________________
॥१२॥
उत्तराप्ययनसूत्रम् लक्षणम् ॥ ईशोऽयं ध्वजः कस्से-त्यपृच्छत्पारिपार्थकान् ! ॥ ११॥ न विम इति तैरुक्ते, पार्थिवस्तमजूहवत् ॥ अभ्यर्णमागतं तं च, प्रेक्ष्योपालक्षयत्खयम् ॥ १२ ॥ दुर्दशासु सहायोऽसौ, ममासीदिति चिन्तयन् ॥ गजादुत्तीर्य तं चक्री, सस्नेहं परिषखजे!॥ १३ ॥ तस्मै कोशलिकी वार्ता-मापृच्छयेति नृपोऽवदत् ॥ याचख सन्मते ! सद्यो, यत्तुभ्यं रोचतेऽधुना ॥ १४ ॥ विप्रोऽजल्पत् प्रियां पृष्ट्वा, याचिष्ये त्वामहं विभो !॥ विहस्साऽथ नपः प्रोचे. तां पृड्वा द्रुतमापतेः ॥ १५ ॥ द्विजस्ततो निजग्राम, गत्वाऽप्राक्षीदिति प्रियाम् ॥ चक्री तुष्टो ददातीष्टं, तत्किमभ्यर्थये प्रिये ! ॥ १६ ॥ सग्निशम्येति सा दध्यो, वृद्धिं प्रासो स्वयं द्विजः ॥ मानयिष्यति मां नैव, सम्पदुत्कर्षगर्वितः!॥१७॥ यदुक्तं-"प्रवर्द्धमानः पुरुष-प्रयाणामुपघातकः ॥ पूर्जितानां मित्राणां, दाराणां वेश्मनां तथा ॥ १८ ॥” तदस्मै ताशं किञ्चित् , प्रार्थ्यमर्थ प्रवीम्यहम् ॥ जीवामः ससुखं येन, न चोत्कर्षः प्रजायते ॥ १९ ॥ ध्यात्वेति साऽभ्य. धाद्विप्रं, खामिन् ! याचख भोजनम् ॥ दीनारदक्षिणायुक्तं, भरते सर्ववेश्मसु ! ॥ २० ॥ नगरप्रामदेशाधै-बहुभिः किं परिग्रहैः ॥ कचाकुलो भवेन्नित्यं, तेषां सत्यापनादिना ? ॥ २१॥ तत्प्रपद्य ततः सद्यः, सोऽपि गत्वा नृपान्तिके ॥ अयाचत खजायोक्त-मित्यूचे च प्रमोदभाक् ॥२२॥ अहं हि प्राक् भवद्गहे, प्रभो ! भोक्ष्ये ततः परम् ॥ त्वदन्तःपुरभूमीशा-ऽमात्सलोकगृहेष्वऽपि ॥ २३॥ एवमस्मिन्पुरे भुक्त्वा, परेष्यपि पुरादिषु ॥ भोक्ष्येऽहं भरतक्षेत्रे, सकलेषु यथाक्रमम् ॥ २४ ॥ इत्थं सवेत्र भुक्त्वा च, भोक्ष्ये त्वत्सदने पुनः॥ इत्यूचानं च तं विप्र-मित्यूचे मेदिनीपतिः॥२५॥ तुष्टान्मत्तः किमेताव-द्याचसे ? त्वं महामते ! ॥ प्रत्यक्षात्कल्पवृक्षात्किं, करीरं कोऽपि याचते ? ॥२६॥ त्वमेतद्याचमानो हि, याआभ्यासान्न लज्जसे ! ॥ विडम्बनाप्रायमिदं-न त्वहं दातुमुत्सहे ! ॥ २७ ॥ तत्त्वं वृणुष्व देशाधं, द्रविणं वा यथेप्सितम् ॥ संस्थितश्च ममाभ्यणे, मुंव वैषयिकं सुखम् ॥२८॥ विप्रः प्रोचे न देशाधैः, कार्य मम महीपते ! ॥ किन्तु पूर्वोक्तमेव त्वं, देहि चेदातुमीहसे ! ॥ २९ ॥ तदाकर्ण्य नृपोऽध्यासी-दहो ! सत्यपि दातरि ॥ नाऽऽदातुमीष्टं निभोग्य-स्तद्ददाम्यतदेय हि ॥ ३०॥ ध्यात्येति चक्री तद्वाचं, प्रतिप्रद्य खसमनि ॥ तसे भोजनदीनारौ, ददौ दिव्ये च चीपरे ॥ ३१ ॥ ततः प्रतिगृहं विप्रो, भुआनोऽपि नृपाज्ञया ॥ पारं पुरस्य तस्याऽपि, न प्रापापारसमनः ! ॥ ३२ ॥ तर्हि व भरतक्षेत्र-वेश्मनां प्रान्तमाप्य सः ॥ चक्रवर्तिगृहे भोक्तुं, भूयो वारकमानयात् ! ॥ ३३ ॥ दिव्यानुभावाचदि वा स भूयो-प्युर्वीपतेर्भोजनमश्नुवीत ॥ भ्रष्टो नरत्वान्न तु धर्महीनः, पुनर्नरत्वं लभते प्रमादी ! ॥ ३४ ॥ इति चोलकदृष्टान्तः प्रथमः॥१॥ अथ पाशफदृष्टान्तः
तथा हि गोलविषये, ग्रामे च चणकाभिधे ॥ चणेश्वरीप्रियो जैन-विप्रोऽभूषणकाद्वयः ॥ १॥ अन्यदा तद्गृहे तस्थ- निनः केऽपि साधवः ॥ तदा च तस्य पुत्रोऽभू-ददतैर्दशनैः समम ॥२॥ जातमात्रं च तं बालं. मनिभ्योऽनमयद्विजः॥हे भदन्ताः ! सदन्तोऽसौ, जातोऽस्तीति निवेदयन् ॥ ३॥ ततस्ते मुनयः प्रोचुर्बालोऽयं भविता नृपः॥ तच्छुत्वा घणको भूरि-विषण्णो ध्यातवानिदम् ॥ ४ ॥ मत्सुतोऽप्येष मायासी-द्राज्यारम्भैरधोगतिम् ! ॥ ध्यात्वेति घृष्ट्वा तद्दन्तान् , स साधुभ्यस्तदप्यवक् ॥ ५॥ मुनयोऽप्यवदन्नव-मयं हि रदघर्षणात् ॥ भविता भूपतिनिम्बा-न्तरितो भरितो गुणैः ॥ ६ ॥ ततस्तस्याऽभिधां चक्रे, चाणक्य इति तत्पिता ॥ सोऽथ शुक्लद्वितीयेन्दु-रिव वृद्धिं दधौ क्रमात् ॥ ७॥ कलिन्दिकाः कण्ठपीठे, स चकार खनामवत् ॥ जन्मान्तरानुगामीव, श्राद्धत्वञ्चादितोऽप्रयत् ॥ ८ ॥ यौवने पर्यणैषीच, कुलीनां विप्रकन्यकाम् ॥ निर्धनोऽपि हि सन्तोषा-द्रव्यार्थ नोधमं व्यधात् ! ॥९॥ अन्यदा तत्प्रिया प्रातु-विवाहेऽगाद्गुहे पितुः ॥ निर्धनत्वेन सामान्य-वेषा भूषणवर्जिता ! ॥ १० ॥ महेभ्यबामणोदूढा-स्तगिन्योऽपरा अपि ॥ तत्राऽऽययुर्महामूल्य-वस्त्रभूषणभूषिताः ! ॥ ११॥ तासां परिजनः सर्वचक्रे भूयासमादरम् ॥ वाक्यैः पैजुषपीयूष-भूयः सम्भाषणादिकम् ! ॥ १२ ॥ चाणक्यस्याऽङ्गनां तां तु, न किञ्चिकोऽप्यऽजल्पयत् ॥ आदरो हि मवेत्सर्वः, श्रीणां न तु वपुष्मताम् ॥ १३ ॥ तां च भूषणताम्बूल-गन्धमाल्यादि. वर्जिताम् ॥ बन्धुवर्गो भगिन्यादि-रपि वाढमहीलयत् ॥ १४ ॥ भ्रातृजायादयोऽप्यऽस्याः, प्रतिपत्तिं न चक्रिरे ॥ पतिभेदश्च नियतं, भोजनादावपि न्यधुः ! ॥ १५ ॥ ततोऽतिलजितोद्विमा, दौःस्थ्यात्प्राप्सा पराभवम् ॥ कथञ्चिदपि वीवाह-मतिवाहयति स्म सा ॥ १६ ॥ विवाहोत्सवपूत्तौ तु, सा खीयैरेव चीवरैः ॥ आगात्पत्युग्र्हे शोकसवदश्रुजलाविला ॥ १७ ॥ चाणक्येनाऽथ तहुःख- दुःखिना दुःखकारणम् ॥ पृष्टाऽपि सा तत्कुस्थान-प्रणवन्न हियाऽवदत् ॥ १८॥ ततो भर्ना सनिर्बन्ध-मुक्ता मुक्तागणोपमम् ॥ मुश्चन्त्यश्रुत्रजं माह, कथञ्चित्तं पराभवम् ॥१९॥