तं मण्डकं तथा-ऽन्येषां खेषां न्यवेदयत् ॥ १८३ ॥ प्रत्यूषे मूलदेवस्तु, गत्वोद्याने धिया निधिः ॥ मालिकं प्रीणयामास, कुसुमावचयादिना ॥ १८४ ॥ तुष्टस्तस्मै मालिकोऽपि, वरपुष्पफलान्यदात् ॥ तान्यादायाऽगमत्खन-शास्त्रकोविदधाम्नि सः ॥ १८५ ॥ नत्वा दत्वा च पुष्पादि, पाठकाय न्यवेदयत्॥मूलदेवो निजं खप्नं, सोऽपि हृष्टोऽब्रवीदिति ॥१८६॥ वत्स ! वक्ष्याम्यहं खप्न-फलं तव शुभे क्षणे ॥ अद्यातिथी भवास्माकं, सोऽपि तत्प्रत्यपद्यत ॥ १८७ ॥ ततस्तं स्लपयित्वा च, भोजयित्वा च सादरम् ॥ उपाध्यायोऽभ्यधावत्स !, कन्येयं परिणीयताम् ॥ १८८ ॥ मूलोऽवादीन्ममाज्ञात-कुलस्यापि निजां सुताम् ॥ तात ! दत्से कथं कारं, ततः सोऽप्येवमालपत् ॥ १८९॥ कुलं गुणाश्च ते वत्स !, मूत्यैव विदिता मया ॥ तदिमां मे सुतां सद्यः, पाणौ कृत्य कृतार्थय ! ॥ १९० ॥ इत्युक्त्वाऽध्यापकस्तस्मै, कन्यां दत्वैवमब्रवीत् ॥ सप्तरात्रान्तरे भावी, खनादस्मान्नृपो भवान् ! ॥ १९१ ॥ हृष्टस्ततो मूलदेव-स्तदावासे सुखं
१ मध्येसप्तदिनं भावी ॥ इति 'ग' संज्ञकपुस्तके ॥