________________
उत्तराप्ययनसूत्रम् वीक्ष्य खनन्दनां नन्दो, निरानन्दोऽब्रवीदिदम् ॥ १०८ ॥ हे पुत्रि ! यद्यसौ सौम्यो, रोचते ते युवा तदा ॥ आश्रयामुं द्रुतं राज-पुत्र्यो हि स्युः स्वयंवराः ॥ १०९ ॥ याहि याहि त्वदुद्वाह-चिन्तया सह सत्वरम् ॥ तेनेत्युक्ता मृगाक्षी सा, रथादुदतरत्ततः ॥ ११०॥ चन्द्रस्य च रथे याव-त्साऽऽरोढुमुपचक्रमे ॥ दैवात्तावदभज्यन्त, द्रुतं तस्यारका नव ॥ १११ ॥ अमङ्गलकरीं तां च, ज्ञात्वा चन्द्रो न्यवारयत् ॥ चाणक्यस्तं ततोऽवादी-द्वत्सेमां मा निषेधय ॥ ११२ ॥ यदनेन निमित्तेन, सुन्दरोदर्कवादिना ॥ पुरुषान्नव यावत्ते, वंशो भावी महर्द्धिकः ॥ ११३ ॥ मूत्तोमिव श्रियं चन्द्र-स्तामथारोपयद्रथे ॥ नन्दसम्पदमादातुं, तद्गुहे ते त्रयोऽप्यगुः ॥ ११४ ॥ तत्र चैकाऽभवत्कन्या, गरलीभूतभूघना ॥ आजन्मामोजयत्तां हि, नन्दराड् विषमं विषम् ॥ ११५ ॥ तां च पर्वतकः प्रेक्ष्य, जज्ञे गाढानुरागभाक ॥ चाणक्योऽपि ततस्तस्मै, तां ददौ धिषणानिधिः ॥ ११६ ॥ तदैव तस्या विवाहं, प्रारेभे स महीपतिः॥ संक्रान्तगरलचाभू-त्सद्यस्तत्पाणिसङ्गमात् ॥ ११७॥ विषव्याप्तवपुः सोऽथ, चन्द्रगुप्तमिदं जगौ ॥ हे मित्र ! याम्यहं मूच्छो-मुरगग्रस्तवशम् ॥ ११८॥ तत्पाहि पाहि मां वत्स !, कुरु काञ्चित्प्रतिक्रियाम् ॥ अन्यथाह मा नियतं व्यथयानया ॥ ११९ ॥ ततो जाङ्गुलिका मन्त्र-विज्ञाश्च क्वेति वादिनम् ॥ चाणक्योऽन्वशिषचन्द्र- गुप्तमेवं तदा शनैः ॥ १२० ॥ पश्चान्मार्योऽप्यऽयं मौर्य !, म्रियते खयमेव चेत् ॥ तदोपेक्षख दक्षो हि, रक्षेत्को यान्तमामयम् ? ॥ १२१ ॥ ["अन्यच्च"-]तुल्यार्थ तुल्यसामर्थ्य, मर्मज्ञं व्यवसायिनम् ॥ अर्धराज्यहरं मित्रं, यो न हन्यात्स हन्यते ! ॥ १२२ ॥ तत्साम्प्रतं साम्प्रतं ते, मौनमेवेति तेन सः ॥ अनुशिष्टो भ्रकुट्या च, निषिद्धो मौनमाश्रयत् ॥ १२३ ॥ ततः पर्वतकोशः, प्रपेदे नामशेषताम् ॥ उद्यमो हि विना भाग्यं, प्रत्युतानर्थदो भवेत् ! ॥ १२४ ॥ तस्य राज्यमपुत्रस्य, राज्यं नन्दस्य चाखिलम् ॥ बभूष चन्द्रगुप्तस्या-धीनं भाग्यैकसेवधेः ॥ १२५ ॥ तदा च केऽपि तद्राज्ये, चौर्य नन्दनरा व्यधुः ॥ अन्यमारक्षकं कश्चि-चाणक्योऽमार्गयत्ततः ॥ १२६ ॥ अगाच नलदामाह्व-कुविन्दस्य गृहं भ्रमन् ॥ मत्कोटकबिलेष्वप्निं, क्षिपन्तं तं ददर्श च ॥ १२७ ॥ किं करोषीति चाणक्य-स्तमप्राक्षीच सादरम् ? ॥ उन्मुखीभूय सोत्कर्ष, कुविन्दोप्येवमब्रवीत् ॥ १२८ ॥ दुष्टान्मत्कोटकानेतान् , मत्सूनोदशदायिनः ॥ सान्वयान् हन्तुमनलं, बिलेषु प्रक्षिपाम्यहम् ॥ १२९ ॥ इति तस्य गिरा ज्ञात्वा, कर्मठं सोचमं च तम् ॥ गत्वा च चन्द्रगुप्तान्ते, चाणक्योऽजूहवन्मुदा ॥ १३० ॥ तस्मै पुराध्यक्षतां च, चन्द्रगुप्ताददापयत् ॥ भोज्याद्यैः सोऽपि विथास्या-ऽखिलांचौरान् जघान तान् ॥ १३१ ॥ एवं मौर्यस्य साम्राज्य, जाते निष्कण्टकेऽन्यदा ॥ कोशार्जनाय चाणक्यः, पौरानाढ्यानजूहवत् ॥ १३२ ॥ भोजयित्वा च तान् सद्यो, मद्यं हृद्यमपाययत् ॥ हालाहलाहलेनास्तविवेकास्ते ततोऽभवन् ॥१३३॥ तेषून्मत्तेषु नृत्यत्सू-त्पतत्सु प्रपतत्सु च ॥ चाणक्योऽपि क्षीवचेष्टा-मनुतिष्ठन्नदोऽवदत् ॥ १३४ ॥ त्रिदण्डं धातुरक्ते द्वे, चीवरे स्वर्णकुण्डिका ॥ वशंवदो मे भूमांश्च, तन्मे वादय होलकम् ! ॥ १३५ ॥ तनिशम्याऽपरः सीधु-पानान्धो मदमुद्वहन् ॥ कस्याप्यनुक्तां खां लक्ष्मी, प्रादुष्कुर्वन्निदं जगौ ॥ १३६ ॥ योजनानां दशशती, ब्रजतो मत्तदन्तिनः ॥ पदे पद ददे लक्षं, तन्मे वादय होलकम् ! ॥ १३७ ॥ ततोऽहम्पूर्विकापूर्व-मन्योप्येवमवोचत ॥ उसे तिलाढके बाढ-मुद्गते फलितेऽपि च ॥१३८॥ निष्पद्यन्तेऽत्र यावन्त-स्तिलास्तावन्ति मद्हे॥ सन्ति दीनारलक्षाणि, तन्मे वादय होलकम् ! ॥ १३९॥ [युग्मम् ] अन्योप्यूचे नव्यवर्षा-पूर्णशैलापगारये ॥ एक वासरसात-नवनीतेन भूसा ॥ १४० ॥ पालीमहं निवभामि, तन्मे वादय होलकम् ! ॥ तेनेत्युक्तेऽपरोऽवादीद्वादी चाक्षेपपूर्वकम् ॥ १४१ ॥ [ युग्मम् ] एकाहजातजात्याश्व-किशोरस्कन्धकेसरैः ॥ वेष्टयेऽदः पुरं विष्वक्, तन्मे वादय होलकम् ! ॥ १४२ ॥ ततः परोऽवदच्छाली, विद्यते द्वे ममोत्तमे ॥ प्रसूतिकागर्दभिके, छिन्नछिन्नप्ररोहिके ॥ १४३ ॥ एतद्रनद्वयपते-स्तन्मे वादय होलकम् ! ॥ अन्यस्त्वेवं जगौ द्रव्य-सहस्रं मम विद्यते ॥ १४४ ॥ सदा चन्दनलिसोह-मप्रवासी ऋणोज्झितः ॥ अस्मि खवशभार्यश्च, तन्मे वादय होलकम् ! ॥ १४५॥ इत्थं ते मदि. रापान-विवशाः सम्पदोऽखिलाः॥ प्रादुश्चक्रुर्गद्यपो हि, सद्भावं द्राक् प्रकाशयेत् ॥१४६॥ यतः-"कुविअस्स आउरस्स य, वसणप्पत्तस्स रागरत्तस्स ॥ मत्तस्स मरंतस्स य, सम्भावा पायडा होति ॥ १४७ ॥” ततश्च तेषां चाणक्यः, श्रियं विज्ञाय धीनिधिः ॥ तेभ्यः खास्थ्यं प्रपन्नेभ्यो, यथाई धनमग्रहीत् ॥ १४८ ॥[तथा हि-] सामयोनेः शुभगतेरेफयोजनयायिनः ॥ पदमेयानि दीनार-लक्षाण्याचादुपाददे ॥ १४९ ॥ प्ररूद्वैकतिलोत्पन्न-तिलमेयानि चापरात् ॥ एकाहम्रक्षणाज्यं च, प्रतिमासं तृतीयतः ॥ १५० ॥ तुर्याकदिनोत्पन्नान , प्रतिमासं किशोरकान् ॥ शालीश्च पञ्च