________________
॥ ६४॥
उत्तराप्ययनसूत्रम् चाणक्यश्चारुधीनिधिः॥प्रावीविशञ्चन्द्रगुसं, सवेशस्थे सरोवरे ॥६४ ॥ स्वयं तु निर्णेजकवत् , प्रारेभे वस्त्रधावनम् ॥ तत्राऽऽयातोऽथ नन्दाश्व-वारस्तमिति पृष्टवान् ॥६५॥ चन्द्रगुमो व्रजन्नत्र, दृष्टो रे ! रजक ! त्वया ॥ सोप्यूचेऽन्तःसरो नंष्ट्वा, प्रविष्टः स हि विद्यते ॥ ६६ ॥ ततः सादी तमाक्रष्टुं, प्रविविक्षुः सरोन्तरे ॥ उत्तीर्य तुरगाच्छस्त्र-सन्नाहादि विहाय च ॥ ६७ ॥ कौपीनमात्रभृद्याव-जलोपान्तमुपाययौ ॥ तावत्तस्यैव खङ्गन, चाणक्यस्तच्छिरोऽच्छिनत् ॥६८॥[युग्मम् ] चन्द्रगुप्तमथाइय, तस्मिन्नारोप्य वाजिनि ॥चाणक्यः पुरतोऽचाली-प्रतिभाविभवोर्जितः॥६९॥
च्छ, हे वत्स ! त्वामहं यदा ॥ सादिनेऽवादिषं चित्ते, किमचिन्ति त्वया तदा ॥ ७० ॥ चन्द्रः प्रोवाच हे पूज्याः !, ध्यातमेतन्मया तदा ॥ एतदेव विदन्त्याः , सुन्दरं खलु न त्वहम् ! ।। ७१ ॥ तदाकर्ष्यातिसन्तुष्टथाणक्यो ध्यातवानिति ॥ वशंवदः सदाप्येष, भावी मम सदश्ववत् ॥७२॥ ध्यायन्तमिति चाणक्यं, ब्रजन्तं पुरतो द्रुतम् ॥ चन्द्रगुप्तोऽब्रवीदार्य !, क्षुधा मां बाधतेऽधिकम् ॥ ७३ ॥ ततश्चन्द्र बहिर्मुक्त्वा, भक्तार्थ चणकात्मजः ॥ प्रति ग्राम वजन्नक, भट्टं दृष्ट्वति पृष्टवान् ॥ ७४ ॥ ग्रामेऽत्र लभ्यते भिक्षा, सोऽभ्यधालभ्यते भृशम् !॥ मयाप्यत्राधुना लेभे, दधिकूरकरम्बकः ॥ ७५ ॥ चाणक्योऽचिन्तयद्भक्त-कृते ग्रामे व्रजाम्यहम् ॥एकाकी चन्द्रगुप्तस्तु, बहिस्तिठति साम्प्रतम् ॥ ७६ ॥ तदयं मयि दूरस्थे, निर्दयैनन्दसादिभिः ॥ हनिष्यते चेत्तद्भावि, राज्यं मे खप्न एव हि ! ॥ ७७ ॥ तस्मादस्यैव भट्टस्यो-दरात्कृष्वा करम्बकम् ॥ ददे तस्मै दुर्दशा हि, तरणीया यथातथा ! ॥७८ ॥ ध्यात्वेति जठरं तस्य, चाणक्यो दारयत्स्वयम् ॥ खार्थसिद्धयै परद्रोह-करान् धिर धिग् नराधमान् ! ॥ ७९ ॥ ततो हत्वा स तद्भोज्यं, चन्द्रगुप्तमभोजयत् ॥ सोप्यतिक्षुधितोऽज्ञासी-न तद्रसविपर्ययम् ! ॥८०॥ मौर्ययुक्तोऽथ चाणक्यो, ग्राममेकं दिनात्यये ॥ अगात्तत्र च भिक्षायै, भ्राम्यन् रोरगृहं ययौ ॥ ८१॥ तदा च तस्य गेहस्य, खामिन्या वृद्धयैकया ॥ बालानां भूयसामुष्ण-रब्बाऽभूत्परिवेषिता ॥८२॥ तस्यामेकः शिशु दं, क्षुधितः प्रक्षिपन् करम् ॥ दग्धा. गुली रुरोदोच-स्तं च वृद्धेत्यऽभाषत ॥ ८३ ॥ वेत्सि चाणक्यवन्नैव, किञ्चित्त्वमपि मूढ रे!॥ तन्निशम्याऽथ चाणक्यस्तां पप्रच्छेति सादरम् ॥ ८४ ॥ वृद्धे ! त्वया कुतश्चक्रे, चाणक्योऽत्र निदर्शनम् ! ॥ वृद्धबुद्धिस्ततो वृद्धा, चाणक्यमिबमभ्यधात् ॥ ८५॥ यथा हि पूर्व चाणक्यो, बाह्यं देशमसाधयन् ॥ रुन्धानः पाटलीपुत्रं, मूढः प्राप विगोपनाम् ॥८६॥ बालकोऽपि तथैवाय-मलिहन् परितः शनैः ॥ मध्य एव क्षिपन् पाणि, दाहमत्युग्रभासदत् ॥८७॥ चाणक्यस्तत एवास्य, तुलामारोपितो मया ॥ महानपि हि निर्बुद्धिालादपि विशिष्यते ॥ ८८ ॥ तच्छृत्वा योषितोऽप्यस्याः, शस्या धीरिति चिन्तयन् ॥ चाणक्यो हिमवत्कूट-सन्निवेशं ततो ययौ ॥ ८९॥ तत्र राज्ञा पर्वतकामिधेन सममुत्तमाम् ॥ चाणक्यो विदधे मैत्री, कांक्षन् साहायकं ततः ॥९॥ अन्येधुरिति चाणक्य-स्तं प्रोचे चेत्समीहसे ॥ नन्दमुन्मूल्य तद्रावं, विभज्यादबहे तदा ॥९१॥ मम बुद्धिबलं सैन्य-बलं च भवतोऽतुलं ॥ कार्येस्मि
व्यतां लभतां सखे। ॥९२॥ तदङ्गीकृत्य चाणक्य-वाक्यं पर्वतको नृपः॥ सचन्द्रगुप्तः प्रारेभे, नन्ददेशस्य साधनम् ॥९३॥ पुरमेकं तु तेनैव, ग्रहीतुमशकन् बलात् ॥ विवेश तत्र चाणक्यो, भिक्षायै भिक्षुवेषभृत् ॥ ९४ ॥ तत्र वास्तूनि सम्प्रेक्ष-माणः सोथ त्रिदण्डिकः ॥ सकलापाः सप्त देव्यो-ऽपश्यदिन्द्रकुमारिकाः ॥१५॥ अभङ्गं तत्पुरं तासां, प्रभावादवबुध्य सः॥ मयैताः कथमुत्थाप्या, विममर्शेति यावता ॥९६ ॥ तावत्तं पुररोधार्ताः, पप्रच्छुरिति नागराः ॥ भगवन् ! पुररोधोऽयं, कदा खल्वपयास्यति ? ॥ ९७ ॥ ततः प्रोवाच चाणक्यो, यावदत्र भवन्त्यमूः ॥ देवीनां प्रतिमास्ताव-त्पुररोधक्षतिः कुतः ? ॥ ९८ ॥ पौरास्तेऽथ ततः स्थाना-त्ताः क्षिप्रमुदपाटयन् ॥ धूतैः प्रतारितानां हि, नाऽकार्य किश्चिदङ्गिनाम् ! ॥ ९९ ॥ तदा चाणक्यसङ्केता-चन्द्रपर्वतकावपि ॥ पलायेतां द्रुतं तच्चा-ऽऽकर्योचैर्मुमुदे जनः ॥ १०० ॥ भूयो व्याघुट्य तौ क्षिप्र-मग्रहीष्टां च तत्पुरम् ॥ नन्ददेशं च चाणक्य-धियाऽसाधयतां रयात् ॥ १०१॥ प्रवर्धमानसैन्यादि-संयुतास्ते त्रयोऽप्यऽथ ॥ अवेष्टयन्नन्दपुरं, निधानमिव भोगिनः ॥ १०२ ॥ तदा च क्षीणपुण्यत्वात् , क्षीणबुद्धिपराक्रमः ॥ चाणक्यस्यान्तिके नन्दो, धर्मद्वारमयाचत ! ॥ १०३ ॥ ततः प्रोवाच चाणक्य-स्त्वमेकेन रथेन यत् ॥ नेतुमीशस्तदादाय, पुरान्निर्याहि निर्भयः ॥ १०४ ॥ नन्दोऽपि द्वे स्त्रियौ कन्या-मेकां सारधनानि च ॥ रथेऽधिरोप्य नगरा-निर्ययौ दीनतां गतः॥१०५॥ चाणक्यचन्द्रगुप्तौ च, स च पर्वतको नृपः ॥ पुरे प्रवेष्टुमाजग्मु-सदैवानन्दमेदुराः ॥ १०६ ॥ तदा च सा नन्दसुता, चन्द्रगुप्तं निरैक्षत ॥ सद्यो जातानुरागा च, जज्ञे तत्सङ्गमोत्सुका ॥ १०७॥ चन्द्रगुप्तास्यचन्द्रक-चकोरायितलोचनाम् ॥