________________
॥६ ॥
उचराष्पयनसूत्रम् सैन्याध्वानं विहाय सः ॥ नश्यन्नपि नृपस्यैव, पुरोगाईवयोगतः ॥ १३९ ॥ नृपोऽपि प्रेक्ष्य तं हस्ति-स्कन्धाहुतीर्य चाऽनमत् ॥ आह म चाहो ! भाग्यं मे, यूयं यदिह वीक्षिताः ! ॥ १४० ॥ तत्कृत्वाऽनुग्रहं खामि-न्मयीदं मोदकादिकम् ॥ एषणीयं प्रासुकं च, गृह्यतां गृह्यतां द्रुतम् ॥ १४१ ॥ नाऽद्य भोक्ष्येऽहमित्यु?-र्वदन् सूरिस्तु नाऽऽददे ॥ पात्रस्थो भूषणौषो मा, दृश्यतामिति चिन्तयन् ! ॥ १४२ ॥ तं मुञ्च मुञ्चेत्यूचानं, भिया भूपस्तु नाऽमुचत् ॥ हिया न नेति जल्पन्ती, नवोढा रमणो यथा ! ॥ १४३ ॥ भूभुजा मुहुराकृष्ट-मपि सूरिः पतगृहम् ॥ न मुमोच नवोढा स्त्री, भर्नाकृष्टमिवांशुकम् ! ॥ १४४ ॥ ततः प्रसव तत्पाणे-तमाच्छिद्य पतगृहम् ॥ तत्र यावन्नृपः क्षेमु-मारेभे मोदकादिकम् ॥ १४५ ॥ तावत्स तानलङ्कारा-निरीक्ष्य कुपितो भृशम् ! ॥ तमाचार्यमुवाचैवं, भृकुटीविकटाननः ॥ १४६ ॥ अरे पाप ! त्वया नूनं, पुत्रा व्यापादिता मम ॥ नो चेत्कथममी तेषा-मलङ्कारास्तवान्तिके॥१४७ ॥ रे दुष्ट ! द्विष्ठ ! पापिष्ठ !, साधुवेषविडम्बक ! ॥ यास्यसि त्वं कथं जीवन् , व्यापाद्य मम नन्दनान् ! ॥ १४८ ॥ श्रुत्वेति भूभृतो भाषा, साध्यसाकुलमानसः ॥ अधोमुखः सोऽनूचानो-ऽनूचानो ध्यातवानिति ॥१४९॥ अहो! विमूढचित्तेना-कार्यमेतत्कृतं मया ॥ यदेतदीयपुत्राणा- माददे भूषणग्रजः! ॥१५०॥ म ज्ञातं भूस्खामिनाऽमुना ॥ तदसौ मां कुमारेण, मारयिष्यति केनचित् ! ॥ १५१ ॥ पाप्मनो निखिलस्यापि, फलमेतदुपस्थितम् ॥ इदानीमेघ तत्कोऽत्र, शरणं मे भविष्यति ? ॥ १५२ ॥ अथवा पूर्वमेवेद-मविमृश्य व्यधामहम् ॥ तत्संयमसुखं त्यक्तं, यन्मया भोगकाम्यया ॥ १५३ ॥ तत्रैवं चिन्तयत्येव, मायां संहत्य तां सुरः ॥ आविर्वभूव खतनु-द्युतिधोतितदिङ्मुखः ॥ १५४ ॥ तमित्यूचे च भगवन् !, सोऽहं शिष्योऽस्मि वः प्रियः ॥ खयं निर्याम्य यः पूज्यै- रागन्तुं प्रार्थितोऽभवत् ॥ १५५ ॥ अहं हि व्रतमाहात्म्या-त्सुरोऽभूवं महर्द्धिकः ॥ स्मृत्वा वाक्यं च पूज्यानां, खवाग्बद्ध इहाऽऽगमम् ॥ १५६ ॥ मदनागमने कश्चि- कालक्षेपो बभूव यः ॥ स तु ज्ञेयो नवोत्पन्नदेवकार्याकुलत्वतः॥१५७॥ संयमभ्रष्टचित्तांच, युष्मान् बोधयितुं मया ॥ तन्नाट्यं विदधे पूज्यै-यदृष्टमधुनाऽध्वनि ! ॥ १५८ ॥ मयैव युष्मदाकूत-परीक्षार्थ परिष्कृताः ॥ षट्कायाहा दारकाः षट् , ससाध्वीका विकुर्विताः ॥१५९ ॥ ततोऽवबुध्य वः प्राज्यं, मोहोन्मादमुदित्वरम् ॥ मयोदपादि सैन्यादि-भयं तद्वंसनषिधम् ॥ १६० ॥ शङ्कातकममुं तस्मा- त्यक्त्वा मोहसमन्वितम् ॥ उन्मार्गगं मनोऽवाप्त-सन्मार्ग कुरुताऽऽत्मनः॥१६१॥ किञ्च-"संकंतदिधपेमा, विसयपसत्तासमत्तकत्तथा ॥ अणहीणमणअकजा. नरभवमसह न ति सरा ॥ १६२ ॥ चत्तारि सयाई गंधो उ मणुअलोगस्स ॥ उहुं वचइ जेणं, न हु देवा तेण आवंति ॥१६३॥” इत्याचागमवाक्यानि, जानद्भिरपि सूरिमिः ॥ मदनागमनेप्येत- कर्मारब्धं किमीशम् ? ॥ १६४ ॥ अन्यच दिव्यनाव्यादि-विलोकनकुतू. हलात् ॥ कालं यान्तं बहुमपि, नैव जानन्ति निर्जराः!॥ १६५ ॥ युष्माभिरपि तहिव्य-नाटकाक्षिप्तमानसैः ॥ ऊईस्थैरेव षण्मासी, निन्येऽश्रान्तैर्मुहूर्त्तवत् !॥ १६६ ॥ तद्भदन्ताः! विमोहोऽयं, कर्तुं वो नैव युज्यते ॥ कल्पान्तेऽपि किमु क्षीरा-म्भोधिरुलछतेऽवधिम् १ ॥१६७॥ भवाशा अपि यदा, कुर्वन्त्येवमनीदृशम् ॥ दृढधर्मा जगति क- स्तदा सन्यो भविष्यति ॥ १६८ ॥ तहुराचरितं सर्व-मालोच्येदं महाधियः! ॥ समाचरत चारित्रं, कर्मकक्षहुताशनम् ॥ १६९ ॥ गीर्वाणवाणीं श्रुत्वेति, प्रतिबुद्धो महाशयः ॥ स सूरिः खदुराचारं, भूयो भूयो निनिन्द तम् ॥ १७ ॥ वारं वारं च तं देव-मार्याषाढोऽब्रवीदिति ॥ साधु साधु त्वया वत्स !, बोधितोहं महामते ! ॥ १७१ ॥ अहं हि नरकाध्वानं, प्रपन्नोऽपि स्वकर्मभिः ॥ मोक्षमार्ग त्वयैवाऽथ, प्रापितो भावबन्धुना ॥ १७२ ॥ धर्माद्भष्टस्य मे भूयो, धर्मदानविधायिनः ॥ तवाऽनृणोऽहं नैव स्यां, ब्रवीमि किमतः परम् १ ॥ १७३ ॥ तं देवमभिनन्धेति, स्वस्थानमगमहुरुः ॥ आलोचितप्रतिकान्त-स्तपोत्युग्रं चकार च ॥ १७४ ॥ सुरोऽपि सूरिं नत्वा तं, प्रमोदभरमेदुरः ॥ क्षमयित्वा खापराध, सुरलोकमगात्पुनः ॥ १७५ ॥ नाषाढसूरिरिति दर्शनगोचरं प्राक्, सेहे परीषहममुं न तथा विधेयम् ॥ सरिः स एव सहते स्म यथा च पश्चा-त्सर्वैस्तथा व्रतिवरैः सततं स समः ॥ १७६ ॥ इति सम्यक्त्वपरीषहे श्रीआपाढाचार्यकथा ॥ २२ ॥ इत्युक्ता द्वाविंशतिः परीषहाः॥ __ नन्वते कस्मिन् कस्मिन्कर्मण्यन्तर्भवन्तीति चेदुच्यते-“दंसणमोहे सण-परीसहो पण्ण १ नाण २ पढमंमि ॥ परिमेलामपरीसह, सत्तेव चरित्तमोहंमि ॥१॥" अत्र ‘पढमंमित्ति' ज्ञानावरणे, 'चरिमेत्ति' अंतराये । अथ यदुक्तं सस परित्रमोहे, इति तानाह-“अकोस १ अरब २ इत्थी ३, निसीहिआ ४ अचेल ५ जायणा ६ चेव ॥ सकार