________________
उपराप्ययनसूत्रम् गच्छाम्मन्निकेतनम् ॥२१॥ मूलदेवोऽवदत्कुम्जे !, नागमिष्यामि तद्गहम् ॥ गणिकाजनसङ्गो हि, निषिद्धो बुद्धिशालिनाम् ॥ २२ ॥ यदुक्तं-"या विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरताऽतिनिकृष्टा ॥ कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिकां न विशिष्टाः ॥ २३ ॥" तेनेत्युक्ताऽपि सा चाटु-शतैरावज्र्य तं भृशम् ॥ सनिर्बन्धं करे वृत्वा-ऽचीचलन्निलयं प्रति ॥ २४ ॥ सोऽथ गच्छन् पुरो यान्ती, कुब्जामास्फाल्य तां रयात् ॥ कलायाः कौशलाविद्या-प्रयोगाच व्यधाहजुम् ॥ २५ ॥ ततस्मविस्मयानन्दा, सा तं प्रावीविशद्गृहे ॥ देवदत्ताऽपि तं प्रेक्ष्य, बभूवाऽऽमोदमेदुरा ॥ २६ ॥ वामनस्याऽपि सा तस्य, वीक्ष्य लावण्यमद्भुतम् ॥ विस्मिता विष्टरे तुझे, गौरपातं न्यवीविशत् ॥ २७ ॥ ततस्तया कुजिकया, दर्शयन्त्या निजं वपुः ॥ प्रोक्ते तचेष्टिते देव-दत्ता देवं विवेद तम् ॥२८॥ वैदग्ध्यगर्भेरालापैः, कुर्वन् गोष्ठी तया समम् ॥ मूलदेवो मनस्तस्याः, खयशं विदधे द्रुतम् ॥ णयकुसलं परिहा-सपेसलं लडहवाणिदुललिअं॥आलवणंपि हु च्छेआ- ण कम्मणं किं च मूलीहिं ? ॥३०॥" अथैको वैणिकस्तत्रा-ऽऽययौ वीणाविशारदः ॥ आदेशाद्देवदत्तायाः, सोऽपि वीणामवीवदत् ॥ ३१ ॥ तामाकर्ण्य प्रमुदिता, देवदत्तवमब्रवीत् ॥ माधु साधु त्वया वीणा, वादिता वरवैणिक ! ॥ ३२ ॥ स्मित्वाऽथ वामनः प्रोचे-ऽवन्तीलोकोऽखिलोप्यहो॥शुभाशुभविभागं द्राग, वेत्ति कामं विचक्षणः !॥३३॥ देवदत्ता तदाकण्य तम् ॥ महात्मन् ! किमिह क्षुण्णं, विद्यते यद्वदस्यदः १ ॥ ३४ ॥ सोऽवादीकिमपि न्यूनं, घर्तते न भवान्शाम् ॥ किन्तु वंशः सशल्योऽय-मस्ति तत्री च गर्भिणी ॥ ३५ ॥ विद्वन् ! कथमिदं ज्ञेय-मित्युक्ते देवदत्तया ॥ सोऽप्येसहर्शयामीति, वदन् वीणामुपाददे ॥ ३६ ॥ तंत्र्याः केशं दृषत्खण्ड, वंशाचाकृष्य दत्तवान् ॥ तां चाशु प्रगुणीकृत्य, खयं वीणामवादयत् ॥ ३७ ॥ व्यक्तग्रामखरां प्राम-रागसङ्गमम लाम् ॥ अतुच्छमूर्छनां लोफ-कर्णपान्थसुधाप्रपाम् ॥ ३८॥ मजुघोषवतीं घोष-वतीमाकर्ण्य तां रयात् ॥ देवदत्ता सतत्रासी-त्परतश्रमना भृशम् ! ॥ ३९ ॥ [युग्मम् ] करेणुरेका पूत्कार-शीलाऽभूत्तद्गृहान्तिके ॥ तद्वीणाकणितं श्रुत्वा, साऽपि तूष्णीकतां दधौ! ॥४०॥ देवदत्ता ततः स्नेहो-दञ्चद्रोमोद्माऽवदत् ॥ अहो! विदग्ध ! वैदग्ध्य-मिदं ते जगदुत्तमम् ॥४१॥ विपश्चीवादने दक्षा, वाणीतुम्बुरुनारदाः ॥ गीयन्ते ये बुधैर्विश्वे, ते विश्वेऽपि जितास्त्वया ॥४२॥ वैणिकोऽपि तदा नत्वा, तस्य पादाबदोऽवदत् ॥ विपञ्चीवादनं सद्यः, प्रसद्य मम शिक्षय ॥ ४३ ॥ धूर्त्ताधिपोऽभ्यधान्नाहं, सम्यग्जानामि वलकीम् ॥ अस्ति किन्तु दिशि प्राच्यां, पाटलीपुत्रपत्तनम् ॥४४॥ तत्र विक्रमसेनाहः, कलाचार्योऽस्ति धीनिधिः ॥ मल. देवोऽहश्च किञ्चि-द्वीणां विद्वस्तदाश्रयात् ॥ ४५ ॥ विपञ्चीवादनानाय, सम्पूर्ण तु त एव हि ॥ कलयन्ति कलाकेलि-निलयाः कुशलोत्तमाः! ॥ ४६ ॥ नाट्याचार्योऽथ तत्राऽऽगा-द्विवभूतिर्महामतिः ॥ वामनायावदहेव-दत्ता तं भरतोपमम् ॥४७॥ मूलदेवोऽब्रवीदेत-च्छिक्षितायाः पुरस्तव ॥ अस्त्ययं भरतः किन्तु, विशेषो ज्ञास्यतेऽधुना ॥४८॥ विचारं भारतं तस्या-प्राक्षी धिपस्ततः ॥ विश्वभूतिस्तु तं मूढो-ऽवमेने वामनत्वतः ॥ ४९ ॥ ततः स तस्य भरत व्याख्यां खैरं वितन्वतः ॥ पूर्वापरविरोधाख्यं, दोषं तत्रोदभावयत् ॥ ५० ॥ उवानानुचितं किञ्चि-द्विश्वभूतिस्ततो रुषा ॥ सोपहासं शशंसैवं, मूलदेवोऽपि तं तदा ॥५१॥ रङ्गाचार्याङ्गनाखेव, त्वमेवं नाटयः कुधम् ॥ न त्वन्यत्रेति तेनोक्ते, हीणो मौनं बभार सः ॥ ५२ ॥ देवदत्ताऽथ तं खर्व, पश्यन्ती स्निग्ध्या दृशा ॥ विश्वभूतेर्विलक्षत्व-मपनेतुमदोऽवदत् ॥ ५३॥ भवन्तो नाधुना वस्थाः, सन्ति कार्याकुलत्वतः ॥ ततो विमृश्य वक्तव्यः, प्रश्नस्यार्थः क्षणान्तरे ! ॥ ५४ ॥ जायते नाट्यवेला त-हेवदत्ते ! व्रजाम्यहम् ॥ एवं वदंस्ततो विश्व-भूतिस्तस्था गृहाद्ययौ ॥ ५५ ॥ देवदत्ताऽथ सम्मान्य, वैणिकं विससर्ज तम् ॥ भोजनावसरे जाते, चेटिकां चैवमभ्यधात् ॥ ५६ ॥ आहूयतामङ्गमर्दः, कोऽपि स्रानार्थमावयोः ॥ उवाच खर्वः कुर्वेह-मभ्यङ्गं ते यदीच्छसि ! ॥ ६७ ॥ देवदत्ताऽवदहक्ष !, त्वमतदपि वेत्सि किम् ? ॥ सोवादीद्वेमि नो किन्तु, तज्ज्ञपार्श्वे स्थितोम्यहम् ॥ ५८ ॥ दास्यानीतं गृहीत्वाऽथ, पक्कतैलं स वामनः ॥ प्रारेभेऽभ्यअनं तेन, वशीचक्रे च तन्मनः ॥ ५९ ॥ अहो ! सर्वकलादाक्ष्यं, पाणिस्पर्शोप्यहो ! मृदुः ॥ तत्सर्वथा न सामान्यः, किन्तु सिद्धपुमानसौ ॥ ६० ॥ प्रकृत्येशरूपस्य, न स्युरेतादृशा गुणाः ॥ प्रच्छन्नं रूपमेतम्य, तत्प्रादुप्कारयाम्यहम् ॥ ६१ ॥ देवदत्तेति सञ्चिन्त्य, तत्पादाने प्रणम्य च ॥ इत्युवाच गुणैग्व, ज्ञातं ते रूपमद्धनम् : ॥ १२॥ दक्षो दाक्षिण्यवान् सिद्ध-पुमानाश्रितवत्सलः ॥ महाभागश्च मे ख्यातस्त्वं गुणेरेव ताशेः॥६३॥ तत्ते खाभाविक रूपं. द्रष्टमत्कण्ठते मनः॥ त्यक्त्वा मायामिमां कृत्वा, कृपा तन्म