________________
उत्तराप्ययनसूत्रम्।
भावादथवा स सर्वान् , स्तम्भान् विजित्यापि लभेत राज्यम् ॥ प्रमादतो नष्टमनुष्यजन्मा, प्राप्नोति जन्तुर्न पुनर्नरत्वम् ! ॥ २१ ॥ इति द्यूतदृष्टान्तश्चतुर्थः ॥ ४ ॥ अथ रवदृष्टान्तः, तथा हि
पुरे धनसमृद्धेऽभू-द्धनदाह्रो पणिग् जरी ॥ प्रभूतरत्नकोटीना, प्रभुः प्रभुरिवाम्भसाम् ॥ १॥ उदारं व्यवहारं च, कारं कारं सदापि सः॥ उपार्जितैरपि धनैर्यत्नाद्रनान्युपाददे ॥ २॥ धनदः स्वधनं तच्च, नैव कस्याप्यवोचत । आयुर्वित्तं गृहच्छिद्रं, नो वाच्यमिति चिन्तयन् ॥ ३॥ विश्वासं खीयपुत्राणा-मप्यकुर्वन् दिवानिशम् ॥ निधानमिव भोगीन्द्र-स्तं रनौघं ररक्ष सः ! ॥ ४ ॥ अपरेऽपि पुरे तत्र, भूयांसो धनिनोऽभवन् ॥ अनेकधनकोटीनां. वा. मिनो धनदोपमाः ॥ ५ ॥ ते च स्वीयेपु सौधेपु, पताकाः कोटिसंमिताः ॥ खैरमुत्तम्भयामासु-र्नानावर्णविराजिताः ॥६॥ वेलद्भिस्तै_जैस्तेपां, मुधाशुद्धा वभुहाः॥ हिमाद्रिशिखराणीव, सन्ध्याभ्रः पयनेरितः ॥ ७ ॥ धनदस्तु ध्वजं नैवो-त्तम्भयामास कर्हिचित् ॥ न श्रीणामनुसारेण, वेषादिकमपि व्यधात् ! ॥ ८ ॥ ततो महत्वमिच्छन्तः, सुतास्तस्येत्यचिन्तयन् ॥ रोरवचेष्टते रन-व्रजे सत्यपि नः पिता ! ॥९॥ रत्नविक्रयणोत्पन्न-धनकोटीमितानसौ ॥ ध्वजानपि निजे गेहे, नैवोत्तम्भयति क्वचित् ! ॥ १०॥ तदयं जातयामश्चे-द्याति क्वापि तदा वयम् ॥ रत्नानि तानि विक्रीय, ध्वजानुत्तम्भयामहे ॥ ११ ॥ व्यापारार्थमथान्येधु-वृद्धे देशान्तरं गते ॥ प्रारंभिर ते रत्नानां, विक्रय प्रीतचेतसः ॥ १२ ॥ तेभ्यो मूल्यानभिज्ञेभ्य-स्तानि देशान्तरागताः ॥ रखानि जगृहुर्यत्त-न्मूल्यं दत्वा वणिग्जनाः ॥ ॥ १३॥ तेन रनौघलाभेन, हृष्टास्ते पणिजां प्रजाः ॥ जग्मुः पारसकूलादी-निजदेशान् द्रुतं द्रुतम् ! ॥ १४ ॥ रनविक्रयसात-वित्तकोटिमितान् ध्वजान् ॥ सोत्सवं तत्सुताः खीय- सौधेऽध्यारोपयंस्ततः ॥१५॥ युद्धोऽथ गेहमायातः, श्रुत्वा रत्नायविक्रयम् ॥ पताकाश्च प्रेक्ष्य दुःखं, मानसेऽमानमानशे ॥ १६ ॥इत्यूचे च सुतान् कोप-कम्प्रकायोरुणेक्षणः ॥ रे लक्ष्मीकन्दकुद्दालाः !, यूयं निर्यात मद्गृहात् ॥ १७ ॥ तानि विक्रीतरत्नानि, समानीयाऽखिलान्यपि ॥ ममौकसि प्रवेष्टव्यं , युष्माभिर्नान्यथा पुनः ! ॥ १८॥ इति तेनोदितास्तस्य, तनया विनयान्विताः ॥ प्रत्याशमभ्रमन् रत्न-प्राप्तिं प्रत्याशयाकुलाः ॥ १९ ॥ अन्यान्यदेशवास्तव्य-वणिजां दत्तमुत्तमम् ॥ परं ते पर्यटन्तोऽपि, तं रत्नाघं न लेभिरे ॥ २०॥ मरुन्महिम्ना यदि वाऽश्नुवीरं-स्तं रत्नराशि धनदस्य पुत्राः ॥च्युतो नरत्वात्कृतपापकर्मा, नरोधिगच्छेन्न तु मानुपत्वम् ! ॥ २१ ॥ इति रत्नदृष्टान्तः पञ्चमः ॥ ५ ॥ अथ स्वप्नदृष्टान्तः, तथा हिअभृद्भभामिनीभाले, क्षेत्रे भरतनामनि ॥ गौडदेशो जातरूप-तिलकश्रियमाश्रयन् ॥ १॥ तत्रासीत्पाटलीपुत्रं,
रोपमम् ॥ मूलदेवो राजपुत्र-स्तत्राऽभूद्वपमन्मथः ॥ २॥ उदारचित्तः सकल-कलाशाली प्रियंवदः ॥ - तज्ञो नकविज्ञान-विज्ञो विमलधीनिधिः ॥ ३॥ शूरः प्रतिज्ञानिर्वाही, धूर्त्तविद्यैकसेयधिः ॥ सोऽभूदुचितविहीनानाथवन्धुर्गुणप्रियः ॥ ४ ॥ [ युग्मम् ] तस्करद्यूतकारादिः, साधुप्राज्ञाधिकोऽथवा ॥ यो यो मिमेल ताप्यं, स मेजे स्फटिकाश्मवत् ॥५॥ कुतूहलैर्नवनवै- मानवान् विस्मयं नयन् ॥ वृत्तो मित्रैः पुरे तत्रा-ऽचरत् खेचरवच सः ॥ ६ ॥ तत्राशेषगुणाढ्येऽपि, द्यूतव्यसनमुत्कटम् ॥ अभूत्सर्वकलापूर्णे, शशाङ्क इव लाञ्छनम् ॥ ७ ॥ पित्रादिभिनिषिद्धोऽपि, द्यूतासक्तिं स नामुचत् ॥ व्यसनं हि विशां प्रायो, दुस्त्यजं स्यात्खभावयत् ! ॥ ८॥ ततोऽसौ व्यसनासक्त, इति पित्रा तिरस्कृतः ॥ मानान्निजपुरं हित्वा, भ्रमन्नजयनीं ययौ ॥९॥ गुलिकायाः प्रयोगाच, तत्र वामनरूपभृत् ॥ कलाभिर्वहुभिर्लोकान् , रअयन् विश्रुतोऽभवत्॥ १० ॥ रूपलावण्यविज्ञान-कलाकौशलशालिनी ।। तत्रासीदेवदत्ताहा, वेश्या वर्ग इवोर्वशी ॥ ११॥ तां सर्वोत्कृष्टसकल-कलाकौशलगर्विताम् ॥ कलाभिर्विस्मयं नेतुं न दक्षोऽपि क्षमोऽभवत् ॥ १२ ॥ लोकेभ्यस्तत्स्वरूपं त-न्मूलदेवो निशम्य ताम् ॥ दिदृक्षामास दक्षो हि, दक्षमन्य दिक्षते ॥ १३ ॥ ततो निशान्ते गत्वा स, तन्निशान्तस्य सन्निधौ ॥ वामनस्तन्मनो हाँ, गीतं गातुं प्रचक्रमे ॥१४॥ तद्गीतं स्फीतमाको -दश्चद्रोमाञ्चकक्षुका ॥ देवदत्ताऽभवद्भरि- सुधापूरैरिवार्द्रिता ॥ १५ ॥ गीतेन तेन हलोहाकर्षायस्कान्तवन्धुना ॥ कुरङ्गीवाकृष्टचित्ता, सा तन्वङ्गीत्यचिन्तयत् ॥ १६ ॥ अहो ! अश्रुतपूर्वासी, गीतिरस्यातिबन्धुरा ॥ तद्गातासौ न सामान्यो, नरः किन्तु नरोत्तमः ! ॥ १७ ॥ ध्यात्वेति चेटिकामेकां, सा प्रैपीत्तं समीक्षितुम् ॥ साऽपि तं वामनं वीक्ष्या-ऽऽगता तामित्यभाषत ॥ १८ ॥ गन्धर्वो वामनाकारः, कोऽपि स्वामिनि ! गा. यति ॥ कुरङ्गमदवद्रूप-मन्तरापि मनोहरः ॥१९॥ तदाकर्ण्य तमाह्वातुं, प्रैपीन्माधविकाभिधाम् ॥ कुम्जां दासी देवदत्ता, साऽपि गत्वेति तं जगौ ॥ २०॥ अस्माकं स्वामिनी देव-दत्ता विज्ञपयत्यदः ॥ कलानिध ! प्रसीद त्व-मा