________________
उत्तराप्ययनसूत्रम् प्रदर्शय ॥ ६४ ॥ इत्थं तया सनिर्बन्ध-मुदितो मुदितोऽथ सः ॥ आकृष्य गुटिका रूप-विपयेयकरी मुखात् ॥६५॥ नवयौवनलावण्य-मञ्जुलं स्मरजित्वरम् ॥ आविश्चक्रे निजं रूपं, जगजनमनोहरम् ॥६६॥ [ युग्मम् ] ततस्तं रक्चकोरैक-चन्द्रं लवणिमोदधिम् ॥ वीक्ष्य हर्षोल्लसद्रोम-हर्पोचैः सा विसिष्मिये ॥ ६७ ॥ प्रसादो मे महांश्चक्रे, युष्मामिरिति वादिनी ॥ देवदत्ता वितेनेऽथ, तदङ्गाभ्यंगमात्मना ॥ ६८ ॥ अथ द्वावपि तो लात्वा, व्यवत्तां सह भोजनम् ॥ देवदूष्ये ततो देव-दत्तादत्ते स पर्यधात् ॥ ६९ ॥ ततो विदग्धगोष्ठी तौ, क्षणं रहसि चक्रतुः ॥ मूलदेवं तदा देव-दत्तैवमवदन्मुदा ॥ ७० ॥ परो लक्षा नरा दक्षा, महात्मन् ! पीक्षिता मया ॥ न तु त्वामन्तराऽन्येन, इतं केनापि मे मनः ! ॥ ७१ ॥ यतः-"नयहिं को न दीसइ, केण समाणं न होंति उल्लावा ॥ हिअयाणंदं जं पुण, जणयइ तं माणुसं विरलं ॥ ७२ ॥" किञ्च-"भवन्ति सगुणाः केऽपि, कुरूपा मृगनाभिवत् ॥ इन्द्रवारुणवत्केऽपि, रूपवन्तोऽपि निर्गुणाः ॥ ७३॥ ये तु मन्दारवद्रूप- वन्तः सारगुणान्विताः ॥ ते चिन्तामणिवत्पृथ्व्यां, दुर्लभाः स्युर्भवादृशाः ! ॥ ७४ ॥" नाथामि तदहं नाथ !, नाऽथ कार्या विचारणा ॥ यथा स्थितोऽसि मञ्चित्ते, तथा स्थेयं ममालये ॥ ७५ ॥ सोऽथाऽवादीदयि ! द्रव्य-हीने वैदेशिके मयि ॥ प्रतिबन्धो न ते युक्तो, भ्रमर्या इव किंशुके ! ॥ ७६ ॥ सर्वेपामपि जन्तूनां, प्रेम स्यात्सधने जने ॥ अर्थमात्रैषिणां वेश्या-जनानां तु विशेषतः !॥ ७७ ॥ गुणानुरागागणिका, यदि स्यान्निर्धने रता ॥ तदा छुपार्जनाभावा-त्सीदेत्तस्याः कुलं सदा ! ॥ ७८ ॥ वेश्या स्माह गुणज्ञानां, प्रेम्णो मानसजन्मनः ॥ धनं निबन्धनं न स्या-गुणाः किन्तु निबन्धनम् ॥ ७९ ॥ धनं हि बाह्यमिभ्यास्तबहिरेव स्पृशन्ति नः ॥ चित्ते तु त्वादशा एव, प्रविशन्ति कलाधनाः । ॥ ८०॥ यतः- "सजनानां वचो द्रव्यमासादतिरिच्यते ॥ स्निग्धं चालोकितं लक्षा-सौहार्द कोटितस्तथा ॥८१ ॥ खदेशः परदेशश्चा-ऽन्येषां न त कलावताम् ॥ सकलो हि शशीव स्या-पूजनीयो जगत्रये ॥ ८२ ॥" तदन्वहं त्वयाऽवश्य-मागन्तव्यं ममौकसि ॥ सनिर्बन्धं तयेत्युक्तः, प्रतिपेदे स तद्वचः ॥ ८३॥ ततो मिथोऽनुरक्तौ तौ, तुल्यचातुर्यशालिनौ ॥ चिरं चिक्रीडतुः खैरं, करेणुकरिणाविव ॥ ८४ ॥ देवदत्ताऽय नृत्यार्थ-माहूता राजवेत्रिणा ॥ मूलदेवं सहादाय, ययौ पार्थिवपर्षदि ॥ ८५॥ उद्दामकरणं तत्र, नाटकं निर्ममे च सा ॥ पटहं वादयस्ता चा-ऽनर्तयर्तनायकः ॥ ८६ ॥ वीक्ष्य तं नाटककान्त, भूकान्तो विस्मिता भृशम् ॥ याचख बरामत्यूचं, न्यासाचक्र तया तु सः॥८७॥ गाढप्रेमा ततो मूल-देवे देव इवाप्सराः ॥ देवदत्ता समं तेन, सौख्यमन्वहमन्वभूत् ॥ ८८ ॥ मूलदेवस्तु तत्रापि, न धूतव्यसनं जहाँ ॥ ततस्तं देवदत्तैव-मूचे सानुनयं रहः ॥ ८९॥ कलङ्कस्त्वादृशां घूतं, वैरस्वमिव वारिधेः॥ तदिदं व्यसनं श्रीणां, भ्यसनं मुश्च वलभ ! ॥९०॥ तयेत्युक्तोऽपि नाऽत्साक्षी-मूलदेवस्तु देवनम् ॥ दुस्त्यजं व्यसनं प्रायो, विशां गुणवतामपि ! ॥९१ ॥ तस्यां पुर्या सार्यवाहो-ऽचलाहोऽभून्महाधनः ॥ स तु पूर्व मूलदेवा-देवदत्तारतोऽभवत् ॥९२ ॥ ययत्साठमार्गयत्तत्त-त्सोऽदात्तखै धनादिकम् ॥ प्राणानपि जनो रागी, दत्ते वित्तस्य का कथा ! ॥९३॥ तत्राऽऽ. बान्तं मूलदेवं, ज्ञात्वा सोऽन्तः कुषं दधी ॥ रोषः स्यात्प्राणिनां प्रायः, एकद्रव्याभिलाषिणाम् ! ॥ ९४ ॥ छिद्राणि मूलदेवस्था-ऽन्वेषयामास सोऽन्यहम् ॥ तकिया न ययौ तस्याः, सोधे धूर्ती विना छलम् ॥ ९५॥ अथोचे देवदत्तां त-न्माना कैतवसेवधिम् ॥ कितवं मूलदेवाई, निद्रव्यं मुश्च नन्दने ! ॥९६ ॥ भूरिवित्तप्रदे नित्य-मचले निचला भव ॥ एकत्र कोशे द्वौ खगो,न हि मातः कदाचन !॥९७ ॥ देवदत्ताऽब्रवीन्मातः!, केवलं धनरागिणी ॥ नास्म्यहं किन्तु मे भूयान्, प्रतिबन्धो गुणोपरि ! ॥९८ ॥ क्रोधामाताऽवदन्माता, धूर्ते स्युस्तत्र के गुणाः १॥ देवदत्ता ततोऽवादी-सदणाक्षिप्तमानसा ॥९९ ॥ दक्षो दाक्षिण्यवान धीरः, कलावेदी प्रियंवदः ॥ दाता विशेषविचार्य, तत्रैवाऽमुं जहाम्यहम् ॥१०॥ ततः सा कुहिनी कोपा-विष्टा दुष्टा निजागजाम् ॥ प्रतिबोधयितुं नैकान्, दृष्टान्तानित्यदीशत् ॥१०१॥ सा यावकेऽर्थितेऽदातं, नीरसं दारु चन्दने ॥ माल्ये निर्माल्यमिक्षौ च, तत्प्रान्तं नीरमासवे ॥१०२॥ किमेतदिति सा पुत्र्या, पृष्टा चैवमयोचत ॥ इदं याप्रियस्तेऽसौ, तारक्तं मुञ्च तद्रुतम् ॥१०३॥ देवदत्ताऽभ्यधान्मातः!, परीक्षामविधाय किम् ॥ तमेतत्सममाख्यासि, मूर्यो मणिमिवोपलम् १ ॥१०॥ परीक्ष्यतामयं तर्हि, जनन्येत्युदिता सुता ॥ इथून प्रार्थयितुं दासी, प्राहिणोदचलान्तिके ॥१०५॥ देवदत्ता याचते त्वा-मिथुनिति तयोदितः ॥ इक्षुमिः शकटं भृत्वा-ऽचलः प्रेषीत्प्रमोदतः ॥ १०६ ॥ तदृष्ट्वाऽकाऽवदत्पश्या-ऽचलसौदार्यमद्भुतम् ॥ प्रैषीन्मानातिगानिक्षन् , कल्पवृक्ष इवाशु यः ॥१०७ ॥ ततः सुता जगौ मात-र्यद्यहं स्यां करे