________________
उचराष्पवनसूत्रम्
॥११॥ पुरकारे ७, एक्कारस वेअणिजंमि ॥२॥” यदुक्तं एकादश वेदनीये इति तेऽमी-“पंचेव आणुपुची ५, चरिआ ६ सेजा ७ तहेव जले ८ अ॥ वह ९ रोग १० तणप्फासा ११, सेसेसु नत्थि अवयारो ॥३॥" तथा उत्कर्षतः समकं विंशतिरेव परीषहा उदयन्ते, मिथो विरुद्धयोः शीतोष्णयोश्चर्यानषेधिक्योश्चैकतरस्यैव भावात् । तथाऽनिवृत्तिवादराख्यं नवमगुणस्थानकं यावत्सर्वेऽपि परीषहाः सम्भवन्ति, उदयस्तु पूर्वोक्तहेतोविशतेरेव । सूक्ष्मसम्परायादित्रये तु चतुर्दश, ससानां चारित्रमोहप्रतिवद्धानां दर्शनपरीषहस्य च तत्राभावात् , उदयस्त्वेतेषु द्वादशानाम् । सयोगिकेवलिनि एकादश, वेधप्रतिबद्धानामेव तत्र सम्भवात् , उदयस्त्विह नवानामिति ॥ साम्प्रतमध्ययनोपसंहारार्थमाहमूलम्-एए परीसहा सवे, कासवेणं पवेइआ।जे भिक्खू ण विहणणेजा, पुट्टो केणइ कण्हुइत्ति बेमि॥४६॥
व्याख्या-एते अनन्तरोक्ताः परीषहाः सर्वे काश्यपेन श्रीमहावीरखामिना प्रवेदिताः प्ररूपिता यान् ज्ञात्वेति शेषः, भिक्षुर्न विहन्येत न पराजीयेत, स्पृष्टो बाधितः केनाऽपि द्वाविंशतेरेकतरेणाऽपि, 'कण्हुइत्ति' कस्मिंश्चिद्देशे काले वा इति सूत्रार्थः, 'इतिः' परिसमाप्तौ, ब्रवीमीति प्राग्वत् ॥ ४६॥ ജയയായ ഇയാൾ
इति श्रीतपागच्छीयोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्याय-12 र श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वितीयाध्ययनं सम्पूर्णम् ॥ २॥ न्ाहन्छन्डन्हळहळहळला
“अथ तृतीयाध्ययनम्" ॥ अर्हन् । उक्तं परीषहाध्ययनं सम्प्रति चतुरङ्गीयमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने परीषहसहलमुक्तं, तच्च किमालम्बनमङ्गीकृत्य कर्तव्यमिति प्रश्नसम्भवे मानुषत्वादिचतुरङ्गदुर्लभत्वमालम्बनमाश्रित्त्युत्तरं, सवालम्बनमनेनोच्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रम्मूलम्-चत्तारि परमंगाणि, दुल्लहाणिह जंतुणो । माणुसत्तं सुई सझा, संजमम्मि अ वीरिअं ॥१॥ ___ व्याख्या-चत्वारि चतुःसंख्यानि परमाङ्गानि प्रधानकारणानि, धर्मस्येति शेषः, दुर्लभानि दुःप्रापाणि, इह संसारे, जन्तोदेहिनस्तान्येवाह-मानुषत्वं नरजन्म दुर्लभम् । यतः-"एगिदिआइजाइसु, परिभममाणाण कम्मवसगाण ॥ जीवाणं संसारे, सुदुल्लहं माणुसं जम्मं ॥१॥" श्रुति श्रवणं, धर्मस्येति गम्यते, साऽपि दुरवापा । यतः"आलस्स मोहेवण्णा, थंभा कोहा माय किवण्णत्ता ॥ भय सोगा अण्णाणा, वक्खेव कुऊहला रमणा ॥१॥ एएहिं कारणेहिं, लभ्रूण सुदुलहंपि माणुस्सं ॥ न लहइ सुई हिअरिं, संसारुत्ताराणं जीवो ॥ २॥ इति" तथा श्रद्धा श्रद्धानं, धर्मस्यैव, साऽपि दुर्लभैव । यतः-“कुबोहमिच्छाभिणिवेसजोगओ, कुसत्थपासंडविमोहिआ जणा ॥ न सहहने जिणणाहदेसिअं, चयंति बोहिं पुण केइ पाविअं ॥१॥ इति” । संयमे विरतौ, चः समुञ्चये, वीर्य मामर्थ्य. तदपि दुर्लभम् । यतः-"सहहमाणोवि जओ, सम्मं जिणणाहदेसि धम्मं ॥ न तरइ समायरिउ, विसपाइपमायविवसमणो॥१॥ इति सूत्रार्थः॥१॥मानुषत्वादीनां च दुर्लभत्वं कथयता चोलकादयो दश दृष्टान्ताः सूचिताः, तांश्चैवमाविश्वकार नियुक्तिकारः। “चोल्लग १ पासग २ धण्णे ३, जूए ४ रयणे अ५ सुमिण ६ चक्के अ७॥ चम्म ८ जुगे९परमाणू १०, दस दिलुता मणुअलंभे॥१॥" तत्र चोलको भोजनं, तदुपलक्षितमुदाहरणं चोलकस्तचैवं, तथा हि
अत्रैव भरतक्षेत्रे, पुरे काम्पील्यनामके ॥ ब्रह्माभिधोऽभवद्भप-थुलन्याह्वा च तत्प्रिया ॥१॥ तयोः पुत्रो ब्रमदत्तो, ब्रह्मभूपे मृते सति ॥ चुलनीरतदीर्घाख्य-भूपभीतेः पलायितः ! ॥ २ ॥ सुहृदा वरधनुना, समं पृथ्म्यां परि. भ्रमन् ॥ सुन्दराकृतिरित्यग्र-जन्मनाऽसेवि केनचित् ! ॥ ३॥ [ युग्मम् ] तं भूदेवं भूयसीषु, सहायं दुर्दशावपि । दिवानिशं सेवमानं, ब्रह्मदत्तोऽब्रवीदिति ॥ ४ ॥ ब्रह्मदत्ताभिधं लब्ध-राज्यमाकर्ण्य मां सखे ! ॥ मत्समीपे त्वयाऽऽ. गम्य- मनृणः स्वामहं यथा !॥५॥ ओमित्युक्त्वा द्विजः सोऽथ, खस्थानमगमन्मुदा ॥ क्रमेण ब्रह्मदत्तोऽपि, चक्रवर्तित्वमासदत् ॥ ६ ॥ तद्विज्ञाय स विप्रोऽपि, काम्पील्यपुरमागमत् ॥ अभिषेकस्तदा चाऽभू-चक्रिणो द्वादशा. ब्दिकः ॥७॥ ततो रविमिवोलूको, ददर्शाऽपि नृपं न सः॥ नाप पाप इव खर्गे, प्रवेशमपि तद्गृहे ! ॥ ८॥ विना हि गुणवैगुण्ये, दुष्प्रापो भूपसङ्गमः ॥सोऽय न्यात्वेति जीर्णानां, चक्रे ध्वजमुपानहाम् ! ॥९॥ अथ द्वादशभिर्वर्षेः, क्रीडायै निर्गते नृपे ॥ द्विजस्तं ध्वजमुत्पाख्या-अजजधरैः समम् ॥१०॥ भूपोऽथ तं ध्वजं वीक्ष्य, सर्वध्वजवि