________________
॥ ६६ ॥
उत्तराध्ययनसूत्रम् ।
मात्कोष्ठा - गारपूरणसंमितान् ॥ १५१ ॥ इत्यादाय श्रियं तेभ्यो ऽपरादपि जनवजात् ॥ द्रव्यमादातुमकरो - थाणक्यो यन्त्रपाशकान् ॥ १५२ ॥ केप्याहुर्देवतादत्ता, देवनास्तस्य तेऽभवन् । ततः स स्थालमापूर्य, दीनारश्वत्वरे ययौ ॥ १५३ ॥ इत्यूचे च जनान् यो हि, द्यूते जयति मां जनः ॥ तस्मै ददामि नियतं दीनारानखिलानमून् ॥ १५४ ॥ जेष्यामि यद्यहं तर्हि, ग्रहीष्ये निष्कमेककम् ॥ तच्छ्रुत्वारेभिरे रन्तुं लुब्धास्तेन समं जनाः ॥ १५५ ॥ द्यूतक्रीडासु दक्षोऽपि, विजेतुं तं न कोपि हि ॥ अलंभूष्णुरभूत्तेषां पाशकानां प्रभावतः ॥ १५६ ॥ पाशकैः सम्पदापाशै- स्तैर्नि जेच्छानुवर्त्तिभिः ॥ विजित्य लोकांश्चाणक्यः, स्वर्णैः कोशमपूरयत् ॥ १५७ ॥ तं तु निर्जेतुमपरा - त्पुरादेरागता अपि ॥ स्वर्णमेव ददुस्तस्मै, न तु कोऽपि जिगाय तम् ॥ १५८ ॥ दिव्यानुभावादिबलेन यद्वा, जीयेत केनाऽपि स धीसखोऽपि ॥ प्रमादतो हारितमर्त्यजन्म, जन्मी पुनर्नो लभते नरत्वम् ॥ १५९ ॥ इति पाशकदृष्टान्तो द्वितीयः ॥ २ ॥ अथ धान्यदृष्टान्तः
तथा हि भरतक्षेत्रे, विशाले शालिलक्ष्मीभिः ॥ द्वात्रिंशता सहस्रैः सद्विषयैः शोभितेऽभितः ॥ १ ॥ अनेकनगरग्राम- पत्तनादिविराजिते ॥ प्रशस्तायां मेघवृष्टी, संपन्नायां घनागमे ॥ २ ॥ सर्वधान्येषु चोप्तेषु, कृषिदक्षैः कृषीवलैः ॥ तन्निष्पत्तौ प्रकृष्टायां, जातायां निरुपद्रवम् ॥ ३ ॥ बहुभेदानि धान्यानि, प्रधानानि भवन्ति हि ॥ समग्रजन्तुजी - बातु-कल्पानि सरसानि च ॥ ४ ॥ [ चतुर्भिः कलापकम् ] तथा हि- “शालिगोधूमचनक - मुद्रमाषतिलाणुकाः ॥ राजमाषयवत्रीहि- कला यक्कंगुकोद्रवाः ॥ ५ ॥ मकुष्टकाढकीवल्ल - कुलत्थशणचीनकाः ॥ युगन्धरीमसूरौ चा - ऽतसीकलमषष्टिकाः ॥ ६ ॥” इत्यादीन् सस्यराशींस्तान्, भरतक्षेत्रमध्यगान् ॥ संमील्य रचयेत्कोऽपि, पुअमभ्रलिहं सुरः ॥ ७ ॥ सर्पपप्रस्थमेकं च, तत्र क्षिप्त्वा करम्बयेत् ॥ तान् सर्पपान् पृथक्कर्तु-मेकां वृद्धां समादिशेत् ॥ ८ ॥ जरती सा जराकम्प्र - करा शूर्पकधारिणी ॥ विगलल्लोचना भूरि-विलोलवलिवल्लरी ॥ ९ ॥ विविच्य धान्यराशींस्तान्, पिण्डितानखिलानपि ॥ तैरेव सर्पपैः प्रस्थं, किं भूयोऽपि प्रपूरयेत् ? ॥ १० ॥ [ युग्मम् ] दिव्यप्रभावाद्यदि वा कदाचि - द्विवेचयेत्तानपि सर्पपान् सा ॥ च्युतो नरत्वान्न तु पापकर्मा, जनः पुनर्विन्दति मर्त्यजन्म ! ॥ १ ॥ इ धान्यदृष्टान्तः ॥ ३ ॥ अथ द्यूतदृष्टान्तः, तथा हि
अभूत्पुरे रत्नपुरे, नृपो नाम्ना शतायुधः ॥ तस्य चैको युवाऽवाप्त - यौवराज्यः सुतोऽभवत् ॥ १ ॥ स चेत्यालोचयामासा—ऽन्यदा मित्रादिभिः समम् ॥ अद्य तातं निहत्याहं, स्वयं राज्यमुपाददे ! || २ || आलोचन्तं च निपुणो, ज्ञात्वाऽमात्यः कथञ्चन ॥ राज्ञे व्यज्ञपयत्सोऽपि तन्निशम्येत्यचिन्तयत् ॥ ३ ॥ असम्भाव्यमिदं तात - मपि यन्मारयेत्सुतः ! ॥ शशाङ्कः शोपयेद्वा-र्द्धिमिति हि श्रद्दधीत कः ? ॥ ४ ॥ लोभावेशाकुलो यद्वा, कुग्रहग्रस्तवज्जनः ॥ नैव कार्यमकार्य वा, निडो वेत्ति किञ्चन ! ॥ ५ ॥ यदुक्तं - "नोवेक्खर कुलजाई, पेम्मं सुकयं च गणइ न य अयसं ॥ लुद्धो कुणइ अकजं, मारइ पहु बंधु मित्तंपि ! ॥ ६ ॥ " तदेष पुत्रो यावन्मां, लोभग्रस्तो न मारयेत् ॥ तावत्स्वरक्षणोपायं, सद्यः कञ्चित्करोम्यहम् ॥ ७ ॥ विमृश्येति महाबुद्धिः, प्रणामायागतं सुतम् ॥ इति प्रोवाच तद्भाव -मविदन्निव भूधवः ॥ ८ ॥ राज्यभारपरिश्रान्तो, राज्यं ते दित्सुरप्यहम् ॥ स्वकीयकुलमर्यादां, नोलयितुमुत्सहे ॥ ९ ॥ अतिक्रामन् हि मर्यादा - माचीर्णा पूर्वपूरुषः ॥ शलभोग्निमिवोल- मानो विपदमश्रुते ! ॥ १० ॥ कुप्येत्कुलाधिदेवी च, मर्यादोलकाय तत् ॥ समाकर्णय तां राज्य - सुखभूरुहसारणीम् ॥ ११ ॥ उल्लङ्घयानुक्रमं राज्य–मभिकांक्षति यः सुतः ॥ जनको वा स्वयं यस्मै, राज्यं दातुं समीहते ॥ १२ ॥ स चेत्सुतो जयेत्तातं द्यूते राज्यं तदाऽश्रुते ॥ तत्र द्यूते यया रीत्या, जेयं सा श्रूयतां त्वया ॥ १३ ॥ अस्यां सभायां स्तम्भानां वर्त्ततेऽष्टोत्तरं तम् ॥ अश्रयोऽपि प्रतिस्तंभं वर्तन्तेऽष्टोत्तरं शतम् ॥ १४ ॥ तत्रैकेनैव दायेन, दीव्यन् यदि निरन्तरम् ॥ अष्टतरशतं वारान् द्यूते जयति मां भवान् ॥ १५ ॥ अश्रिरेका तदा स्तम्भ - स्यैकस्य विजिता भवेत् ॥ एवं साष्टशताश्रीणां जये स्तम्भो भवेजितः ॥ १६ ॥ इत्थमष्टोत्तरशत-स्तम्भानां विजये कृते ॥ राज्यं तवार्पयिष्यामि, सत्वरं नात्र संशयः ॥ १७ ॥ किञ्चैकवारमप्यत्र, हारिते सकलं जितम् ॥ यात्येव सकृदप्यन्य - खीसङ्गे ब्रह्मचर्यवत् ॥ १८ ॥ इत्याकर्ण्य पितुर्वाक्यं, भूपभूरित्यचिन्तयत् ॥ द्यूताचेल्लभ्यते राज्यं, को हन्याजनकं तदा १ ॥ १९ ॥ ध्यात्वेति स समं राज्ञा, द्यूतक्रीडां प्रचक्रमे ॥ विजित्य निखिलान् स्तंभा न तु राज्यमविन्दत ॥ २० ॥ सुरानु