________________
1| 10 ||
उत्तराध्ययनसूत्रम्
णुका ॥ तदा ममोपयुज्यन्त, इक्षवोऽमी असंस्कृताः ॥ १०८ ॥ अत्रैवार्थे मूलदेवोऽप्यादेष्टव्यो भुजिष्यया ॥ इयोंरपि तयोर्मात- विशेषो ज्ञायते यथा ।। १०९ ।। इत्युक्त्वा मूलदेवान्ते, प्रैषीत्सा माधवीलताम् ॥ साप्यस्ति देवदसाया, इक्षुश्रद्धेति तं जगौ ॥ ११० ॥ ततस्स पंचपानिक्षू - नादायापास्य तत्त्वचम् ॥ मुक्त्वा मूलाग्रपर्वाणि, धङ्गुला गण्डिका व्यधात् ॥ १११ ॥ कर्पूरवासितास्ताश्च चातुर्जातकसंस्कृताः ॥ शूलप्रोताः शरावान्तः, क्षिप्त्वा प्रेषीत्तदावृताः ॥ ११२ ॥ ताः प्रेक्ष्य मुदिता देव - दत्ताऽऽख्यज्जननीमिति ॥ अनयोरन्तरं पश्य, काचवैडूर्ययोरिव ! ॥ ११३ ॥ तदहं तद्गुणैरेव तस्मिन् रक्तास्मि नान्यथा ॥ अक्का दध्यौ नैनमेषा, त्यजत्यत्यन्तमोहिता ॥ ११४ ॥ करोम्युपायं तत्कञ्चिद्येनायं कामुकः स्वयम् || पुर्या निर्याति जाङ्गुल्याः, पाठेनेव गृहादहिः ॥ ११५ ॥ ध्यात्वेति शम्भली स्माहाऽचलं कैतवकोविदा ॥ ग्रामान्तरं गमिष्यामी - त्यलीकं ब्रूहि मे सुताम् ॥ ११६ ॥ तमाह्वास्यति धूर्त सा, ज्ञात्वा त्वामन्यतो गतम् ।। तदा भटैर्वृतः सज्जै-र्मत्सङ्केतात्त्वमापतेः ॥ ११७ ॥ धूर्त्ततामृगधूर्त्त च तं तथैवापमानयेः ॥ यथाभूयोऽत्र नागच्छे-त्सर्पधाञ्जीव मूषकः ॥ ११८ ॥ तत्स्वीकृत्याऽचलो देव - दत्तायै स्वं वितीर्यच ॥ ग्रामं यामीत्युदित्वा च, निरगात्तन्निकेतनात् ॥ ११९ ॥ निःशंका देवदत्ताऽथ, मूलदेवमवीविशत् ॥ अक्कावाचाऽचलोप्यागानत्र सत्रो द्भटैर्भटैः ॥ १२० ॥ तं चाऽऽयान्तं वीक्ष्य देव - दत्ता तस्मै न्यवेदयत् ॥ ततो भीतो मूलदेव - स्तल्पखाधो न्यलीयत ॥ १२१ ॥ शय्याधःस्थं च तं ज्ञात्वा, शम्भलीसंज्ञयाचलः ॥ तत्रोपविश्य पल्यङ्के, देवदत्तामिदं जगौ ॥ १२२ ॥ स्नास्याम्यहं देवदत्ते !, स्नानीयं प्रगुणीकुरु ॥ साऽवादीदासने तर्हि, नानार्हेऽत्रोपविश्यताम् ॥ १२३ ॥ स प्रोऽत्रैव पर्यङ्के -ऽभ्यक्तः स्त्रातश्च साम्बरः । खप्नेऽद्याऽहं स च खप्नो, भवेत्सत्यापितः श्रिये ॥ १२४ ॥ नास्याम्यहं तत्रैव तेनेत्युक्ते जगाद सा || स्वामिन्नेषमिदं हृद्यं, तूलिकादि विनंक्ष्यति ॥ १२५ ॥ अचलोऽप्यऽब्रवीत्तर्हि, दास्ये सर्वमितः शुभम् ॥ अक्काप्युवाच किं पुत्रि !, भर्तुरिष्टं करोषि न ॥ १२६ ॥ ततः परवशा देव-दत्ता दूनमना अपि ॥ अभ्यज्योद्वर्तयामास पर्यङ्कस्थितमेव तम् ॥ १२७ ॥ उष्णैः खलिजलाद्यैस्तं त्रपयामास सा ततः ॥ तल्पाघःस्थो मूलदेव -स्तैरभ्र्यित सर्वतः ॥ १२८ ॥ सोऽथ दध्यौ ममाप्यद्या -ऽऽपतितं व्यसनं महत् ॥ प्राणिनः प्राज्यरागस्य, किं वा दुःखं न सम्भवेत् । ॥ १२९ ॥ यतः – “देशत्यागं वहितापं, कुट्टनं च मुहुर्मुहुः ॥ रागातिरेकान्मंजिष्ठाऽप्यश्रुते किं पुनः पुमान् ! ॥ १३० ॥ तदिदानीमुपायं कं कुर्वे तिष्ठामि यामि वा ॥ दिग्मूढवदिति ध्यायंस्तत्रास्थाद्धूर्तराट् तदा ॥ १३१ ततोऽचलभटान् दृष्टि-संज्ञयाऽऽहूय कुट्टिनी ॥ तयैवाऽचलमादिक्ष-दूर्त्तो निष्काश्यतामिति ॥ १३२ ॥ ततस्तमचलो धृत्वा, केशपाशे समाकृषत् ॥ इति चोवाच रे ! ब्रूहि, शरणं तव कोऽधुना ? ॥ १३३ ॥ मया भूरितरैर्वित्तैः खीकृतां गणिकामिमाम् ॥ रिरंसोस्तेऽधुना ब्रूहि, कुर्वेऽहं कञ्च निग्रहम् १ ॥ १३४ ॥ मूलदेवोऽथ परितः, प्रेक्ष्य शत्रोटान् भटान् ॥ इति दध्यौ बलं कुर्वे, चेत्तदा जीवितं क मे १ ॥ १३५ ॥ निरायुधोऽहं कर्तव्यं, धैरनिर्यातनं च मे ॥ तद्बलावसरो नाय - मिति ध्यात्वेत्युवाच सः ॥ १३६ ॥ यत्तुभ्यं रोचते तत्त्वं, साम्प्रतं कुरु सत्वरम् ॥ तच्छ्रुत्वाऽचिन्तयत्सार्थ - पतिरित्यं महामतिः ॥ १३७ ॥ महापुरुष इत्येष, रूपेणैव निरूप्यते ॥ सुलभानि च संसारे, व्यसनानि सतामपि ! ॥ १३८ ॥ यदुक्तं – “कस्य स्यान्न स्खलितं, पूर्णाः सर्वे मनोरथाः कस्य ॥ कस्येह सुखं नित्यं, दैवेन न खण्डितः को वा १ ॥ १३९ ॥ " दैवादापदमापन्न - स्तन्नायं निग्रहोचितः ॥ विमृश्येत्यचलः प्रोचे, मूलदेवं महामनाः 1 ॥ १४० ॥ इतोऽपराधान्मुक्तोऽसि प्राप्तोप्येनां दशां मया ॥ तत्त्वयाप्युपकर्तव्य - मीडशे समये मम । ॥ १४१ ॥ तेनेत्युक्त्वा विमुक्तोसौ, सद्यो निर्गत्य तद्गृहात् ॥ पुरीबहिःस्थे सरसि, स्नात्वा वस्त्राणि धौतवान् ॥ १४२ ॥ दध्यौ चेत्युन्मना मायां कृत्वाऽनेनाऽस्मि वञ्चितः ॥ तदुपायं वैरशुद्धेः, कापि गत्वा करोम्यहम् ! ॥ १४३ ॥ ध्यायन्नित्यचलन्मूल- देवो वेण्णातटं प्रति ॥ तत्र मार्गेऽटवीं चैकां, प्राप द्वादशयोजनीम् ॥ १४४ ॥ विना सहायं दुष्प्राप-पारां तामवधारयन् ॥ सहार्य मार्गयन्मार्ग - मुखेऽटव्याः स तस्थिवान् ॥ १४५ ॥ तदा च सुन्दराकारः, शम्बलस्थगिकाधरः ॥ विप्रः कुतोऽपि टक्का - जातिस्तत्र समाययौ ॥ १४६ ॥ तुष्टस्ततोऽवदन्मूल- देवस्तमिति सादरम् ॥ कियद्दूरं क च ग्रामे, गन्तव्यं ते द्विजोत्तम । ॥ १४७ ॥ द्विजो जगाद यास्यामि, कान्तारात्परतः स्थितम् ॥ ग्रामं वीरनिधानाख्यं ब्रूहि व त्वं गमिष्यसि १ ॥ १४८ ॥ धूर्तोऽभ्यधत गन्तव्यं मम वेण्णातटे पुरे ॥ द्विजोऽवादीत्तदाऽऽगच्छा-तिगच्छावो यथाऽटवीम् ॥ १४९ ॥ तौ ब्रजन्तो वने मध्यं - दिने पल्वलमामुताम् ॥ क्षणं विश्रम्यतामत्रे -त्यूचे तत्राऽपरं द्विजः ॥ १५०॥ ततः प्रक्षाल्य वदन - पाणिपादादि