________________
उत्तराप्ययनसूत्रम्
तं निशम्याऽथ चाणक्य-श्वेतसीति व्यचिन्तयत् ॥ नूनं जगति दारियं, सोच्छ्वासं मरणं नृणाम् ! ॥ २०॥ परं पराभवस्थानं, विशां दारिद्यमेव हि ॥ येन मातुरहेप्येवं, प्रापदेषा पराभवम् ! ॥ २१ ॥ प्रकाशयन्ति धनिना-मसत्यामपि बन्धुताम् ॥ लज्जन्ते दुर्गतैर्लोका-स्तात्विकसजनैरपि ! ॥ २२ ॥ कलावान् कुलवान् दाता, यशखी रूपवानपि ॥ विना श्रियं मवेन्मों , निस्तेजाः क्षीणचन्द्रवत् ॥२३॥ दौःस्थ्यनाशाय तत्किचि-हातारं प्रार्थये स्वयम् ॥ द्विजन्मनां हि याबैव, निधानं परमं मतम् ॥ २४ ॥ मम दौःस्थ्यापनोदस्तु, भावीराब केनचित् ॥ तापोपशान्तिः शैलस्य, न हि स्यान्मेघमन्तरा ॥ २५ ॥ ददाति नन्दभूपच, विप्राणां बहुलं धनम् ॥ विमृश्येति जगाम द्राक्, चाणक्यः पाटलीपुरम् ॥ २६॥ सोऽथ कार्तिकराकार्या, पूर्वन्यस्तासनब्रजाम् ॥ गत्वाऽऽस्थानसमां नन्द-नृपासनमशिश्रियत् ॥ २७ ॥ अथ राजसभां नन्द-महीपतिरुपागमत् ॥ एकेन सिद्धपुत्रेण, निमित्तज्ञेन संयुतः॥ २८ ॥ तत्रस्थं वीक्ष्य चाणक्यं, सिद्धपुत्रोऽब्रवीदिति ॥ विप्रोऽसौ नन्दवंशस्य, छायामाक्रम्य तिष्ठति ॥ २९ ॥ ततश्चाणक्यमुशिदास्युवाचेति सादरम् ॥ भगवन्निदमध्याख, द्वितीयं सिंहविष्टरम् ॥ ३०॥ स्थास्यत्यस्मिन्नासने म- कमण्डलुरिति ब्रुवन् ॥ स तत्र कुण्डिकां न्यास्थ-माऽत्याक्षीदाद्यमासनम् ॥ ३१ ॥ तृतीयमेवं दण्डेन, चतुर्थश्चाक्षमालया ॥ पञ्चमं ब्रह्मसूत्रेण, सोऽरुन्धनमनाटयन् ॥ ३२॥ ततो दासी ज़गौ धार्ष-महो ! अस्य द्विजन्मनः ॥ यदेवमुच्यमानोऽपि, न मुञ्चत्याद्यमासनम् ॥ ३३ ॥ तद्विप्रेणाऽपि धृष्टेन, किमनेनेति वादिनी ॥ सा निहत्याऽनिणा वेगा-चाणक्यमुदतिष्ठिपत् ॥ ३४ ॥ तया दास्येति चाणक्यो-ऽधिक्षिप्तः प्रज्वलन् कुधा ॥ समक्षं सर्वलोकाना-ममुं चके प्रतिश्रवम् ॥३५॥ “कोशैश्च भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् ॥ उत्पाव्य नन्दं परिवर्तयामि, महाद्रुमं वायुरियोग्रवेगः! ॥ ३६ ॥" प्रतिश्रुन्येति चाणक्यो, निरगानगराद्वहिः ॥ अनेन भिक्षुणा किं स्या-दिति राज्ञाप्युपेक्षितः! ॥ ३७ ॥ पित्रा प्रोक्तं स्मरन् बिम्बा-न्तरितं राज्यमात्मनः ॥ बिम्बभूतं नरं सोऽथ, प्रासुकामोऽभ्रमद्भुवि ॥ ३८॥ मयूरपोषकग्राम, सोथागानन्दभूपतेः ॥ परिव्राजकवेषेण, भिक्षार्थ तत्र चाऽभ्रमत् ॥ ३९ ॥ तत्रासीद्धामणीपुत्र्याः, शशभत्पानदोहदः ॥ तं च पूरयितुं कोऽपि, नाऽशकन्मतिमन्तरा ॥४०॥ तस्याऽवृत्तौ च सा बाला, लतेष तनुतां दधौ ॥ स्त्रीणां हि दोहदापूर्ति-व्याधिमरणं स्मृतम् ! ॥४१॥ तदा च प्रेक्ष्य चाणक्यं, तस्याः पित्रादिबन्धवः ॥ इत्य च्छंश्चन्द्रपान- दोहदः पूर्यते कथम् ? ॥४२॥ चाणक्योऽथ जगादेवं, तत्सुतं दत्त चेन्मम ॥ तदाहं दोहदं तस्यास्त्वरितं पूरयाम्यमुम् ॥४३॥ अपूर्णदोहदा गर्भा-न्विता मा मियतामियम् ॥ तैर्विमृश्येति चाणक्य-वचनं प्रतिपेदिरे ॥ ४४ ॥ सच्छिद्रमथ चाणक्यो-ऽचीकरत्पटमण्डपम् ॥ तस्यो चाऽमुचच्छन्नं, नरं छिद्रपिधायकम् ॥ ४५ ॥ छिद्रस्य तस्य चाऽधस्ता-ज्यधात्स्थालं पयोभृतम् ॥ निशीथे कार्तिकीचन्द्र-स्तत्र प्रतिमितिं दधौ ॥ ४६ ॥ प्रतिबिम्ब च तच्चान्द्र-मन्तर्वन्याः प्रदर्य सः ॥ पिवेत्यूचे ततस्तुष्टा, तत्पातुं सा प्रचक्रमे ॥ ४७ ॥ चन्द्रपानधिया स्थाल-पयः साऽपाद्यथायथा ॥ पिदधे मण्डपछिद्र-मुपरिस्थस्तथा तथा ॥ ४८ ॥ एवं दोहदमापूर्य, तस्याः पृथ्व्यां परिभ्रमन् ॥ चाणक्यो धातुवादाथैः, प्रारेमे द्रविणार्जनम् ॥ ४९ ॥ सम्पूर्णदोहदा साऽपि, समये सुषुषे सुतम् ॥ तं च पित्रादयश्चन्द्र-गुप्तनामानमूचिरे ॥ ५० ॥ ववृधे चन्द्रगुप्तोऽपि, खजनान् मोदयन् क्रमात् ॥ औदार्यधैर्यगाम्भीर्यसौन्दर्यादिगुणैः समम् ॥ ५१ ॥ स बालकैः सह क्रीडां, कुर्वन्नुवशिवत्सदा ॥ ददौ प्रामादिकं तेषां, हयीकृत्यारोह तान् ॥ ५२ ॥ तं द्रष्टुकामश्चाणक्यो, भ्रमंस्तत्राऽन्यदा ययौ ॥ अपश्यञ्चन्द्रगुप्तं च, क्रीडन्तं भूपलीलया ॥ ५३॥ महाराज ! ममाऽपि त्वं, किञ्चिद्देहीति चाऽब्रवीत् ॥ ततश्चन्द्रोऽनदद्विप्र!, गृहाण सुरभीरिमाः ॥ ५४ ॥ चाणक्योऽथाऽब्रवीदेता, गावो गृहन् विभेम्यहम् ॥ बमाण चन्द्रो मा भैपी-वीरभोग्या हि भूरियम् ॥ ५५ ॥ ततः पप्रच्छ चाणक्यः, कस्यायमिति बालकान् ? ॥ शिशोरप्यस्य विज्ञानं, प्रकृष्टमिति चिन्तयन् ॥ ५६ ॥ जगुर्बालाः परित्राजः, पुत्रोऽसौ विप्र ! वर्तते ॥ गर्भस्थोऽप्येष यत्तस्मै, दत्तो दोहदपूरणात् !॥ ५७ ॥ चाणक्योऽथ खकीयं तं, बाल ज्ञात्वेत्यभाषत ॥ एहि वत्स ! ददे राज्यं, यस्मै दत्तोऽसि सोऽस्म्यहम् ॥ ५८ ॥ तच्छुत्वा द्रुतमायातं, हत्वा तं राज्य कांक्षिणं ॥ चाणक्यो द्राक् पलायिष्ट, सलोपत्र इव तस्करः ॥ ५९ ॥ धातुवादार्जितद्रव्यैः, सेनां कृत्वाऽथ काश्चन ॥ रुरोध पाटलीपुत्रं, प्रतिज्ञापूरणाय सः॥६० ॥ ततो नन्देन तत्सैन्ये, खल्पत्वाद्विद्रुते द्रुतम् ॥ चाणक्यश्चन्द्रगुप्तेन, समं सद्यः पलायत ! ॥६१॥ ततो नन्दश्चन्द्रगुप्तं, ग्रहीतुं सादिनो बहून्॥आदिश्य प्राविशन्तुष्टैः, पौरैः क्लसोत्सवे पुरे ॥६२॥ तेषां नन्दाश्चवाराणां, मध्यादेकः समाययौ ॥ चन्द्रगुप्तमनुक्षिप्रं, वायुवेगेन वाजिना ॥ ६३ ॥ दूराद्वीक्ष्य तमायान्तं,